Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

38.1

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ऽदित्यै रास्नासि ॥ ३८.१ ॥

凭借天神萨维特里的推动,以双阿溯因的臂膀与普善的双手,我取你。你是为阿底提所用的舌带(rāsnā)。

38.2

इड ऽ एहि ।
अदित ऽ एहि ।
सरस्वत्त्य् एहि ।
असाव् एहि ।
असाव् एहि ।
असाव् एहि ॥ ३८.२ ॥

伊达啊,来。阿底提啊,来。萨罗室伐底啊,来。你,来。你,来。你,来。

38.3

अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः ।
पूषासि ।
घर्माय दीष्व ॥ ३८.३ ॥

你是为阿底提所用的舌带(rāsnā)。你是为因陀罗尼所用的头巾(uṣṇīṣa)。你是普善。为热(gharma)而放光吧。

38.4

अश्विभ्यां पिन्वस्व ।
सरस्वत्यै पिन्वस्व ।
इन्द्राय पिन्वस्व ।
स्वाहेन्द्रवत् ।
स्वाहेन्द्रवत् ।
स्वाहेन्द्रवत् ॥ ३८.४ ॥

为双阿溯因而充盈。为萨罗室伐底而充盈。为因陀罗而充盈。娑婆诃,如同因陀罗。娑婆诃,如同因陀罗。娑婆诃,如同因陀罗。

38.5

यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥ ३८.५ ॥

你那能够滋养、带来福祉、赐予珍宝、寻得财富、慷慨的乳房,你借之滋养一切所欲之物——萨罗室伐底啊,请让它在此供人吮饮。我沿着广阔的虚空前行。

38.6

गायत्रं छन्दो ऽसि ।
त्रैष्टुभं छन्दो ऽसि ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि ।
अन्तरिक्षेणोप यच्छामि ।
इन्द्राश्विना ।
मधुनः सारघस्य घर्मं पात वसवो यजत वाट् ।
स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥ ३८.६ ॥

这是伽耶特里格律。这是特利修普格律。为天与地,我握住你。以中空,我承托你。因陀罗与双马童啊,请饮蜜与萨拉伽的温热甘露!婆苏们啊,请献祭;瓦特!斯瓦哈,献给太阳之光,献给征服降雨者。

38.7

समुद्राय त्वा वाताय स्वाहा ।
सरिराय त्वा वाताय स्वाहा ।
अनाधृष्याय त्वा वाताय स्वाहा ।
अप्रतिधृष्याय त्वा वाताय स्वाहा ।
अवस्यवे त्वा वाताय स्वाहा ।
अशिमिदाय त्वा वाताय स्वाहा ॥ ३८.७ ॥

为海洋,我将你献给风,斯瓦哈。为流动者,我将你献给风,斯瓦哈。为不可侵犯者,我将你献给风,斯瓦哈。为不可抵挡者,我将你献给风,斯瓦哈。为寻求庇护者,我将你献给风,斯瓦哈。为丰饶的赐予者,我将你献给风,斯瓦哈。

38.8

इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ।
इन्द्राय त्वादित्यवते स्वाहा ।
इन्द्राय त्वाभिमातिघ्ने स्वाहा ।
सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा ।
बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥ ३८.८ ॥

为拥有财富并伴随楼陀罗的因陀罗,我将你献上,斯瓦哈。为伴随阿propri提的因陀罗,我将你献上,斯瓦哈。为杀敌者因陀罗,我将你献上,斯瓦哈。为伴随乐神、大神与力量的萨维特利,我将你献上,斯瓦哈。为伴随诸神的布利哈斯帕提,我将你献上,斯瓦哈。

38.9

यमाय त्वाङ्गिरस्वते पितृमते स्वाहा ।
स्वाहा घर्माय ।
स्वाहा घर्मः पित्रे ॥ ३८.९ ॥

献给与安吉罗斯和祖灵同在的阎摩,我献上你。娑哈。娑哈,献给热牛奶(gharma)。娑哈,献给父亲的热牛奶。

38.10

विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ।
स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना ॥ ३८.१० ॥

坐于南方的诸位,请在此礼敬四方一切诸神。阿输二神啊,请饮用以娑哈献上的热牛奶之甘露。

38.11

दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः ।
स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥ ३८.११ ॥

请将此祭祀安立于天界,请将此祭祀安立于天界。娑哈,献给配享祭祀的阿耆尼。愿祭祀真言安康。

38.12

अश्विना घर्मं पातꣳ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः ।
तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥ ३८.१२ ॥

阿输二神啊,白日里伴随你们的护佑,饮用令人心悦的热牛奶。敬礼祭绳的守护者;敬礼天与地。

38.13

अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमꣳसाताम् ।
इहैव रातयः सन्तु ॥ ३८.१३ ॥

双阿输二神饮用了热牛奶,天与地表示认可。愿这些施舍就在此处。

38.14

इषे पिन्वस्व ।
ऊर्जे पिन्वस्व ।
ब्रह्मणे पिन्वस्व ।
क्षत्राय पिन्वस्व ।
द्यावापृथिवीभ्यां पिन्वस्व ।
धर्मासि सुधर्म ।
अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥ ३८.१४ ॥

