Vedyatra वेदयात्रा
搜索

奥义书 · Maitrāyaṇī 6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Maitrāyaṇī 6.1

द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो यश्चासा आदित्योऽथ द्वौ वा एता अस्य पन्थाना अन्तर्बहिश्चाहोरात्रेणैतौ व्यावर्तेते असौ वा आदित्यो बहिरात्मान्तरात्मा प्राणोऽतो बहिरात्मक्या गत्यान्तरात्मनोऽनुमीयते गतिरित्येवं हि आहाथ यः कश्चिद्विद्वानपहतपाप्माऽक्षाध्यक्षोऽवदातमनास्तन्निष्ठ आवृत्तचक्षुः सो अन्तरात्मक्या गत्या बहिरात्मनोऽनुमीयते गतिरित्येवं ह आह अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यः पश्यतीमां हिरण्यवस्थात् स एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति ॥ ६.१ ॥

此我以两种方式自持:此气息与彼太阳。它有内外两条路径;昼夜沿此二者往返。彼太阳是外我,气息是内我。故由外我之行而推知内我之行;行是如此,如是说。若有智者,无罪,为诸根之主,心清净,安住于彼,双目内向,则由内我之行推知外我。此外,太阳之中的金色人,观此金色之所,即是那安住于心莲之中而食物的。

Maitrāyaṇī 6.2

अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिवि श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति। कः पुष्करः किंमयो वेति। इदं वाव तत्पुष्करं योऽयमाकाशोऽस्येमाः चतस्रो दिशश्चतस्र उपदिशो दलसंस्था आसम्। अर्वाग्विचरत एतौ प्राणादित्या एता उपासीतोमित्येतदक्षरेण व्याहृतिभिः सावित्र्या चेति ॥ ६.२ ॥

然则安住于心莲之中而食物者,即此火也,立于天界,属太阳,名曰时,不可见;一切众生食其食。彼莲者为何,由何所成?此虚空即是彼莲,其四方与四隅如花瓣而立。此二者下行,即气息与太阳,应以唵字、诸语及萨维特里咒而修习之,如是说。

Maitrāyaṇī 6.3

द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च । अथ यन्मूर्तं तदसत्यम् यदमूर्तं तत्सत्यम् तद्ब्रह्म तज्ज्योतिः यज्ज्योतिः स आदित्यः स वा एष ओमित्येतदात्माभवत् स त्रेधात्मानं व्याकुरुत ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीति एवं ह्याहैतद्वा आदित्य ओमित्येवं ध्यायत आत्मानं युञ्जीतेति ॥ ६.३ ॥

梵有二形:有形与无形。有形者为假,无形者为真。彼即梵,彼即光;凡为光者,即是太阳。此太阳即以唵之名成为我。彼将自己显现为三重。唵中有三个音量;一切皆由此织就、贯穿,彼言:我即是彼。如是,对于观想太阳即是唵者,应使自我与之相应,如是说。

Maitrāyaṇī 6.4

अथान्यत्रापि उक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति असौ वा आदित्य उद्गीथ एष प्रणवा इति । एवं ह्याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्युं त्रिपदं त्र्यक्षरं पुनः पञ्चधा ज्ञेयं निहितं गुहायामित्येवं ह्याहोर्ध्वमूलं त्रिपाद्ब्रह्म शाखा आकाश वाय्वग्न्युदकभूम्यादय एकोऽश्वत्थनामैतद्ब्रह्मैतस्यैतत्तेजो यदसा आदित्यः ओमित्येतदक्षरस्य चैतत्तस्मादोमित्यनेनैतदुपासीताजस्रमित्येकोऽस्य सम्बोधयितेत्येवं ह्याह ः एतदेवाक्षरं पुण्यमेतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ॥ ६.४ ॥

他处也这样说:所谓鸣唱(udgītha)即是唵(praṇava),所谓唵即是鸣唱。此太阳即是鸣唱,此即是唵。他如此讲述名为唵的鸣唱:引导者,光明之相,无眠,无老,无死,三足,三音节,又当以五种方式了知,安置于洞穴之中。他这样说:梵以根在上、三足为其相;其枝为空、风、火、水、地等。此一株名为阿输陀树,此即是梵,其光辉即彼太阳。唵是此音节,此亦属于它;因此应当以此音节唵不断地观想它。此者乃其唤醒者。他这样说:唯此音节是吉祥,唯此音节是至上。知此音节者,凡所欲求,皆得其所。

Maitrāyaṇī 6.5

अथान्यत्राप्युक्तं स्वनवत्येषास्यस्तनुर्या ओमिति स्त्रीपुंनपुंसकेति लिङ्गवती एषाऽथाग्निर्वायुरादित्य इति भास्वति एषा अथ ब्रह्म रुद्रो विष्णुरित्यधिपतिवती एषाऽथ गार्हपत्यो दक्षिणाग्निराहवनीया इति मुखवती एषाऽथ ऋग्यजुःसामेति विज्ञानवती एषा भूर्भुवःस्वरिति लोकवती एषाऽथ भूतं भव्यं भविष्यदिति कालवती एषाऽथ प्राणोऽग्निः सूर्य इति प्रतापवती एषाऽथान्नमापश्चन्द्रमा इत्याप्यायनवती एषाऽथ बुद्धिर्मनोऽहङ्कारा इति चेतनवती एषाऽथ प्राणोऽपानो व्यान इति प्राणवती एषेति अत ओमित्युक्तेनैताः प्रस्तुता अर्चिता अर्पिता भवन्तीति एवं ह्याहैतद्वै सत्यकाम परां चापरां च ब्रह्म यदोमित्येतदक्षरमिति ॥ ६.५ ॥

他处也这样说:其身具九音,即是唵。它具有阴、阳、中三性;它如火、风、日般放光。它具有主宰:梵天、楼陀罗、毗湿奴。它的面相是家主火、南火与供养火。它具有知识:梨俱、夜柔、娑摩。它具有诸界:地、空界、天。它具有时间:过去、现在、未来。它具有热力:气息、火、日。它具有滋养:食物、水、月。它具有觉知:慧、意、我慢。它具有气息:命气、下行气、遍行气。因此说唵时,这一切皆被赞颂、被礼拜、被奉献。他这样说:善生啊,这实是上梵与下梵,即是此音节唵。

Maitrāyaṇī 6.6

अथाव्याहृतं वा इदमासीत् स सत्यं प्रजापतिस्तपस्तप्त्वाऽनुव्याहरद्भूर्भुवःस्वरिति । एषैवास्य प्रजापतेः स्थविष्ठा तनुर्या लोकवतीति स्वरित्यस्याः शिरो नाभिर्भुवो भूः पादा आदित्यश्चक्षुः चक्षुरायता हि पुरुषस्य महती मात्रा चक्षुषा ह्ययं मात्राश्चरति सत्यं वै चक्षुः अक्षिण्यवस्थितो हि पुरुषः सर्वार्थेषु चरति एतस्माद्भूर्भुवःस्वरित्युपासीतानेन हि प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीति एवं ह्याहैषा वै प्रजापतेर्विश्वभृत्तनुरेतस्यामिदं सर्वमन्तर्हितमस्मिन् च सर्वस्मिन्नेषा अन्तर्हितेति तस्मादेषोपासीता ॥ ६.६ ॥

起初,此为未宣说者。那位真实的生主修苦行,修苦行之后,念诵“bhūr bhuvaḥ svaḥ”(地、空、天)。这正是生主最广大的身体,由诸世界构成。“svaḥ”是其头,“bhuvaḥ”是其脐,“bhūḥ”是其足,太阳是其眼。称之为眼,是因为人的度量广大;人借眼而在诸度量中行走。眼即是真实,因为安住于眼中的人在一切事务中行动。因此应当以“bhūr bhuvaḥ svaḥ”来观想,因为借此,作为一切之我、一切之眼的生主得到崇拜。正如所说:这是生主支撑一切的身体;此中包含着这一切,而他也包含于这一切之中。因此应当观想此。

