Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

35.1

अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः ।
अस्य लोकः सुतावतः ।
द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥ ३५.१ ॥

吝啬者、敌对者与憎恶诸神者,愿他们远离。此界属于压榨苏摩者。愿阎摩以昼夜公开地赐予他安息之所。

35.2

सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु ।
तस्मै युज्यन्ताम् उस्रियाः ॥ ३५.२ ॥

愿萨维特里为你的身体在大地上求得一处世界。愿为他驾起乌斯里亚(母牛)。

35.3

वायुः पुनातु ।
सविता पुनातु ।
अग्नेर् भ्राजसा ।
सूर्यस्य वर्चसा ।
वि मुच्यन्ताम् उस्रियाः ॥ ३५.३ ॥

愿风神净化。愿萨维特里净化。以阿耆尼的光辉,以太阳的光彩,愿乌斯里亚(母牛)得以解脱。

35.4

अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
गोभाजऽइत् किलासथ यत् सनवथ पूरुषम् ॥ ३५.४ ॥

在菩提树中有你们的座位;在叶中已为你们筑起居所。分享牲畜者啊,你们确实在此,因为你们已得到了这个人。

35.5

सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु ।
तस्मै पृथिवि शं भव ॥ ३५.५ ॥

愿萨维特里将你的身体安放于此,置于母亲的怀抱中。为他,啊大地,请成为安宁。

35.6

प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ ।
अप नः शोशुचद् अघम् ॥ ३५.६ ॥

在生主之中,在神圣境域之中,在水边的世界之中,我安置你,啊那人。愿他将罪孽从我们身上焚尽。

35.7

परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान् ॥ ३५.७ ॥

啊,死神,请沿着那不同于诸神之道的路远去。对你这有眼、有耳者我说:不要伤害我们的子孙与英雄。

35.8

शं वातः शꣳ हि ते घृणिः शं ते भवन्त्व् इष्टकाः ।
शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥ ३५.८ ॥

愿风对你吉祥,愿你的热也吉祥。愿火砖(伊什塔卡)对你吉祥。愿大地之火对你吉祥;愿它们不要烧你。

35.9

कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः ।
अन्तरिक्षꣳ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥ ३५.९ ॥

愿诸方对你有利。愿诸水对你最为吉祥;愿诸河对你吉祥。愿中空(安特里克沙)对你吉祥;愿一切方位对你有利。

35.10

अश्मन्वती रीयते सꣳ रभध्वम् उत् तिष्ठत प्र तरता सखायः ।
अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान् ॥ ३५.१० ॥

多石的河流淌;同心相持,起身渡过,诸位同伴。此处我们舍弃不吉与虚妄;获得吉祥之后,我们渡向那些奖赏。

35.11

अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः ।
अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्यꣳ सुव ॥ ३५.११ ॥

驱除罪恶,驱除过失,驱除咒术(克利提亚),驱除违犯。啊,阿帕玛尔迦,你从我们这里驱除恶梦。

35.12

सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ३५.१२ ॥

愿水与草木对我们友善,对憎恨我们的人以及我们所憎恨的人则充满敌意。

35.13

अनड्वाहम् आ रभामहे सौरभेयꣳ स्वस्तये ।
स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव ॥ ३५.१३ ॥

为了平安,我们牵起这头娑罗婆耶牛。愿他为我们如因陀罗一般,成为诸神的载运者和渡河者。

35.14

उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ ३५.१४ ॥

我们从黑暗中升起,凝望更高的天空,已经来到诸神之中的神苏利耶——至上的光明。

35.15

इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् ।
शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन ॥ ३५.१५ ॥

为了活着的人,我设下这道界限;愿他们中间无人此刻走向那个目标。愿他们活过百个秋天;愿他们与山岳一起把死亡隔在中间。

35.16

अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥ ३५.१६ ॥

啊,阿耆尼,请净化我们的寿命;请在此为我们激发力量与食粮;将厄运驱逐到远方。

35.17

आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि ।
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा ॥ ३५.१७ ॥

啊,阿耆尼,愿你获得长寿,因供物而增长,以酥油为面,以酥油为胎,安住于此。饮下酥油和牛所出的甘美蜜后,如父亲保护儿子一般护佑这些人。娑訶。

35.18

परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।
देवेष्व् अक्रत श्रवः क ऽ इमाꣳ२ऽ आ दधर्षति ॥ ३५.१८ ॥

他们牵着牛绕行,又绕行带着阿耆尼。他们在诸神之中获得荣誉;谁敢侵犯他们?

35.19

क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ ३५.१९ ॥

我将食肉的阿耆尼远远送走;愿他前往阎摩的国度,携带污秽而去。愿这另一位知一切的遍知者阿耆尼就在此处,为诸神运送祭品。

35.20

वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके ।
मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ताꣳ स्वाहा ॥ ३५.२० ॥

哦,遍知者,为祖先们把脂肪祭品(vapā)送去,送到你知道他们被安置在远方的地方。愿脂肪之河流向他们;愿他们真正的愿望共同俯首。斯瓦哈。

35.21

स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथाः ।
अप नः शोशुचद् अघम् ॥ ३५.२१ ॥

哦,大地,愿你对我们慈善,无刺,赐予安息。广阔的大地啊,赐予我们庇护;愿我们的罪恶焚烧殆尽。

35.22

अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहा ॥ ३५.२२ ॥

你由此而生;愿此人从你再生。他(前往)天界之世界。斯瓦哈。