为食物而充盈,为力量而充盈,为梵而充盈,为刹帝利之力而充盈,为天与地而充盈。你是热牛奶,善于持守。无畏者啊,为我们持守男子之力;持守梵;持守刹帝利之力;持守民众。

38.15

स्वाहा पूष्णे शरसे ।
स्वाहा ग्रावभ्यः ।
स्वाहा प्रतिरवेभ्यः ।
स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः ।
स्वाहा द्यावापृथिवीभ्याम् ।
स्वाहा विश्वेभ्यः देवेभ्यः ॥ ३८.१५ ॥

娑訶!献给普山、芦苇。娑訶!献给压榨石。娑訶!献给应答之声。娑訶!献给竖立神草的祖先,献给热祭的守护者。娑訶!献给天地。娑訶!献给一切诸神。

38.16

स्वाहा रुद्राय रुद्रहूतये ।
स्वाहा सं ज्योतिषा ज्योतिः ।
अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।
रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।
मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिꣳसीः ॥ ३८.१६ ॥

娑訶!献给楼陀罗,献给被楼陀罗召请者。娑訶!愿光与光相合。愿白昼以其旗幡欢喜,以光与明光相合,娑訶!愿黑夜以其旗幡欢喜,以光与明光相合,娑訶!蜜已献入最似因陀罗的火中;神啊热祭,愿我们得之。向你致敬。不要伤害我们。

38.17

अभीमं महिमा दिवं विप्रो बभूव सप्रथाः ।
उत श्रवसा पृथिवीꣳ सꣳ सीदस्व महाꣳ२ऽ असि रोचस्व देववीतमः ॥ ३८.१७ ॥

此火以其伟大遍及天界;受启示的智者已然广大。以荣光充满大地,端坐其中。你伟大,请发光吧,诸神最所喜爱者。

38.18

या ते घर्म दिव्या शुग् या गायत्र्याꣳ हविर्धाने ।
सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे ।
सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्म पृथिव्याꣳ शुग् या जगत्याꣳ सदस्या ।
सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥ ३८.१८ ॥

啊,热奶(gharma)!你那在伽耶特里与灵食台中的神圣光辉,愿它为你增长流淌;向之献 svāhā。 你那在虚空中的光辉,在特利什图布与阿格尼德拉中的,愿它为你增长流淌;向之献 svāhā。 你那在大地上的光辉,在耆伽提与萨达斯中的,愿它为你增长流淌;向之献 svāhā。

38.19

क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि ।
विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे ॥ ३८.१९ ॥

为刹帝利之力的至高守护,我接取你;守护婆罗门之身。我们民众依法追随你,为了新的福祉。

38.20

चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः ।
अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम ॥ ३८.२० ॥

四嘴之器,天道之脐,广布;愿它为我们广布,以至完整寿命,愿它为我们广布,以至全部寿命。憎恨远离,欺诈远离;愿我们与持异誓者相聚。

38.21

घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व ।
वर्धिषीमहि च वयम् आ च प्यासिषीमहि ॥ ३८.२१ ॥

啊,热奶,这是你的精华;借它增长、充盈。愿我们也增长,愿我们也充盈。

38.22

अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।
सꣳ सूर्येण दिद्युतद् उदधिर् निधिः ॥ ३८.२२ ॥

公牛吼叫,黄色的、伟大的,如朋友般秀美;与太阳一同,海洋、宝藏光辉闪耀。

38.23

सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ३८.२३ ॥

愿水与草木对我们友善;对憎恨我们的人,以及我们所憎恨的人,愿它们成为敌意的。

38.24

उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ ३८.२४ ॥

我们超越黑暗而升起,望见上方的天界,在诸神之中到达了神圣的太阳,那至高的光明。

38.25

एधो ऽस्य् एधिषीमहि ।
समिद् असि तेजो ऽसि तेजो मयि धेहि ॥ ३८.२५ ॥

你是燃料,愿我们兴旺。你是引火的柴薪,你是光辉;请将光辉置于我身。

38.26

यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे ।
तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम् ॥ ३८.२६ ॥

天地有多广阔,七河有多远,因陆的圣杯也如此,因陀罗啊,我以力量取得不朽之物,取得不朽置于我身。

38.27

मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः ।
घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥ ३८.२७ ॥

我身中有那伟大的感官之力,我身中有技能,我身中有决心。三光的热器(ghárma)与毗罗阇、光明一同闪耀,与梵与光辉一起。

38.28

पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराꣳ समाम् ।
त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः ।
इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि ॥ ३८.२८ ॥

愿我们年年得到那作为乳之精华而被带来的挤取之物。为光辉之结合,为力量,为活力;为你的苏舒姆纳,为在你的苏舒姆纳火中所献的。被因陀罗饮用,被生主食用,甘甜,被呼请,被呼请者——我享用它。