Maitrāyaṇī 6.7

तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं प्रवरणीय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमहीति सविता वै देवस्ततो योऽस्य भर्गाख्यस्तं चिन्तयामीत्याहुर्ब्रह्मवादिनोऽथ धियो यो नः प्रचोदयादिति बुद्धयो वै धियस्तायोऽस्माकं प्रचोदयादित्याहुर्ब्रह्मवादिनः अथ भर्गा इति यो ह वा अमुष्मिन्नादित्ये निहितस्तारकोऽक्षिणि वैष भर्गाख्यः भाभिर्गतिरस्य हीति भर्गः भर्जयतीति वैष भर्ग इति रुद्रो ब्रह्मवादिनोऽथ भ इति भासयतीमान् लोकान् र इति रंजयतीमानि भूतानि ग इति गच्च्हन्त्यस्मिन्नागच्च्हन्त्यस्मादिमाः प्रजास्तस्माद्भरगत्वाद्भर्गः शाश्वत् सूयमानात् सूर्यः सवनात् सविताऽदानात् आदित्यः पवनात्पावनोऽथापोप्यायनादित्येवं ह्याह खल्वात्मनोऽत्मा नेतामृताख्यश्चेता मन्ता गन्तोत्सृष्टानन्दयिता कर्ता वक्ता रसयिता घ्राता द्रष्टा श्रोता स्पृशति च विभुर्विग्रहे सन्निविष्टा इत्येवं ह्याह अथ यत्र द्वैतीभूतं विज्ञानं तत्र हि शृणोति पश्यति जिघ्रति रसयति चैव स्पर्शयति सर्वमात्मा जानीतेति यत्राद्वैतीभूतं विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यां किं तदवाच्यम् ॥ ६.७ ॥

悉维德(Savitṛ)的殊胜光明,即日神悉维德本身,由欲求自我者如此选取,梵论者如是说。又说:“我们禅思神之光明”:神即悉维德,我们禅思名为光明者,梵论者如是说。又说:“愿其策励我们的心智”:心智即是念(dhiyaḥ),那延展它们者策励我们的心智,梵论者如是说。光明(bhargāḥ)即置于那太阳之中的星辰,也在眼中;此即所谓光明。其行进由光而行,故称光明。能烧者即光明,梵论者论楼陀罗时如是说。以“bha”照亮这些世界,以“ra”喜悦这些众生,以“ga”它们入于其中,这些生灵由其而来。因此光明是常恒的;因被驱动而为太阳,因驱动而为悉维德,因摄取而为阿提亚,因净化而为净化者,因滋养而为滋养者。他如是说:自我之自我,导者,名为不死者,觉知者,思者,行者,施予解脱之乐者,作者,说者,尝者,嗅者,见者,闻者,触者,遍在者,入于身中。他又说:当识分为二时,则听、见、嗅、尝、触;自我知一切。当识成为不二,离于果、因与业,不可言说,无与伦比,无名相,那是什么?那是不可言说的。

Maitrāyaṇī 6.8

एष हि खल्वात्मेशानः शम्भुर्भवो रुद्रः प्रजापतिर्विश्वसृक् हिरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णुर्नारायणोऽर्कः सविता धाता विधाता सम्राडिन्द्र इन्दुरिति य एष तपत्यग्निरिवाग्निना पिहितः सहस्राक्षेण हिरण्मयेनाण्डेन एष वा जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं दत्वारण्यं गत्वाथ बहिःकृत्वीन्द्रियार्थान्स्वाच्च्हरीरादुपलभेत एनमिति । विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॥ ६.८ ॥

实际上,这个自我被称为伊舍那、湿婆、婆婆、楼陀罗、生主、万物之创造者、金胎、真实、气息、天鹅、统治者、毗湿奴、那罗延、阿迦、萨维陀、持者、造者、转轮王、因陀罗与月神。他如火般闪耀,仿佛被火包裹在千眼的金卵之中。这正是应当探求和寻找的。对一切众生施以无畏,入于森林,将诸根之境置于外,便可在自己身中觉知他。 其形为一切、金色、遍知、至上之归宿、唯一之光、炽热燃烧者。千光之神以百种方式存在,即是这气息,为众生如太阳一般升起。

Maitrāyaṇī 6.9

तस्माद्वा एष उभयात्मैवं विदात्मन्येवाभिध्यायत्यात्मन्येव यजतीति ध्यानं प्रयोगस्थं मनो विद्वद्भिष्टुतं मनःपूतिमुच्छिष्टोपहतमित्यनेन तत्पावयेत् मन्त्रं पठति उच्छिष्टोच्छिष्टोपहितं यच्च पापेन दत्तं मृतसूतकाद्वा वसोः पवित्रमग्निः सवितुश्च रश्मयः पुनन्त्वन्नं मम दुष्कृतं च यदन्यत् अद्भिः पुरस्तात्परिदधाति प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति पञ्चभिरभिजुहोति अथावाशिष्टं यतवागश्नात्यतोऽद्भिर्भूय एवोपरिष्टात्परिदधात्याचान्तो भूत्वात्मेज्यानः प्राणोऽग्निर्विश्वोऽसीति च द्वाभ्यामात्मानमभिध्यायेत् प्राणोऽग्निः परमात्मा वै पञ्चवायुः समाश्रितः स प्रीतः प्रीणातु विश्वं विश्वभुक् विश्वोऽसि वैश्वानरोऽसि विश्वं त्वया धार्यते जायमानम् विशन् तु त्वामाहुतयश्च सर्वाः प्रजास्तत्र यत्र विश्वामृतोऽसीति एवं न विधिना खल्वनेनात्तानत्वं पुनरुपैति ॥ ६.९ ॥

因此,此二者中之自我,如此知晓者,只在自己的自我中冥想,只在自己的自我中献祭。智者所赞叹的、安住于祭仪中的心之冥想,以心而净,以残余而染;因此应以此而净化它。他诵念咒语:凡是残余之上的残余,因罪而施舍,或因死亡之不净,愿瓦苏的净化之火与萨维陀的光线净化它,我的食物以及其他一切恶业。先以水环绕,然后以“svāhā”献上五次供物,给气息(prāṇa)、下行气(apāna)、遍行气(vyāna)、平行气(samāna)、上行气(udāna)。然后默默地吃剩余之物。之后再以水从上方环绕,漱口后敬拜自我,并以两句诗“你是气息、火,你是一切”,应当冥想自我。气息、火、至上自我,实际上依于五风。愿他欢喜,使一切欢喜,一切之享受者。你即是一切,你是毗舍那罗;一切所生,皆由你所持。诸供物与一切众生进入你之中,在你为“一切不死”之处。因此,并非依规则,而是以此被食之状态,他再次回来。

Maitrāyaṇī 6.10

अथापरं वेदितव्यमुत्तरो विकारोऽस्यात्मयज्ञस्य यथान्नमन्नादश्चेति अस्योपव्याख्यानं पुरुषश्चेता प्रधानान्तःस्थः स एव भोक्ता प्राकृतमन्नं भुङ्क्त इति तस्यायं भूतात्मा ह्यन्नमस्यकर्ता प्रधानः तस्मात्त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्थः अत्र दृष्टं नाम प्रत्ययम् यस्माद्बीजसम्भवा हि पशवस्तस्माद्बीजं भोज्यमनेनैव प्रधानस्य भोज्यत्वं व्याख्यातं तस्माद्भोक्ता पुरुषो भोज्या प्रकृतिस्तत्स्थो भुङ्क्त इति प्राकृतमन्नं त्रिगुणभेदपरिणमत्वान्महदाद्यं विशेषान्तं लिङ्गमनेनैव चतुर्दशविधस्य मार्गस्य व्याख्या कृता भवति सुखदुःखमोहसंज्ञं ह्यन्नभूतमिदं जगत् न हि बीजस्य स्वादुपरिग्रहोऽस्तीति यावन्नप्रसूतिः तस्याप्येवं तिसृष्ववस्थास्वन्नत्वं भवति कौमारं यौवनं जरा परिणमत्वातत्दन्नत्वमेवं प्रधानस्य व्यक्ततां गतस्योपलब्धिर्भवति तत्र बुद्ध्यादीनि स्वादुनि भवन्त्यध्यवसायसङ्कल्पाभिमाना इति अथेन्द्रियार्थान् पञ्चस्वादुनि भवन्ति एवं सर्वाणीन्द्रियकर्माणि प्राणकर्माणि एवं व्यक्तमन्नमव्यक्तमन्नम् अस्य निर्गुणो भोक्ता भोक्तृत्वाच्चैतन्यं प्रसिद्धं तस्य यथाग्निर्वै देवानामन्नदः सोमोऽन्नमग्निनैवान्नमित्येवंवित् सोमसंज्ञोऽयंभूतत्माऽग्निसंज्ञोऽप्यव्यक्तमुखा इति वचनात्पुरुषो ह्यव्यक्तमुखेन त्रिगुणं भुङ्क्त इति यो हैवं वेद संन्यासी योगी चात्मयाजी चेति अथ यद्वन्न कश्चिच्च्हून्यागारे कामिन्यः प्रविष्टाः स्पृशतीन्द्रियार्थान् तद्वद् यो न स्पृशति प्रविष्टान् संन्यासी योगी चात्मयाजी चेति ॥ ६.१० ॥

