Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 6.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 6.4.1

चतुर्थं ब्राह्मणम् (पुत्रमन्थकर्मब्राह्मणम्)
एषां वै भूतानां पृथिवी रसः ।
पृथिव्या आपः ।
अपामोषधयः ।
ओषधीनां पुष्पाणि ।
पुष्पाणां फलानि ।
फलानां पुरुषः ।
पुरुषस्य रेतः ॥ ६.४.१ ॥

这些存在者的精华是地。地的精华是水。水的精华是草木。草木的精华是花。花的精华是果。果的精华是人(puruṣa)。人的精华是精液(retas)。

Bṛhadāraṇyaka 6.4.2

स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे ।
तां सृष्ट्वाध उपास्त ।
तस्मात्स्त्रियमध उपासीत ।
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् ।
तेनैनामभ्यसृजत ॥ ६.४.२ ॥

生主思念:“好吧,我为此准备一个依托。”于是他创造了一位女性。创造她之后,他从下方接近她。因此应当从下方接近女性。他从自身取出这块朝东的石头,并以它产生了她。

Bṛhadāraṇyaka 6.4.3

तस्या वेदिरुपस्थः ।
लोमानि बर्हिश् ।
चर्माधिषवणे ।
समिद्धो मध्यतस्तौ मुष्कौ ।
स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावानस्य लोको भवति ।
य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते ।
अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ ६.४.३ ॥

她的祭坛是她的膝部;她的毛是吉祥草(barhis);她的皮是压榨石(adhiṣavaṇa);中间燃烧的火就是那两个睾丸。行婆阇跋耶祭的祭祀者所获得的世界有多大,知此而轻慢下体、夺取这些女子善行的人所获得的世界也同样大。但不知此而轻慢下体的人,这些女子夺取他的善行。

Bṛhadāraṇyaka 6.4.4

एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह ।
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह ।
एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति ।
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ६.४.४ ॥

乌达拉迦·阿如尼知此而说。那伽·毛德伽利耶知此而说。古摩罗·诃利多知此而说:“许多生于婆罗门族的凡人,不知此而轻慢下体,便失去了力量与善行,离开此世。”而且,无论人是睡着还是醒着,大量的精液都会流出。

Bṛhadāraṇyaka 6.4.5

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः ।
इदमहं तद्रेत आददे ।
पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः ।
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् ।
इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ६.४.५ ॥

应触摸它,或随后诵念咒语:"我今日所泄之精,落于大地,流入草木,流入水中——我收回此精。愿力量(indriya)回到我身,愿光辉(tejas)回到我身,愿福运(bhaga)回到我身。愿火与dhiṣṇya各归其位。"以无名指与拇指取之,然后在双乳之间或双眉之间擦拭。

Bṛhadāraṇyaka 6.4.6

अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति ।
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः ।
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६.४.६ ॥

若他在水中见到自己的倒影,应对之诵咒:"愿光辉(tejas)、力量(indriya)、名声(yaśas)、财富(draviṇa)与善行(sukṛta)在我身中。"这实为女子之吉祥(śrī)——身着污衣者。因此,应走近身着污衣的有名声女子,并与之交谈。

Bṛhadāraṇyaka 6.4.7

सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् ।
सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् ।
इन्द्रियेन ते यशसा यश आदद इति ।
अयशा एव भवति ॥ ६.४.७ ॥

若她不给他所欲,应强迫她。若她全然不给,便以杖或以手击之而强行制服她,并说:"以你的力量与名声,我取得名声。"如此行者,实则成为无名之人。

Bṛhadāraṇyaka 6.4.8

सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति ।
यशस्विनावेव भवतः ॥ ६.४.८ ॥

若她给予他,他应说:"以你的力量与名声,我确立名声。"于是两人都成为有名声的人。

Bṛhadāraṇyaka 6.4.9

स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत्
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ६.४.९ ॥

若有人欲得一女子,心想:「愿她属于我」,则应立定此志,以口合其口,触其阴部,诵道:「你从肢体生于肢体,从心中而生。你是肢体的精华;如被毒箭射中者,愿使此女与彼女在我身中迷醉。」

