Vedyatra वेदयात्रा
搜索

薄伽梵歌 · 章 8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.1

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८.१ ॥

阿周那说:至上原人啊,那梵是什么?内在自我(adhyātma)是什么?业是什么?什么被称为物之主(adhibhūta),什么被称为神之主(adhidaiva)?

8.2

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८.२ ॥

诛摩图者啊,在这身体中,谁是祭之主(adhiyajña),他如何存在?自制者在临终之时又如何认识你?

8.3

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८.३ ॥

薄伽梵说:梵是不灭者、至高者;其本性称为内在自我(adhyātma)。使众生得以生起的创造性施放,称为业。

8.4

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८.४ ॥

有身者中最优秀者啊,可灭的存在是物之主(adhibhūta);原人是神之主(adhidaivata);而在这身体中,祭之主(adhiyajña)正是我。

8.5

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८.५ ॥

谁在临终之时唯忆念我而舍弃身体离去,他便达到我的存在;对此毫无疑问。

8.6

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८.६ ॥

贡蒂之子啊,人在最后舍弃身体时忆念何种存在状态,便会到达那种状态,因为他一向浸润于那种状态之中。

8.7

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ८.७ ॥

因此,你要在一切时候忆念我,并且战斗。将心意与智慧献给我,你必定会来到我这里,毫无疑问。

8.8

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८.८ ॥

普利塔之子啊,以修习瑜伽所约束、不趋向他处的心,不断冥想的人,便到达至高神圣的原人。

8.9

कविं पुराणमनुशासितार ।
मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप ।
मादित्यवर्णं तमसः परस्तात् ॥ ८.९ ॥

谁忆念那全知者、太古者、主宰者,比微细更微细,一切的维持者,形相不可思议,如太阳般光辉,超越黑暗——

8.10

प्रयाणकाले मनसाऽचलेन ।
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् ।
स तं परं पुरुषमुपैति दिव्यम् ॥ ८.१० ॥

在临终之时,以不动摇的心,具足虔信与瑜伽之力,将生命之气正确地安住于两眉之间,他便到达那至高神圣的原人。

8.11

यदक्षरं वेदविदो वदन्ति ।
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति ।
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८.११ ॥

通晓吠陀者称之为不灭者,离欲的苦行者进入其中,人们为求它而奉行梵行——那个境界,我将简要地告诉你。

8.12

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८.१२ ॥

守护身体的一切门户,将心意制止于心中,把自己的生命之气安置于头顶,安住于瑜伽的专注——

8.13

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८.१३ ॥

谁在舍弃身体离去时,念诵唵这一单音的梵,并忆念我,他便达到至高的归宿。

8.14

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८.१४ ॥

普利塔之子啊,谁心无旁骛,时时刻刻忆念我,对于这位恒常相应的瑜伽士,我是容易达到的。

8.15

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८.१५ ॥

伟大的灵魂来到我这里,达到了至高的圆满,便不再受生;那再生是痛苦的居所,无常不住。

8.16

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८.१६ ॥

阿周那啊,直至梵天界的一切世界都要轮回复返;但贡蒂之子啊,来到我这里,便不再有再生。

8.17

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८.१७ ॥

人们若知道梵天的一个白昼持续一千个时代,其夜晚也在一千个时代后结束,他们便是了知昼夜的人。

8.18

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८.१८ ॥

白昼来临时,一切显现之物从未显现中生起;黑夜来临时,它们又消融于那名为未显现者之中。

8.19

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८.१९ ॥

普利塔之子啊,这同一群众生一再生起,在夜晚来临时不由自主地消融,在白昼来临时又重新出现。

8.20

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८.२० ॥

然而在那未显现者之外,另有一种永恒的未显现存在,一切众生毁灭时,它并不毁灭。

8.21

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८.२१ ॥

这未显现者被称为不灭者,人们称它为至高归宿。到达那里的人不再返回;那就是我的至高居所。

8.22

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८.२२ ॥

普利塔之子啊,那至高的原人,一切众生都在他之内,这一切都由他遍布,只有通过专一的虔信才能获得。

8.23

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८.२३ ॥

婆罗多族的俊杰啊,我将告诉你瑜伽士在何时离世便不再返回,又在何时离世便会返回。

8.24

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८.२४ ॥

火、光、白昼、白半月、太阳北行的六个月——在此时离世的知梵者到达梵。

8.25

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८.२५ ॥

烟、夜、黑半月、太阳南行的六个月——由此道而去的瑜伽士获得月亮之光,然后返回。

8.26

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ ८.२६ ॥

世间这光明与黑暗两条道路,被认为是永恒的。由其一而去者不再返回;由另一而去者再度归来。

8.27

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८.२७ ॥

普利塔之子啊,知晓这两条道路的瑜伽士,没有一个会迷惑。因此,阿周那啊,你要在一切时候安住于瑜伽。

8.28

वेदेषु यज्ञेषु तपःसु चैव ।
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा ।
योगी परं स्थानमुपैति चाद्यम् ॥ ८.२८ ॥

无论吠陀、祭祀、苦行与布施所宣示的功德果报为何,知晓此理的瑜伽士都超越这一切,到达至高的、本初的居所。