接下来应当知道:这是自我祭祀的进一步变化,如同食物与食用食物者。其解释:有意识的人(puruṣa)内住于原质(pradhāna)之中;他确是享受者,食用物质之食。此存在之我即是食物,而原质是其非作者。因此由三德构成者是被享受之物,内住之人是享受者。此处可见一推论:众生由种子而生,故种子是被享受之物。由此同样解释了原质的可享受性。于是人是享受者,自然是被享受之物,他住于其中而享受。物质之食随三德之差别而变化,是从大原理开始直至诸特殊的微细身。由此正阐明了十四种道路的解释。这个世界名为乐、苦与迷惑,实质上就是食物之性。种子在食物生成之前不取其味。它在童年、青年、老年三个阶段中也是食物,因为变化之故。如是,显现出来的原质的食物性被觉知。那里,觉、意等是可口的;决定、意向与我慢也是。然后,感官之五境是可口的。同样,所有感官之作用与气息之作用亦然。如是有显现之食与未显现之食。其享受者是无德的,由其享受而知觉得以彰显。正如火是诸神的食者,苏摩是食物,食物依于火,如是知者:此名为苏摩的存在之我,也名为火,并以未显现为口,如经所言;人以未显现之口食用三德。知此者即是遁世者、瑜伽行者,并是祭祀自我者。正如空屋之中妇人进入而触及感官之境,那么不触及那些进入者的人,就是遁世者、瑜伽行者,并是祭祀自我者。

Maitrāyaṇī 6.11

परं वा एतदात्मनो रूपं यदन्नमन्नमयो ह्ययं प्राणोऽथ न यद्यश्नात्यमन्ताऽश्रोताऽस्प्रष्टाऽद्रष्टाऽवक्ताऽघ्रातारसयिता भवति प्राणांश्चोत्सृजतीति एवं ह्याहाथ यदि खल्वश्नाति प्राणसमृद्धो भूत्वा मन्ता भवति श्रोता भवति स्प्रष्टा भवति वक्ता भवति रसयिता भवति घ्राता भवति द्रष्टा भवतीति एवं ह्याह अन्नाद्वै प्रजाः प्रजायन्ते याः कश्चित्पृथिवीशृताः । अतोऽन्नेनैव जीवन्ति अथैतदपि यन्ति अन्ततः ॥ ६.११ ॥

这是ātman的至高形态,由食物构成,因为这prāṇa也由食物构成。若他不食,便成为不思、不闻、不触、不见、不言、不嗅、不尝之人,并舍弃诸气息。他们如此说。若他食,则充满prāṇa,便成为能思、能闻、能触、能言、能尝、能嗅、能见之人。他们如此说。地上依托于食物而生的众生,由食物而生;因此它们依食物而活,最终又归于食物。

Maitrāyaṇī 6.12

अथान्यत्रापि उक्तम् सर्वाणि ह वा इमानि भूतान्यहरहः प्रपतन्त्यन्नमभिजिघृक्षमाणानि सूर्यो रश्मिभिराददात्यन्नं तेनासौ तपत्यन्नेनाभिषिक्ताः पचन्तीमे प्राणा अग्निर्वा अन्नेनोज्ज्वलत्यन्नकामेनेदं प्रकल्पितं ब्रह्मणा अतोऽन्नमात्मेत्युपासीतेत्वेयं ह्याह । अनाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते ॥ ६.१२ ॥

在别处也说:这些众生每日出现,都渴望获得食物。太阳以其光线摄取食物,因而放光。这些prāṇa被食物灌注而烹煮;因食物火焰才得以燃烧。为渴望食物者,brahman造出了这一切。因此应当将食物作为ātman来观想。他们如此说:众生从食物而生;既生,便依食物而长。它们被吃,众生也吃。所以它被称为食物。

Maitrāyaṇī 6.13

अथान्यत्रापि उक्तम् विश्वभृद्वै नामैषा तनुर्भगवतो विष्णोर्यदिदमन्नं प्राणो वा अन्नस्य रसो मनः प्राणस्य विज्ञानं मनस आनन्दं विज्ञानस्येति अन्नवान् प्राणवान् मनश्वान् विज्ञानवान् आनन्दवान् च भवति यो हैवं वेद यावान्तीह वै भूतान्यन्नमदन्ति तावत्स्वन्तस्थोऽन्नमत्ति यो हैवंवेद । अन्नमेव विजरन्नमन्नं संवननं स्मृतम् । अन्नं पशूनां प्राणोऽन्नं ज्येष्ठमन्नं भिषक् स्मृतम् ॥ ६.१३ ॥

在别处也说:这吉祥的毗湿奴之身名为Viśvabhṛt,即承载宇宙者,而它就是这食物。气息是食物的精华,意是气息的智,智即是喜乐。如此知之者,便具备食物、气息、意、智与喜乐。这里众生食多少食物,那安住于自身、如此知之者便食多少。食物确实不朽;食物被称为能滋养者。食物是畜类的气息;食物是最尊;食物被称为医者。

Maitrāyaṇī 6.14

अथान्यात्रप्युक्तम् अन्नं वा अस्य सर्वस्य योनिः कालश्चान्नस्य सूर्यो योनिः कालस्य तस्यैतद्रूपं यन् निमेषादिकालात्सम्भृतं द्वादशात्मकं वत्सरमेतस्याग्नेयमर्धमर्धं वारुणं मघाद्यं श्रविष्ठार्धमाग्नेयं क्रमेणोत्क्रमेण सार्पाद्यं श्रविष्ठार्धान्तं सौम्यम् तत्रैकैकमात्मनो नवांशकं सचारकविधम् सौक्ष्म्यत्वादेतत्प्रमाणमनेनैव प्रमीयते हि कालः न विना प्रमाणेन प्रमेयस्योपलब्धिः प्रमेयोऽपि प्रमाणतां पृथक्त्वादुपैत्यात्मसम्बोधनार्थमित्येवं ह्याह । यावत्यो वै कालस्य कलास्तावतीषु चरत्यसौ यः कालं ब्रह्मेत्युपासीत कालस्तस्यातिदूरमपसरतीति एवं ह्याह कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च । काले चास्तं नियच्च्हन्ति कालो मूर्तिरमूर्तिमान् ॥ ॥ ६.१४ ॥

又说:食物是这一切的根源,时间是食物的根源,太阳是时间的根源。这是他的形态:由眨眼等时间积聚而成的十二相之年。其一半属火(Agni),一半属水(Varuṇa);从摩伽(Maghā)到室罗婆吒(Śraviṣṭhā)的一半属火,依顺序与逆序,从阿希利沙(Āśleṣā)到室罗婆吒的一半属月(Soma)。在那里,每一者都带着其九分及其运行规则而存在。因其微妙,这便是度量,唯由此才能量度时间,因为没有量具,所知之物便无从把握。所知之物也因分离而获得量具的地位,以唤醒自我(ātman),如是说。时间有多少分,他便行经多少;视时间为梵而崇拜者,时间便远远离他而去,如是说。众生从时间流出,由时间而增长,又在时间中于终末归于寂灭。时间有形亦无形。