Bṛhadāraṇyaka 6.4.10

अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् ।
इन्द्रियेण ते रेतसा रेत आदद इति ।
अरेता एव भवति ॥ ६.४.१० ॥

其次,若欲得一女子,却不愿她受孕,则应立定此志,以口合其口,吸气后呼出,并说:「以你的根力与你的精液,我取你的精液。」如此行者,实则成为无精之人。

Bṛhadāraṇyaka 6.4.11

अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् ।
इन्द्रियेण ते रेतसा रेत आदधामीति ।
गर्भिण्येव भवति ॥ ६.४.११ ॥

其次,若欲得一女子,并愿她受孕,则应立定此志,以口合其口,先呼气后吸气,并说:「以你的根力与你的精液,我将精液置于你之中。」如此行者,她实则成为有孕之人。

Bṛhadāraṇyaka 6.4.12

अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् ।
मम समिद्धेऽहौषीः ।
प्राणापानौ त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
पुत्रपशूंस्त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
इष्टासुकृते त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
अशापराकाशौ त आददेऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् ।
उत ह्येवंवित्परो भवति ॥ ६.४.१२ ॥

今若有人,其妻有奸夫,而丈夫憎恶之,则应以未烧之器盛火,铺设倒置的箭草,以涂酥油、倒置的箭草芽作供,并说:「你在我燃起的火中供献了;我取某人的呼吸与出息。」「你在我燃起的火中供献了;我取某人的子嗣与牲畜。」「你在我燃起的火中供献了;我取某人的祭祀与善业。」「你在我燃起的火中供献了;我取某人的希望与期待。」这样的人确实会离开此世,丧失根力与善业,而知此者的婆罗门咒诅他。因此,不应欲与知此的学者之妻戏谑,因为知此者确实变得更为殊胜。

Bṛhadāraṇyaka 6.4.13

अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् ।
अहतवासाः ।
नैनां वृषलो न वृषल्यपहन्यात् ।
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ ६.४.१३ ॥

若某人之妻得行经之期,三日内不可用铜器饮水。应着未曾穿过的衣服。不可使下等男子或下等女子伤害她。三夜之末,沐浴后,应令人舂米。

Bṛhadāraṇyaka 6.4.14

स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६.४.१४ ॥

若有人愿:'愿我的儿子生得白皙,诵读吠陀,享尽天年',则夫妇二人应煮牛奶饭,并加酥油共食。他们便能生育。

Bṛhadāraṇyaka 6.4.15

अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६.४.१५ ॥

若有人愿:'愿我的儿子生得棕黄赤褐,诵读两部吠陀,享尽天年',则夫妇二人应煮加凝乳的饭,并加酥油共食。他们便能生育。

Bṛhadāraṇyaka 6.4.16

अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६.४.१६ ॥

若有人愿:'愿我的儿子生得黝黑、眼睛赤红,诵读三部吠陀,享尽天年',则夫妇二人应食水煮之饭,并加酥油共食。他们便能生育。

Bṛhadāraṇyaka 6.4.17

अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६.४.१७ ॥

若有人希望生一个有学识、享尽天年的女儿,应煮芝麻饭并以酥油食用。夫妇二人都能够生育。

Bṛhadāraṇyaka 6.4.18

अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवाइ ।
औक्षेण वार्षभेण वा ॥ ६.४.१८ ॥

若有人希望生一个有学识、有名望、出入集会、言语被人敬听、诵习全部吠陀并享尽天年的儿子,应煮肉饭并以酥油食用。夫妇二人都能够生育,用公牛或牡牛的肉。

Bṛhadāraṇyaka 6.4.19

अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति ।
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति
उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् ।
सं जायां पत्या सहेति ॥ ६.४.१९ ॥

随后,清晨他在锅煮的饭周围倒入酥油,取一份锅饭,献祭说:「向阿耆尼,娑婆诃;向阿努玛蒂,娑婆诃;向真实推动之神萨维特里,娑婆诃。」献祭后,取出食用。食毕,将余下的给另一位妻子。洗手后,盛满水器,以此三次洒水于她,说:「起来吧,毗湿婆婆苏,去思慕另一位古老的女子;让丈夫与妻子结合在一起。」

