Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

36.1

ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये ।
वाग् ओजः सहौजो मयि प्राणापानौ ॥ ३६.१ ॥

我投靠誦詩(ṛc)與言語;我投靠心意與祭祀誦文(yajus);我投靠歌詠(sāman)與氣息(prāṇa);我投靠眼與耳。願言語中有力量;願堅強與力量在我之中;願上氣(prāṇa)與下氣(apāna)在我之中。

36.2

यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु ।
शं नो भवतु भुवनस्य यस् पतिः ॥ ३६.२ ॥

我的眼、心、意中若有任何孔隙或創傷,願布里哈斯帕提(Bṛhaspati)為我修復。願世界的主宰對我們吉祥。

36.3

भूर् भुवः स्वः ।
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥ ३६.३ ॥

地、空界、天。我們默想神聖的薩維特(Savitṛ)那殊勝的光明。願他策動我們的思慮。

36.4

कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ ३६.४ ॥

以何助佑,他對我們而言成為奇妙而常增長的朋友?以何等最強大的力量,他被包裹著?

36.5

कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥ ३६.५ ॥

誰是真實且最慷慨的歡愉者,以蘇摩汁使你歡喜?誰使你歡喜,以便即使破開堅固的城堡也能獲得財富?

36.6

अभी षु णः सखीनाम् अविता जरितॄणाम् ।
शतं भवास्य् ऊतिभिः ॥ ३६.६ ॥

請做我們朋友與讚頌者的善護者。願你以百種助佑與我們同在。

36.7

कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य ऽ आ भर ॥ ३६.७ ॥

公牛啊,你以何种帮助欣然向我们而来?以何种帮助为赞颂者带来(财富)?

36.8

इन्द्रो विश्वस्य राजति ।
शं नो ऽ अस्तु द्विपदे शं चतुष्पदे ॥ ३६.८ ॥

因陀罗统治一切。愿我们平安,愿两足者平安,愿四足者平安。

36.9

शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।
शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥ ३६.९ ॥

愿密特拉为我们带来平安,愿伐楼那带来平安,愿阿利耶曼为我们带来平安。愿因陀罗与布立哈斯帕蒂为我们带来平安,愿大步行走的毗湿奴为我们带来平安。

36.10

शं नो वातः पवताꣳ शं नस् तपतु सूर्यः ।
शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु ॥ ३६.१० ॥

愿风为我们平和地吹拂,愿太阳为我们平和地照耀。愿雷鸣的神帕尔贾尼亚降雨于我们之上。

36.11

अहानि शं भवन्तु नः शꣳ रात्रीः प्रति धीयताम् ।
शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या ।
शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः ॥ ३६.११ ॥

愿白日于我们平安,愿夜晚平安降临。愿因陀罗与阿耆尼以其护佑为我们带来平安。愿接受供物的因陀罗与伐楼那为我们带来平安。愿因陀罗与普山在争夺战利品中为我们带来平安。愿因陀罗与苏摩为吉祥带来平安与福祉。

36.12

शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये ।
शं योर् अभि स्रवन्तु नः ॥ ३६.१२ ॥

愿神圣的水为我们的心愿成就与饮用带来平安;愿它们以福祉流向我们。

36.13

स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथाः ॥ ३६.१३ ॥

大地啊,请对我们和悦,无刺而可供安居。请广阔地赐予我们庇护。

36.14

आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।
महे रणाय चक्षसे ॥ ३६.१४ ॥

水啊,你们确实是带来幸福的。请为我们使之立于滋养之中,以得大乐与明见。

36.15

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥ ३६.१५ ॥

你们中最吉祥的精华,请在此与我们分享,如同殷切的母亲。

36.16

तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥ ३६.१६ ॥

为此,我们应充分来到你们这里,你们为其居所注入生机。水啊,也请使我们生长。

36.17

द्यौः शान्तिर् अन्तरिक्षꣳ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः ।
वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वꣳ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि ॥ ३६.१७ ॥

天界有安宁,虚空有安宁,大地有安宁,水有安宁,草药有安宁,树木有安宁,诸神有安宁,梵有安宁,一切有安宁,安宁即是安宁;愿那安宁在我之中。

36.18

दृते दृꣳह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
मित्रस्य चक्षुषा सम् ईक्षामहे ॥ ३६.१८ ॥

啊,纽带,请坚固我。愿一切众生以弥多罗之眼共同看我。我以弥多罗之眼观看一切众生。我们以弥多罗之眼彼此相看。

36.19

दृते दृꣳह मा ।
ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम् ॥ ३६.१९ ॥

啊,dṛte,使我坚固!愿我在你的注视下长久生存;愿我在你的注视下长久生存。

36.20

नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।
अन्याꣳस् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥ ३६.२० ॥

向你的火焰与光辉致敬;向你的光芒致敬。愿你的武器烧灼他人而远离我们。啊,Pāvaka,请对我们吉祥吧!

36.21

नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे ।
नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे ॥ ३६.२१ ॥

向闪电致敬,向你致敬。向雷鸣致敬。啊,世尊,从你向天界努力的地方向你致敬!

36.22

यतो-यतः समीहसे ततो नो ऽ अभयं कुरु ।
शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥ ३६.२२ ॥

无论你从何处努力,请为我们赐予无畏。为我们带来平安;为人民赐予我们无畏,为牲畜赐予我们无畏。

36.23

सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ३६.२३ ॥

愿水与草木对我们友好;对恨我们的人以及我们所恨的人,愿它们充满敌意。

36.24

तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात् ॥ ३६.२४ ॥

那只对诸神有益、从东方升起而明亮的眼睛。愿我们看见一百个秋天,活到一百个秋天,听见一百个秋天,言说一百个秋天,百年不衰;并且超过百个秋天。