Maitrāyaṇī 6.15

द्वे वाव ब्रह्मणो रुपे कालश्चाकालश्चाथ यः प्रागादित्यात्सोऽकालोऽकालोऽथ य आदित्याद्यः स कालः सकलः सकलस्य वा एतद्रूपं यत्संवत्सरः संवत्सरात्खल्वेवेमाः प्रजाः प्रजायन्ते संवत्सरेणेह वै जाता विवर्धन्ते संवत्सरे प्रत्यस्तं यन्ति तस्मात्संवत्सरो वै प्रजापतिः कालोऽन्नं ब्रह्मनीडमात्मा चेत्येवं ह्याह कालः पचति भूतानि सर्वाण्येव महात्मनि । यस्मिन् तु पच्यते कालो यस्तं वेद स वेदवित् ॥ ॥ ६.१५ ॥

梵有两种形态:时间与无时。在太阳之前的是无时,实是无时;从太阳而来的是时间,它有部分。这是有部分者之形,即年。确实,这些众生从年而生;在此由年而生,并由年而长;在年中走向其落处。因此年确实是生主(Prajāpati);时间、食物、梵之巢与自我(ātman),如是说。时间在大我(ātman)中烹煮一切众生。其中时间被烹煮,而知之者,他便是通晓吠陀者。

Maitrāyaṇī 6.16

विग्रहवानेष कालः सिन्धुराजः प्रजानाम् एष तत्स्थः सविताख्यो यस्मादेवेमे चन्द्रर्क्षग्रह संवत्सरादयः सूयन्ते अथैभ्यः सर्वमिदमत्र वा यत्किञ्चित्शुभाशुभं दृश्यन्तेह लोके तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसंज्ञमादित्यमुपासीतादित्यो ब्रह्मेत्येकेऽथ एवं ह्याह । होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजापतिः । सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥ ॥ ६.१६ ॥

这时间有形,乃海之主、众生之王;住于其中者名为萨维塔(Savitṛ),确实由他而生月、星宿、行星、年岁等。随后由这些而生此世间所见的一切吉凶之事;因此以太阳为自我者即是梵。于是应当崇拜名为时间的太阳;有人说太阳即是梵。又如是说:献祭者、受用者、供物与咒语、祭祀、毗湿奴、生主,一切,某主宰,见证者,在那圆盘中照耀者。

Maitrāyaṇī 6.17

ब्रह्म ह वा इदमग्र आसीत् एकोऽनन्तः प्रागनन्तो दक्षिणोऽनन्तः प्रतीच्यनन्त उदीच्यनन्त ऊर्ध्वान् चाऽवान् च सर्वतोऽनन्तः न ह्यास्य प्राच्यादि दिशः कल्पन्तेऽथ तिर्यग्वान् चोर्ध्वं वा अनूह्य एष परमात्माऽपरिमितोऽतर्क्योऽचिन्त्य एष आकाशात्मा एवैष कृत्स्नक्षय एको जागर्तीति एतस्मादाकाशादेष खल्विदं चेतामात्रं बोधयति अनेनैव चेदम् ध्यायते अस्मिन् च प्रत्यस्तं याति अस्यैतद्भास्वरं रूपं यदमुष्मिन्नादित्ये तपति अग्नौ चाधुमके यज्ज्योतिश्चित्रतरमुदरस्तोऽथ वा यः पचत्यन्नम् इत्येवं ह्याह यश्चैषोऽग्नौ यश्चायं हृदये यश्चासावादित्ये स एष एका इत्येकस्य हैकत्वमेति य एवं वेद ॥ ६.१७ ॥

起初这唯有梵,一而无限:东方无限,南方无限,西方无限,北方无限,上下无限,四面八方皆无限。东等方位对它并不适用。应当以推理得知其在横向与向上。此至上我(ātman)无量,超越推理,不可思议。此以虚空为自性的我,是一切的唯一毁灭者,唯独它常醒。它以纯粹的觉知,从这虚空唤醒此世界;唯有借它才被冥想,而它也复归于此。它在那太阳中、在火中、在无烟之光中所放射的光辉形态,即腹中消化之火那奇妙的光明,正是同一形态。故有言:在火中者、在心中者、在那太阳中者,是此一者。知此者,便获得与一者的合一。

Maitrāyaṇī 6.18

तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिः षडङ्गा इत्युच्यते योगः अनेन यदा पश्यन्पश्यति रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् तदा विद्वान्पुण्यपापे विहाय परेऽव्यये सर्वमेकीकरोति एवं ह्याह यथा पर्वतमादीप्तं नाश्रयन्ति मृगद्विजाः । तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन ॥ ॥ ६.१८ ॥

同样,其修行之法称为六支瑜伽:调息、制感、禅定、专注、思辨与三摩地。以此得见那金色者、创造者、主宰、神我、梵之源,则智者舍弃功德与罪过,在至高不灭者中使一切合一。故有言:如同鹿与鸟不投奔燃烧的山,过失也从不投奔知梵者。

Maitrāyaṇī 6.19

अथान्यत्राप्युक्तम् यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थान् च प्राणो निवेशयित्वा निःसङ्कल्पस्ततस्तिष्ठेत् अप्राणादिह यस्मात्सम्भूतः प्राणसंज्ञको जीवस्तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणम् इत्येवं ह्याह अचित्तं चित्तमध्यस्तमचिन्त्यं गुह्यमुत्तमम् । तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम् ॥ ॥ ६.१९ ॥

另在他处亦有言:智者若已制约外在之心与诸根之境,安定其气息,离于欲念而住,则应在名为“究竟”(turya)的境界中持住气息,因为从此非气息中生起名为“气”(prāṇa)的生命。故有言:非心,被加于心之上,不可思议,秘密,至上;在那里应安置其心,而那标志是无所依托的。

Maitrāyaṇī 6.20

अथान्यत्राप्युक्तम् अतः परास्य धारणा तालुरसनाग्रनिपीडना द्वाङ्मनःप्राणनिरोधनाद्ब्रह्म तर्केण पश्यति यदात्मनाऽऽत्मान मणोरणीयांसं द्योतमानं मनःक्षयात्पश्यति तदात्मनात्मानं दृष्ट्वा निरात्मा भवति निरात्मकत्वादसङ्ख्योऽयोनिश्चिन्त्यो मोक्षलक्षणमित्येतत्परं रहस्यम् इत्येवं ह्याह चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुता इति ॥ ॥ ६.२० ॥

别处也说:其最高的专注是以舌尖抵压上颚,制止诸根、意与气息。以推理可见梵。当以自我见自我,细于微尘而光明,意灭之时,既以自我见自我,便成为无我。因无我,他成为不可数、无来源、不可思议、具解脱之相的;此为最高秘密。故说:以心之清净,善恶业便被消除。安住于自我,以清净的自我,便得不坏的喜乐。

Maitrāyaṇī 6.21

अथान्यत्राप्युक्तम् ऊर्ध्वगा नाडी सुषुम्नाख्या प्राणसञ्चारिणी ताल्वन्तर्विच्च्हिन्ना तया प्राणोङ्कारमनोयुक्तयोर्ध्वमुत्क्रमेत् ताल्वध्याग्रं परिवर्त्य इन्द्रियाण्यसंयोज्य महिमा महिमानं निरीक्षेता ततो निरात्वकमेति निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभता इत्येवं ह्याह परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः । तीर्त्वा पारमपारेण पश्चाद्युञ्जीत मूर्ध्वनि ॥ ॥ ६.२१ ॥

别处也说:名为须弥的上行脉道,负载气息,在上颚内部中断。与气息、唵与意相连,应向上升。转动上颚的上端,不合诸根,应观想其大。然后他进入无我之境;因无我,他不承受苦乐,而得独存。故说:先安立至上者,制住风息,再以非至上越过至上,之后应在头顶相合。

