夜柔吠陀 · 章(Adhyāya) 26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
26.1
अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः ।
वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः ।
ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः ।
ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः ।
सप्त सꣳसदो ऽ अष्टमी भूतसाधनी ।
सकामाꣳ२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना ॥ २६.१ ॥
火与大地,你们彼此俯身;愿它们为我俯身。风与虚空,你们彼此俯身;愿它们为我俯身。太阳与天空,你们彼此俯身;愿它们为我俯身。水与伐楼那,你们彼此俯身;愿它们为我俯身。七个集会与第八个,成就众生者,成全道路上的愿望;愿我与此和谐。
26.2
यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः ।
ब्रह्मराजन्याभ्याꣳ शूद्राय चार्याय च स्वाय चारणाय ।
प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु ॥ २६.२ ॥
正如我将这吉祥之言说给众人——对婆罗门与刹帝利,对奴仆,对雅利安人,对自己人与客人——愿我在此为诸神所爱,成为施予祭礼布施的人;愿我这一愿望得以成就,愿它向我俯身。
26.3
बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।
यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ।
उपयामगृहीतो ऽसि बृहस्पतये त्वा ।
एष ते योनिर् बृहस्पतये त्वा ॥ २६.३ ॥
啊,布利哈斯帕蒂,你在众人之中如受尊崇的主宰般光耀,以力量闪耀,生于真理(ṛta),请将那奇妙的财富赐予我们。你已被升华器(upayāma)所取;此乃你的处所,我为布利哈斯帕蒂而取你。
26.4
इन्द्र गोमन्न् इहा याहि पिबा सोमꣳ शतक्रतो ।
विद्यद्भिर् ग्रावभिः सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥ २६.४ ॥
啊,因陀罗,拥有牛群者,请来此处;啊,具百力者,请饮以闪电般石块压榨的苏摩。你已被升华器(upayāma)所取;此乃你的处所,我为拥有牛群的因陀罗而取你。
26.5
इन्द्रा याहि वृत्रहन् पिबा सोमꣳ शतक्रतो ।
गोमद्भिर् ग्रावभिः सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥ २६.५ ॥
啊,因陀罗,请来;啊,斩杀弗栗多者,啊,具百力者,请饮以承载牛群之石压榨的苏摩。你已被升华器(upayāma)所取;此乃你的处所,我为拥有牛群的因陀罗而取你。
26.6
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।
अजस्रं घर्मम् ईमहे ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा ॥ २६.६ ॥
我们祈求具有真理(ṛta)的吠舍婆罗(Vaiśvānara),秩序之光的主宰,赐予不息的热力(gharma)。你已被升华器(upayāma)所取;此乃你的处所,我为吠舍婆罗而取你。
26.7
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।
इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा ॥ २६.७ ॥
愿我们处于吠舍婆罗的恩惠之中;他是诸世界之王,光耀于其上。生于此处,他观看这整个宇宙;吠舍婆罗与太阳一同努力。你以优帕雅玛杯被取用,为吠舍婆罗,为你。这是你的位置,为吠舍婆罗,为你。
26.8
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
अग्निर् उक्थेन वाहसा ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा ॥ २६.८ ॥
愿吠舍婆罗为我们的保护从远方来到此处;愿以颂歌承载的阿耆尼前来。你以优帕雅玛杯被取用,为吠舍婆罗,为你。这是你的位置,为吠舍婆罗,为你。
26.9
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तम् ईमहे महागयम् ।
उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
ऽ एष ते योनिर् अग्नये त्वा वर्चसे ॥ २६.९ ॥
阿耆尼是先见者、净化者、五族之人、家祭司;我们祈请那大好客的他。你以优帕雅玛杯被取用;为光辉,为阿耆尼,为你。这是你的位置;为光辉,为阿耆尼,为你。
26.10
महाꣳ२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु ।
हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥ २६.१० ॥
伟大的因陀罗,手持金刚杵,第十六者,愿他赐予庇护;愿他摧毁憎恨我们者的罪恶。你以优帕雅玛杯被取用,为摩诃因陀罗,为你。这是你的位置,为摩诃因陀罗,为你。
26.11
तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे ॥ २६.११ ॥
你们那位奇妙的、克敌的、财富之主、因苏摩而欢欣的因陀罗,我们以颂歌呼唤他,如同牛在栏中呼唤小牛。
26.12
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।
महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते ॥ २६.१२ ॥
你要为阿耆尼歌唱那最能承载(供品)的伟大颂歌,啊光辉者;财富从你涌现,如同从王后;力量也从你升起。
26.13
एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः ।
एभिर् वर्धास ऽ इन्दुभिः ॥ २६.१३ ॥
来吧,阿耆尼,我要好好地对你说,这样说,以及其他的歌;愿你借这些苏摩滴而增长。
26.14
ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः ।
संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः ॥ २६.१४ ॥
愿季节延展你的祭祀,愿月份守护你的供物;愿年岁为我们确立你的祭祀,并四面守护我们的子民。
26.15
उपह्वरे गिरीणाꣳ संगमे च नदीनाम् ।
धिया विप्रो ऽ अजायत ॥ २६.१५ ॥
在山谷之中,在河流的汇合处,灵感之智者以慧心而生。
26.16
उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे ।
उग्रꣳ शर्म महि श्रवः ॥ २६.१६ ॥
你的苏摩生于高处,安坐于天,我从大地在此取来;它是强大的庇护,伟大的荣耀。
26.17
स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित् परि स्रव ॥ २६.१७ ॥
愿他为我们,知晓财富,流向值得祭祀的因陀罗、伐楼那与摩汝特们。
26.18
एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे ॥ २६.१८ ॥
借此,渴望获得人类一切光耀的财富,我们祈求它们。
26.19
अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः ।
अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु ॥ २६.१९ ॥
愿我们与英雄之子、牛群、马匹及一切丰饶同增长;与两足与四足生灵同增长。愿诸神依时节引导我们的祭祀。
26.20
अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।
त्वष्टारꣳ सोमपीतये ॥ २६.२० ॥
阿耆尼啊,请将诸神渴求的妻子们带到这里靠近;为饮用苏摩,也请带来特瓦湿多。
26.21
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना ।
त्वꣳ हि रत्नधा ऽ असि ॥ २६.२१ ॥
请呼唤我们的祭祀;尼湿多里啊,依时饮用吧,因为你正是赐予珍宝者。
26.22
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
नेष्ट्राद् ऋतुभिर् इष्यत ॥ २६.२२ ॥
施财者渴望饱足;请奉献并起身。依时节由尼湿多里所激发。
26.23
तवायꣳ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमꣳ सुमना ऽ अस्य पाहि ।
अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र ॥ २६.२३ ॥
此苏摩属于你。来吧,最古老而心意欢喜者,饮用它。在此祭祀中坐于圣草之上,将这一滴苏摩置于你的腹中,因陀罗啊。
26.24
अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥ २६.२४ ॥
仿佛近在我们身边,易于召请者啊,来到这里;坐在圣草上,欢喜吧。特瓦湿多,享用苏摩,与诸神、你的亲族及欢乐的随从一同喜悦吧。
26.25
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥ २६.२५ ॥
以最甘甜、最令人兴奋的水流流动吧,苏摩啊。你已被压榨,供因陀罗饮用。
26.26
रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।
द्रुणा सधस्थम् आसदत् ॥ २६.२६ ॥
斩除罗刹者,洞察众人者,朝向被铁击打的生处。与木器一同坐于共同的座位上。