Bṛhadāraṇyaka 6.4.20

अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् ।
सा त्वमस्यमोऽहम् ।
सामाहमस्मि ऋक्त्वम् ।
द्यौरहं पृथिवी त्वम् ।
तावेहि संरभावहै सह रेतो दधावहै ।
पुंसे पुत्राय वित्तय इति ॥ ६.४.२० ॥

此时他走近她说:「我是生命之力(阿马),你是她;你是她,你是这位的阿马。我是歌咏(娑摩),你是颂诗(黎俱)。我是天(天空),你是地。来吧,让我们结合,共同播种种子,为了男子,为了儿子,为了财富。」

Bṛhadāraṇyaka 6.4.21

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति ।
तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ६.४.२१ ॥

随后他分开她的双腿,说道:“天地啊,开启吧。”将心意专注于她,口对口相接,依自然方向抚摸她三次。愿毗湿奴准备子宫,愿特瓦斯塔塑造形体。愿生主注入,愿持创者安置胚胎。安置胚胎吧,悉尼瓦利;安置胚胎吧,普里图什图卡。愿戴莲花花环的两位阿什温双神确立你的胚胎。

Bṛhadāraṇyaka 6.4.22

हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ।
यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी ।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ ६.४.२२ ॥

金色的火钻,双阿什温以之钻木取火。我们在第十个月召唤你腹中的胎儿降生。如大地怀有火在胎中,如天空因因陀罗而怀孕,如风是方位的胎藏,我如此把胚胎置入你身,哦某某。

Bṛhadāraṇyaka 6.4.23

सोष्यन्तीमद्भिरभ्युक्षति
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः ।
तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ ६.४.२३ ॥

他向将要分娩的女子洒水。如风从四面搅动莲池,愿你的胎儿也动起来,与胞衣一同出来。这是因陀罗所造的栅栏,有门闩和支柱。哦因陀罗,请连同胎儿将它打开,使分娩时它得以开启。

Bṛhadāraṇyaka 6.4.24

जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति
अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।
अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा ।
मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ६.४.२४ ॥

于出生时,将火置于近旁,把孩子放在膝上,在青铜碗中混合普利沙达惹耶,取少许普利沙达惹耶献祭:“愿我在此子身上千倍增长,在自家中繁盛。愿他在身边时,不使我与子嗣牛畜断绝。斯瓦哈。我以心将我的气息献于你。斯瓦哈。我在仪式中多做之处,或在此少做之处,愿知礼的、善献供的火神,为我们使之成为善献之供、善成之祭。斯瓦哈。”

Bṛhadāraṇyaka 6.4.25

अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः ।
अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ ६.४.२५ ॥

随后,他将口凑近孩子的右耳,连说三遍:「语,语。」接着把凝乳、蜂蜜和酥油混合,用完整的金器喂孩子吃,并说:「我把 bhūḥ 放在你里面,我把 bhuvaḥ 放在你里面,我把 svaḥ 放在你里面;bhūḥ bhuvaḥ svaḥ,我把一切都放在你里面。」

Bṛhadāraṇyaka 6.4.26

अथास्य नाम करोति वेदोऽसीति ।
तदस्यैतद्गुह्यमेव नाम भवति ॥ ६.४.२६ ॥

接着为他取名:「你是吠陀。」这正是他的秘密之名。

Bṛhadāraṇyaka 6.4.27

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ ६.४.२७ ॥

随后,把孩子交给母亲,并让他吮吸她的乳房:「啊,萨罗室伐底,愿你那滋养的乳房,带来福祉、持有宝石、赐予财富、慷慨施与的乳房,你借以滋养一切可欲之物的那一个,在此为他的滋养而存在。」

Bṛhadāraṇyaka 6.4.28

अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति ।
तं वा एतमाहुः अतिपिता बताभूः ।
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन ।
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ ६.४.२८ ॥

随后,他以咒语称呼母亲:「你是伊拉,弥陀罗与伐楼那之女;你从英雄生下了英雄。愿你多有英勇的儿子,你使我们多有英雄。」关于此,他们说:「你确实超越了父亲;确实超越了祖父;确实达到了至高的顶点,具有光辉、名声与神圣知识的光芒。」如此,懂得这一切的婆罗门之子便诞生了。