Maitrāyaṇī 6.22

अथान्यत्राप्युक्तम् द्वे वा व ब्रह्मणी अभिध्येये शब्दश्चाशब्दश्च अथ शब्देनैवाशब्दमाविष्क्रियते अथ तत्र ओमिति शब्दोऽनेनोर्ध्वमुत्क्रान्तोऽशब्दे निधनमेति अथाहैषा गतिरेतदमृतम् अतत्सायुज्यत्वम् निर्वृतत्वम् तथा चेति अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवं वा व खल्वासावभिध्याता ओमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते अन्यथा परे शब्दवादिनः श्रवणाङ्गुष्ठयोगेनान्तर्हृदयाकाशशब्दमाकर्णयन्ति सप्तविधेयं तस्योपमा यथा नद्यः किङ्किणी कांस्यचक्रकभेक विःकृन्दिका वृष्टिर्निवाते वदतीति तं पृथग्लक्षणमतीत्य परेऽशब्देऽव्यक्ते ब्रह्मण्यस्तं गताः तत्र तेऽपृथग्धर्मिणोऽपृथग्विवेक्या यथा सम्पन्ना मधुत्वं नानारसा इत्येवं ह्याह द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परां च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ॥ ६.२२ ॥

他处也说:梵有两种应当观想的形式,即声与无声。通过声,无声得以显现。在那里,声音“唵”借此向上升起,溶入无声之中。这便是道路,这便是不死,这便是与彼合一与极乐之境。正如蜘蛛沿着自己的丝线向上攀升而获得空间,那被观想者借“唵”向上升起,便获得自在。其他谈论声音的人,通过连接耳朵与拇指,在心内虚空中听闻声音。其比喻有七种:如河流,如小铃,如铜钹,如青蛙,如无风之处的雨声。超越这些不同的标记后,他们止息于至高、无声、未显现的梵之中。其本性不可分割,不可单独分辨,如同融入甘甜中的各种滋味。因此确实说:应当认识两种梵,即声梵与至高梵。精通声梵者,便证得至高之梵。

Maitrāyaṇī 6.23

अथान्यत्राप्युक्तम् यः शब्दस्तदोमित्येतदक्षरम् यदस्याग्रं तच्च्हान्तमशब्दमभयमशोकमानन्दं तृप्तं स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय तदेता उपसीतेत्येवं ह्याह योऽसौ परापरो देवा ॐकारो नाम नामतः । निःशब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत् ॥ ॥ ६.२३ ॥

他处也说:所谓“唵”,即“那个”之声,是此音节;其顶端有终结。它无声、无畏、无忧、喜乐、满足、坚定、不动、不死、不坏、恒常,被称为毗湿奴。应当观想它,以成为一切之上者。确实这样说:那位高低皆在的神,名为唵迦罗,无声而成为空,位于头顶之处;应当从那里修习。

Maitrāyaṇī 6.24

अथान्यत्राप्युक्तम् धनुः शरीरम् ओमित्येतच्छरः शिखास्य मनः तमोलक्षणं भित्वा तमोऽतमाविष्टमागच्छति अथाविष्टं भित्वाऽलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं ब्रह्म तमसः पर्यमपश्यद्यदमुष्मिन्नादित्येऽथ सोमेऽग्नौ विद्युति विभाति अथ खल्वेनं दृष्ट्वाऽमृतत्वं गच्छतीत्येवं ह्याह ध्यानमन्तःपरे तत्त्वे लक्ष्येषु च निधीयते । अतोऽविशेषविज्ञानं विशेषमुपगच्छति ॥ मानसे च विलीने तु यत्सुखं चात्मसाक्षिकम् । तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः ॥ ॥ ६.२४ ॥

又有处说:身体是弓,唵是箭,心是其尖。穿透黑暗的标记,他进入非暗之境。然后,进入之后,他看见梵,它如旋转的燃烧火轮般闪耀,具有太阳之色,充满力量,超越黑暗,在那太阳中显现,继而在月、火与闪电中照耀。见到它,他便获得不死,据说如此。禅定安住于内在的至高本体与所向之目标。因此无差别的知识达到差别。心灭之时,由自我所证的喜乐,即是梵,即是不死与清净;即是世间的归宿。

Maitrāyaṇī 6.25

अथान्यत्राप्युक्तम् निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वप्न इव यः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्युं विशोकं च सोऽपि प्रणवाख्यः प्रणेता भारूपः विगत निद्रः विजरः विमृत्युर्विशोको भवतीत्येवं ह्याह एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा । युनक्ति युञ्जते वापि यस्माद्योग इति स्मृतः ॥ एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च । सर्वभावपरित्यागो योग इत्यभिधीयते ॥ ॥ ६.२५ ॥

又有处说:若人将诸根收摄于内,以最纯净的觉慧,如在睡眠中、如在梦中,不受束缚地,于诸根的孔窍之内,见到名为普拉瓦纳的导引者,具光明之相,无眠、无老、无死、无忧;他自己也成为名为普拉瓦纳的导引者,具光明之相,无眠、无老、无死、无忧,如此说。由于它以多种方式连结一切,且瑜伽行者与之相连,故称之为瑜伽——即气息与音节唵。气与心的合一,同样诸根的合一,舍弃一切诸法,这就称为瑜伽。

Maitrāyaṇī 6.26

अथान्यत्राप्युक्तम् यथा वाप्सु चारिणः शाकुनिकः सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वा व खल्विमान्प्राणानोमित्यनेनोद्धृत्यानामयेऽग्नौ जुहोति अतस्तप्तोर्विवसोऽथ यथा तप्तोर्वि सार्पिस्तृणकाष्ठसंस्पर्शे नोज्ज्वलतीत्येवं वा व खल्वसावप्राणाख्यः प्राणसंस्पर्शेनोज्ज्वलति अथ यदुज्ज्वलत्येतद्ब्रह्मणो रूपं चैतद्विष्णोः परमं पदम् चैतद्रुद्रस्य रुद्रत्वमेतत्तदपरिमितधा चात्मानं विभज्य पूरयतीमां लोकानित्येवं ह्याह वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य प्राणादयो वै पुनरेव तस्माद् अभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ६.२६ ॥

又有处说:譬如猎人在水中以丝线机关将鸟拉出,置于腹中,投入火中焚祭;他亦以唵将这些气息引出,投入无病之火中。因此,如同加热而裸露的酥油,遇草木之触而不燃,那名为无气的本体,遇气息之触则燃烧起来。而所燃烧者,即是梵之形相,即是毗湿奴的至高住处,即是楼陀罗的楼陀罗性;这正是以无量之形分割自身,充满诸世界,如此说。如火之星火与日之光线,其气息等亦依次从它重新升起。

Maitrāyaṇī 6.27

अथान्यत्राप्युक्तम् ब्रह्मणो वा वैतत्तेजः परस्यामृतस्याशरीरस्य यच्छरीरस्यौष्ण्यमस्यैतद् घृतमथाविः सन् नभसि निहितं वैतदेकाग्रेणैवमन्तर्हृदयाकाशं विनुदन्ति यत्तस्य ज्योतिरिव सम्पद्यतीति अतस्तद्भावम् अचिरेणैति भूमावयस्पिण्डं निहितं यथाऽचिरेणैति भूमित्वम् मृद्वत्संस्थमयस्पिण्डं यथाग्न्ययस्कारादयो नाभिभवन्ति प्रणश्यति चित्तं तथाश्रयेण सहैवमित्येवं ह्याह हृद्याकाशमयं कोशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः ॥ ॥ ६.२७ ॥

在别处也这样说:这是梵的光明,至上、不死、无身,身体的热也是它。这是酥油,一旦显现,便安放于天空中。那些以专一之心,在心中的虚空里如此搅动它的人,会发现它的光明如同火焰。因此人很快便达到那种境界,正如放在地上的铁块很快便获得土的性质;又如放在柔软泥土中的铁块,连铁匠等人也无法制服,便会毁坏。心便与它的依托一同消亡。因此有言:由心之虚空所成的鞘,充满喜乐,是最高的居所。他自己的瑜伽,由此产生我们的光辉,以及火与太阳的光辉。

