Vedyatra वेदयात्रा
搜索

薄伽梵歌 · 章 17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

17.1

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७.१ ॥

阿周那说:黑天啊,那些舍弃经典规定、却怀着信心祭祀的人,他们的立足点是什么?是善性、激性还是惰性?

17.2

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ १७.२ ॥

薄伽梵说:有身者的信心生于其自性,分为三种——善性的、激性的和惰性的。你且听我说。

17.3

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७.३ ॥

婆罗多啊,每个人的信心都与其内在本性相应。人由信心构成;一个人信什么,他就是什么。

17.4

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७.४ ॥

善性之人祭拜天神,激性之人祭拜药叉与罗刹,其他惰性之人则祭拜亡魂与众鬼灵。

17.5

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ १७.५ ॥

那些修行经典未曾规定的可怕苦行的人,充满虚伪与我慢,被欲望与贪着之力所驱使——

17.6

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७.६ ॥

他们愚昧无知,折磨身中诸元素的聚合,也折磨住于身内的我。要知道他们怀有阿修罗的决心。

17.7

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ १७.७ ॥

人人所喜爱的食物也分为三种,祭祀、苦行和布施也是如此。请听它们之间的这种区别。

17.8

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७.८ ॥

能增长寿命、活力、力量、健康、快乐与满足的食物,味美、润泽、耐久而悦心,为悦性之人所喜爱。

17.9

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७.९ ॥

苦、酸、咸、过热、辛辣、干燥、灼烧的食物为激性之人所喜好;它们带来痛苦、忧愁和疾病。

17.10

यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७.१० ॥

放置过久、失去滋味、腐臭、隔夜、残剩和不洁的食物,为惰性之人所喜爱。

17.11

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७.११ ॥

不求果报的人,依照经典规定,一心想着"这是应当献祭的"而举行的祭祀,是悦性的。

17.12

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७.१२ ॥

婆罗多族的俊杰啊,为求果报或为了炫耀而举行的祭祀,要知道那是激性的。

17.13

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७.१३ ॥

不依规定、不施食物、不诵真言、不给酬礼、缺乏信心的祭祀,被称为暗性的祭祀。

17.14

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७.१४ ॥

敬奉诸神、再生者、师长与智者,清净、正直、梵行与不害,这被称为身体的苦行。

17.15

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७.१५ ॥

不令人不安、真实、悦耳而有益的言语,以及诵习经典的修习,这被称为言语的苦行。

17.16

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७.१६ ॥

心的宁静、温和、静默、自制与心意的清净,这被称为心意的苦行。

17.17

श्रद्धया परया तप्तं तपस्तत्ति्रविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७.१७ ॥

这三种苦行,由不求果报、专注坚定的人以至高信心修持,被称为善性的。

17.18

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७.१८ ॥

为求礼遇、荣誉与崇敬并带着虚饰而修的苦行,在此被称为激性的;它动摇而不长久。

17.19

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७.१९ ॥

出于愚痴的固执、折磨自身,或为了毁灭他人而修的苦行,被称为暗性的。

17.20

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७.२० ॥

怀着“应当布施”之念,在适当的地点与时间,施予值得受施而不会回报之人,这样的布施被认为是善性的。

17.21

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७.२१ ॥

而为了求得回报,或着眼于果报,或勉强而施的布施,被认为是激性的。

17.22

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७.२२ ॥

在不适当的地点和时间,施予不值得受施之人,不加尊敬且带轻蔑的布施,被称为暗性的。

17.23

तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७.२३ ॥

“唵、塔特、萨特”被认为是梵的三重标示。古时婆罗门、吠陀与祭祀皆由此而立。

17.24

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७.२४ ॥

因此,阐说梵的人们依照规定所行的祭祀、布施与苦行,总是先念诵“唵”而开始。

17.25

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षि ॥ १७.२५ ॥

念诵「Tat」,不求果报,寻求解脱的人们施行种种祭祀、苦行与布施的行为。

17.26

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७.२६ ॥

「Sat」一词用于真实与善良之义;同样,普利塔之子啊,值得称颂的行为也用「Sat」一词来称呼。

17.27

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७.२७ ॥

安住于祭祀、苦行与布施,也称为「Sat」;为此目的而作的行为,同样称为「Sat」。

17.28

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७.२८ ॥

普利塔之子啊,无信而作的献供、布施、苦行以及任何行为,都称为「Asat」;它在死后与今世都无益处。