Maitrāyaṇī 6.28

अथान्यत्राप्युक्तम् भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं धृतिदण्डं धनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा तं ब्रह्म द्वारपारं निहत्याद्यं संमोहमौली तृष्णेर्ष्याकुण्डली तन्द्रीराघवेत्र्यभिमानाध्यक्षः क्रोधज्यं प्रलोभदण्डं धनुर्गृहीत्वेच्च्हामयेन चैवेषुणेमानि खलु भूतानि हन्ति तं हत्वोंकारप्लवेनान्तर्हृदयाकाशस्य पारं तीर्त्वाविर्भूते अन्तराकाशे शनकैरवटैवावटकृद्धातुकामः संविशत्येवं ब्रह्मशालां विशेत् ततश्चतुर्जालं ब्रह्मकोशं प्रणुदेत् गुर्वागमेनेति अतः शुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठति अतः स्वे महिम्नि तिष्ठमानम् दृष्ट्वाऽवृत्तचक्रमिव सञ्चारचक्रमालोकयति इत्येवं ह्याह षड्भिर्मासैस्तु युक्तस्य नित्यमुक्तस्य देहिनः
अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ॥
रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः
पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन ॥ ॥ ६.२८ ॥

在别处也这样说:超越了诸大、诸根及其境界之后,然后受持出家,以酥油为供品,持坚忍之杖,以无我慢为箭,手持弓,杀死梵的第一守门者——戴着迷惑之冠、佩戴渴爱与嫉妒之耳环、持懈怠与昏沉之杖的我慢之主;以愤怒为弦、贪婪为杖的弓,以欲望与疾病所成的箭,确实杀死这些众生。杀死他之后,借助唵的筏子,渡过心中虚空的彼岸,渐渐进入显现的内在虚空,如同渴望元素的掘坑者。如此应当进入梵的殿堂。然后依靠师尊的教导,应当除去四重网和梵之鞘。因此他是清净的、净化的、空的、寂静的、无气息的、无我的、无限的、不灭的、坚固的、永恒的、不生的、自主的,安住在自己的伟大之中。因此,见他安住于自己的伟大之中,便将轮回之轮看作不转之轮。故有言:对于在六个月中相应、永远解脱的有身者,无限、至上、秘密的正确瑜伽便生起。对于被热情与黑暗所刺、深深燃烧、执着于子女妻室与家族的有身者,永远没有。

Maitrāyaṇī 6.29

एवमुक्त्वाऽन्तर्हृदयः शकायन्यस्तस्मै नमस्कृत्वाऽनया ब्रह्मविद्यया राजन् ब्रह्मणः पन्थानमारूढाः पुत्राः प्रजापतेरिति सन्तोषं द्वन्द्वतितिक्षां शान्तत्वं योगाभ्यासादवाप्नोतीति एतद्गुह्यतमं नापुत्राय नाशिष्याय नाशान्ताय कीर्तयेदिति अनन्यभक्ताय सर्वगुणसम्पन्नाय दद्यात् ॥ ॥ ६.२९ ॥

如此说毕,心向内的沙迦衍尼耶向他致敬。大王啊,依此梵智,生主之子们登上了梵之道。知足、忍受对立之双、寂静,皆由修习瑜伽而得,故说。此为最秘密之法:不可传给无子者、无弟子者或心不寂静者。应当传给专一奉献、具足一切善德之人。

Maitrāyaṇī 6.30

ॐ शुचौ देशे शुचिः सत्त्वस्थः सदधीयानः सद्वादी सद्ध्यायी सद्याजी स्यादिति । अतः सद्ब्रह्मणि सत्यभिलाषिणि निर्वृत्त्योऽनस्तत्फलच्च्हिन्नपाशो निराशः परेष्वात्मवद्विगतभयो निष्कामोऽक्षय्यमपरिमितं सुखमाक्रम्य तिष्ठति । परमं वै शेवधेरिव परस्योद्धरणं यन्निष्कामत्वम् । स हि सर्वकाममयः पुरुषोऽध्यवसायसङ्कल्पाभिमानलिङ्गो बद्दः । अतस्तद्विपरीतो मुक्तः । अत्रैक आहुर्गुणः प्रकृतिभेदवशासध्यवसायात्मबन्धमुपागतो। अध्यवसायस्य दोषक्षयाद्धि मोक्षः मनसा ह्येव पश्यति मनसा शृणोति कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव गुणौघैरुह्यमानः कलुषीकृतश्चास्थिरश्चलो लुप्यमानः सस्पृहो व्यग्रश्चाभिमानित्वं प्रयात इति अहं सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मानं जालेनेव खेचरः । अतः पुरुषोऽध्यावसायसङ्कल्पाबिमानलिङ्गो बद्दः अतस्तद्विपरीतो मुक्तः तस्मान्निरध्यवसायो निःसङ्कल्पो निरभिमानस्तिष्ठेत् एतन्मोक्षलक्षणम् एषात्र ब्रह्मपदवी एषोऽत्र द्वारविवरोऽनेनास्य तमसः पारं गमिष्यति । अत्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश न विचेष्टते तामाहुः परमां गतिम् ॥ एतदुक्त्वान्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वा यथावदुपचारी कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिः एषोऽत्र ब्रह्मपथः सौरं स्द्वारं भित्त्वोर्द्ध्वेन विनिर्गता इत्यत्रोदाहरन्ति अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कद्रुनीलाः कपिला मृदुलोहिताः ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भिभित्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् । तेन देवनिकायानां स्वधामानि प्रपद्यते ॥ ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवषः । तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्य इति ॥ ॥ ६.३० ॥

唵。在清净之处,清净而安住于善中,应当成为善的学习者、善的言说者、善的禅思者、善的祭祀者。因此,渴望真实梵的人,脱离行为的果报,断除束缚,无所希求,待人如己,无惧无欲,便得到不坏、无量的快乐而安住。离欲正是那无上宝藏的取回,如同取回隐藏的宝物。那人由一切欲望构成,以决断、意图与我慢为标志,是被束缚的。因此与之相反的便是解脱者。此处有人说:德性借由原质的区分之力,获得以决断为形式的自我束缚。解脱来自决断之过失的消灭。因为人只以心见,只以心闻;欲、意图、疑惑、信、不信、坚定、不坚定、羞耻、智慧、恐惧,这一切都只是心。心被诸德的洪流所卷,变得污浊、不稳、动荡、破碎、充满渴望与慌乱,便陷入我慢,并想着“我即是那,这是我的”,于是以自己束缚自己,如同鸟落入网中。因此,以决断、意图与我慢为标志的人是被束缚的;与之相反的是解脱者。因此应当无决断、无意图、无我慢地安住;这便是解脱的标志。此处即是梵位;此即门扉的孔隙;由此他将越过这黑暗的彼岸。此处一切欲望都汇聚,关于此事有如下引证:当五知根与心共住,智慧亦不活动时,人们称之为最高之归趣。说完这些,内心深处的舍迦衍尼向他礼敬,依法奉行供养,完成所作,乘风而去,走向太阳的北行之道。此处没有向上之道的行进。此即梵之道,穿过太阳之门而向上出去,关于此事有如下引证:其无数光线如灯一般安住于心中:白、黑、赤黑、青、棕色、柔红。其中一道向上而立,穿破日轮,超越梵界,人们借之而达至最高归趣。他的另外百道光线也向上安置;借之便到达诸神众的自居之所。下方那多种形态的柔光光线,借之他在此无助地漂泊,以享受业报。因此,这位世尊太阳,便是创造、天界与解脱的因。

Maitrāyaṇī 6.31

किमात्मकानि वा एतानीन्द्रियाणि प्रचरन्त्युद्गन्ता चैतेषामिह को नियन्ता वेत्याह । प्रत्याहात्मात्मकानीत्यात्मा ह्येषामुद्गन्ता वाप्सरसो भानवीयाश्च मरीचयो नाम अथ पञ्चभिः रश्मिभिर्विषयानत्ति कतम आत्मेति योऽयं शुद्धः पूतः शून्यः शान्तादिलक्षणोक्तः स्वकैर्लिङ्गैरुपगृह्यः तस्यैतल्लिङ्गमलिङ्गस्याग्नेर्यदौष्ण्यमाविष्टं चापां यः शिवतमोरस इत्येके । अथ वाक्ष्रोत्रं चक्षुर्मनः प्राण इत्येके, अथ बुद्धिर्धृतिः स्मृतिः प्रज्ञा तदित्येके अथ ते एतस्यैवं यथैवेह बीजस्याङ्कुरावाथधूमार्चिर्विष्फुलिङ्गा इवाग्नेश्चेति अत्रोदाहरन्ति वह्नेश्च यद्वत्खलु विष्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य । प्राणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथाक्रमेण ॥ ॥ ६.३१ ॥

这些感官以何种性质运行?谁是它们的唤起者,谁在此为其主宰?答:它们以我为本性而运行,因为我是它们的唤起者。或者,名为阿普萨拉斯的太阳光线唤起它们。然后他以五道光线享用诸境。“何者是我?”是那被描述为清净、纯洁、空寂、以寂静等为特征者;他应当由自己的标记去把握。这无标记者的标记,是水中所含的火之热,即最吉祥的精华,有人如此说。又有人说是言语、听觉、视觉、意与气息;另有人说是觉、坚定、记忆与智慧。正如种子生出芽,火生出烟、焰与火星,由他依次生起气息等。

Maitrāyaṇī 6.32

तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वे देवाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति अथ यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसा इतिहासः पुराणम् विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि विश्वा भूतानि ॥ ६.३२ ॥

从这同一个我,一切气息、一切世界、一切吠陀、一切神祇和一切众生都生起。其秘义是“真理之真理”。正如以湿柴点燃的火中,烟各自分别冒出,这就是这伟大存在的呼气:《梨俱吠陀》《夜柔吠陀》《娑摩吠陀》《阿闼婆-安吉罗》、历史、古传、诸学、《奥义书》、诗颂、经句、注释与解说——这一切都属于他,宇宙中的一切众生也都属于他。

Maitrāyaṇī 6.33

पञ्चेष्टको वा एषोऽग्निः संवत्सरः तस्येमा इष्टका यो वसन्तो ग्रीष्मो वर्षाः शरद्धेमन्तः स शिरःपक्षसीपृच्च्हपृष्टवान् एषोऽग्निः पुरुषविदः सेयं प्रजापतेः प्रथमा चितिः करैर्यजमानमन्तरिक्षमुत्क्षिओप्त्वा वायवे प्रायच्च्हत् प्राणो वै वायुः प्राणोऽग्निस्तस्येमा इष्टका यः प्राणो व्यानोऽपानः समान उदानः स शिरःपक्षसीपृष्ठपुच्च्हवानेषोऽग्निः पुरुषविदस्तदिदमन्तरिक्षं प्रजापतेर्द्वितीया चितिः करैर्यजमानं दिवमुत्क्षिप्तेन्द्राय प्रायच्च्हत् असौ वा आदित्य इन्द्रः सैषोऽग्निः तस्येमा इष्टका यदृग्यजुः सामाथर्वाङ्गिरसा इतिहासं पुराणं स शिरःपक्षसीपुच्च्हपृष्ठवानेषोऽग्निः पुरुषविदः सैषा द्यौः प्रजापतेस्तृतीया चितिः करैर्यजमानस्यात्मविदेऽवदानं करोति यथात्मविदुत्क्षिप्य ब्रह्मणे प्रायच्च्हत् तत्रानन्दी मोदी भवति ॥ ६.३३ ॥

此火是五砖之火,或即是年。其砖为春、夏、雨、秋、冬。它有头、两翼、两侧、尾与背;对知人者而言,它即是火。这是生主(Prajāpati)的第一层。他以双手将施祭者举到虚空中,交给了风神Vāyu。气息(prāṇa)即是风,气息即是火。其砖为prāṇa、vyāna、apāna、samāna、udāna;它有头、翼、侧、背与尾;这是知人者之火。此虚空是生主的第二层。他以双手将施祭者举到天上,交给了因陀罗。那太阳即是因陀罗,他即是此火。其砖为《梨俱》《夜柔》《娑摩》与《阿闼婆》、史诗与古传;它有头、翼、侧、尾与背;这是知人者之火。此天是生主的第三层。他以双手为施祭者向知自我(ātman)者献上供物;如同举起知自我者交给梵,他在那里便欢喜雀跃。

Maitrāyaṇī 6.34

पृथिवीगार्हपत्योऽन्तरिक्षं दक्षिणाग्निर्द्यौराहवनीयः तत एव पवमानपावकशुचय आविष्कृतमेतेनास्य यज्ञम् यतः पवमानपावकशुचिसंघातो हि जाठरः तस्मादग्निर्यष्टव्यः चेतव्यः स्तोतव्योऽभिध्यातव्यः यजमानो हविर्गृहीत्वा देवताभिध्यानमिच्छति हिरण्यवर्णः शकुनो हृद्यादित्ये प्रतिष्ठितः मद्गुर्हंसस्तेजोवृषः सोऽस्मिन्नग्नौ यजामहे इति चापि मन्त्रार्थं विचिनोति । तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं यो बुद्ध्यन्तस्थो ध्यायीह मनःशान्तिपदमनुसरत्यात्मन्येव धत्तेऽत्रेमे श्लोका भवन्ति १ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यते । २ स्वयोनावुपशान्तस्य मनसः सत्यकामतः इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः । ३ चित्तमेव हि संसारम् तत्प्रयत्नेन शोधयेत् यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् । ४ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते । ५ समासक्तं यथा चित्तं जन्तोर्विषयगोचरे यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् । ६ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च अशुद्धं कामसम्पर्कात् शुद्धं कामविवर्जितम् । ७ लय विक्षेपरहितं मनः कृत्वा सुनिश्चलम् यदा यात्यमनीभावं तदा तत्परमं पदम् । ८ तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतम् एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः । ९ समाधिनिर्धौतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते । १० अपामापोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत् एवमन्तर्गतं यस्य मनः स परिमुच्यते । ११ मन एव मनुष्याणं कारणं बन्धमोक्षयोः बन्धाय विषयासंगिं मोक्षो निर्विषयं स्मृतम् । अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्राह्मणः पदव्योमानुस्मरणं विरुद्धम् तस्मादग्निर्यष्टव्यः चेतव्यः स्तोतव्योऽभिध्यातव्यः ॥ ६.३४ ॥

大地是家主之火,虚空是南方之火,天是供养之火。纯净火、净化火与明亮火正是由它们显现;而纯净、净化与明亮之火的总和便是消化之火。因此应当供奉火、认识火、赞颂火、冥想火。祭主手持供物,愿望对神的冥想。“金色之鸟住于心中与太阳之中;天鹅,光辉之公牛:我们在此火中祭祀”——如此思考咒语之义。应当冥想萨维特里那可敬的光辉,它住于觉性之内。在此追随心之寂静境界的冥想者,便在自我之中持守它。关于此,有以下诸颂:1. 如无薪之火在其本源中熄灭,心也因诸转变的止息而在其本源中寂静。2. 对于心在其本源中寂静、缺乏真实欲望而又被感官对象迷惑的人,欲望是虚妄的,随业力而行。3. 心即轮回;应以努力净化它。人成为其心所是的样子——这是秘密的永恒真理。4. 心的澄明消除善与恶的业;自我清净、安住于自我者,获得不坏的乐。5. 如同众生之心深深执着于境界之域,若它也如此执着于梵,谁不会从束缚中解脱?6. 心被说为两种:净与不净;因与欲望接触而不净,离欲则净。7. 当心离于昏沉与散乱,被使之极其稳定,达到无心之境,那便是至上之境。8. 心应被摄持于心中,直至消融;这便是智慧与解脱,其余都是冗长的论述。9. 当心因入定而洗净垢染,安住于自我时所生之乐,无法以言语描述;它由内在的心自身所领会。10. 如同在水中不见水、在火中不见火、在虚空中不见虚空,如此内在摄入其心者便完全解脱。11. 心本身是人束缚与解脱的原因;执着对象导致束缚,远离对象被称为解脱。因此,对于不行火祭、未建火坛而又无知的人,忆念婆罗门的天空之路是相违的。因此应当供奉火、认识火、赞颂火、冥想火。

Maitrāyaṇī 6.35

नमोऽग्नये पृथिवी क्षिते लोकस्मृते लोकम्स्मै यजमानाय धेहि नमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लकमस्मै यजमानाय धेहि नम आदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमो ब्रह्मणे सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् तत्त्वं पूषन्नपावृणु सत्यधर्माय विष्णवे योऽसा आदित्ये पुरुषः सोऽसा अहम् एष ह वै सत्यधर्मो यदादित्यस्य आदित्यत्वं तच्च्हुक्लम् पुरुषम् अलिङ्गम् नभसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्य इवेत्य् अक्षिण्यग्नौ चैतद्ब्रह्मैतदमृतमेतद्भर्गः एतत्सत्यधर्मो नभसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्ये अमृतं यस्य हि सोमः प्राणा वा अप्ययंकुरा एतक़्द्ब्रह्मैतदमृतमेतद्भर्गः एतत्सत्यधर्मो नभसोऽन्तर्गतस्य तेजसोऽंशमात्रम् एतद्यदादित्यस्य मध्ये यजुर्दीप्यत्यौमापोज्योतिरसोऽमृतंब्रह्म भूर्भुवः स्वरोम् । अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् द्विधर्मोऽन्धं तेजसेन्धं सर्वं पश्यन्पश्यति नभसोऽन्तर्गतस्य तेजसोऽन्शमात्रमेतद्यदादित्यस्य मध्ये उदित्वा मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तप एतदग्निरेतद्वायुरेतत्प्राण एतदाप एतच्चन्द्रमा एतच्च्हुक्रमेतदमृतमेतद्ब्रह्मविषयमेतद्भानुरर्णवस्तस्मिन्नेव यजमानः सैन्धव इव व्लीयन्त एषा वै ब्रह्मैकतात्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति -- अंशुधारय इवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम्। यो हैवंवित्स सवित् स द्वैतवित् सैकधामेतः स्यात्तदात्मकश्च । ये विन्दव इवाभ्युच्चरन्त्यजस्रम् विद्युदिवाभ्रार्चिषः परमे व्योमन् । तेऽर्चिषो वै यशस आश्रयवशाज्जटाभिरूपा इव कृष्णवर्त्मनः ॥ ६.३५ ॥

敬礼火神阿耆尼,他居于大地,被忆为世界;愿赐予此祭祀者一个世界。敬礼风神伐由,他居于虚空,被忆为世界;愿赐予此祭祀者一个世界。敬礼太阳阿底提耶,他居于天界,被忆为世界;愿赐予此祭祀者一个世界。敬礼梵,他遍在于一切,被忆为一切;愿赐予此祭祀者一切。真理的面容被金器遮蔽;普善神啊,请揭开它,为法为真理的毗湿奴而揭。太阳中的那个人,就是我。这确实是真理之法:太阳之为太阳,正是那无相的白色之人,只是天空内光明的一部分,处在太阳中央、眼中与火中。这就是梵,这就是不死,这就是光辉,这就是真理之法。天空内光明的一部分就是这不死者,位于太阳中央,月亮与诸气息以之为归宿。这就是梵,这就是不死,这就是光辉,这就是真理之法。天空内光明的一部分就是这个;祭祀之言在太阳中央闪耀:阿乌玛、水、光、精华、不死的梵;bhūḥ、bhuvaḥ、svaḥ、om。那八足、纯净的天鹅,三线、细微而不坏,二重之性,盲而被光点燃,见一切而见。天空内光明的一部分就是这个,它在太阳中央升起而化为光线。这是萨维特里,真理之法;这是祭祀之言,这是苦行,这是火,这是风,这是气息,这是水,这是月,这是明亮者,这是不死,这是梵的对象;这是太阳,是海洋。祭祀者在其中如海盐般消融。这是梵的一性;这里汇集了一切欲望,如此处所示:如细风所动的光线之流闪烁,他便在诸神之中闪烁。知此者即为萨维特里;他是知二元者,从此他与唯一住处合一,并具有那种本性。那些持续上升的点滴,如至高虚空中云焰的闪电,那些焰火因其在荣耀中的依托,呈现出如蓬乱发辫的形状,沿着黑暗之道前行。

Maitrāyaṇī 6.36

द्वे वाव खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेकं समृद्धं चैकम् । अथ यच्छान्तं तस्याऽऽधारं खम् अथ यत्समृद्धमिदं तस्यान्नम् तस्मान्मन्त्रौषधाज्यामिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्तर्वेद्याम्। आस्न्यवशिष्टैरन्नपानैश्चाऽऽस्यमाहवनीयमिति मत्वा तेजसः समृद्ध्यै पुण्यलोकविजित्यर्थायामृतत्वाय चात्रोदाहरन्ति - अग्निहोत्रं जुहुयात्स्वर्गकामो यमराज्यमग्निष्टोमेनाभियजति सोमराज्यमुक्थेन सूर्यराज्यं षोडशिना स्वाराज्यमतिरात्रेण प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति । वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः । अन्तर्याण्डोपयोगादिमौ स्थितावात्मशुची तथा ॥ ॥ ६.३६ ॥

梵之光的形态只有这两种:一种寂静,一种繁盛。寂静者以虚空为依托,而繁盛者是它的食物。因此应在祭场内以咒语、草药、酥油、供品、饼和锅中煮的米饭来祭祀。以口中剩余的饮食把口当作阿诃婆尼耶火,他们引用这些例子,为了光明的增长、征服功德世界和不死:愿生天者应行火祭;以阿耆湿多摩可达阎摩之界,以乌克陀达苏摩之界,以烧达希达太阳之界,以阿帖罗陀达自主之界,以千年之祭达生主之界。犹如灯因灯芯、灯座与油的结合而稳定,借用内在之器,这两者,即自我与清净,得以安住。

Maitrāyaṇī 6.37

तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तत्त्रेधभिहितमग्नावादित्ये प्राणेऽथैषा नाड्यन्नबहुमित्येषाग्नौ हुतमादित्यं गमयति अतो यो रसोऽस्रवत् स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजा इत्यत्रोदाहरन्ति -- यद्धविरग्नौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मिभिर्वर्षति तेनान्नं भवति अन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ॥ ६.३७ ॥

因此应以唵来观想这无量的光明,它被宣说为三重:在火中、在太阳中、在气息中。这条脉络充满食物;在火中所献之物,它引至太阳。因此流淌的精华降下歌咏之雨,由此生出这些气息,由气息生出众生。对此他们引用例子:投入火中的供物被引至太阳;太阳以光线降雨,由此有了食物;由食物而有众生之生,他如是说。投入火中的祭物正确地到达太阳。从太阳生雨,从雨生食,从食生众生。

Maitrāyaṇī 6.38

अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति अतः संमोहं छित्वा न क्रोधान्स्तुनष्वानः काममभिध्यायमानस्ततश्चतुर्जालं ब्रह्मकोशं भिन्ददतः परमाकाशमत्र हि सौर सौम्याग्नेयसात्विकानि मण्डलानि भित्त्वा ततः शुद्धः सत्त्वान्तरस्थमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितम् सर्वापरं धाम सत्यकामसर्वज्ञत्वसंयुक्तम् स्वतन्त्रम् चैतन्यम् स्वे महिम्नि तिष्ठमानं पश्यति अत्रोदाहरन्ति -- रविमध्ये स्थितः सोमः सोममध्ये हुताशनः । तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥ शरीरप्रादेशाङ्गुष्ठमात्रमणोरप्यणुं ध्यात्वाऽतः परमतां गच्छति अत्र हि सर्वे कामाः समाहिता इति अत्रोदाहरन्ति -- अङ्गुष्ठप्रादेशशरीरमात्रं प्रदीपप्रतापवद्द्विस्त्रिधा हि। तद्ब्रह्माभिष्टूयमानं महो देवो भुवनान्याविवेश । ॐ नमो ब्रह्मणे नमः ॥ ॥ ६.३८ ॥

在阿耆尼霍特拉祭中献供者,断裂贪欲之网。如此,斩断迷妄,不以愤怒,而以赞颂与观想欲望,然后穿透四重之网与梵之鞘,抵达最高空间。在此,穿透日、月、火与悉多之域,得以清净,他见到那不动、不死、不坏、恒定、名为毗湿奴的存在——一切之最上住处,具真实欲望与全知,自在,觉性,安住于自身的伟大,居于悉多之中。此处引一偈:月居日中,火居月中;悉多居光中,不坏者居悉多中。观想身中如拇指大小的自我,以及比原子更微小者,他超越此境。此处一切欲望皆聚集。此处又引:梵身如拇指之大,如灯光之明,二重与三重,受到赞颂,光明之神进入诸世界。唵。敬礼梵。敬礼。