ヤジュル・ヴェーダ · アディヤーヤ 10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.1
अपो देवा मधुमतीर् अगृभ्णन्न् ऊर्जस्वती राजस्वश् चितानाः ।
याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥ १०.१ ॥
神々は甘美で力強く、王者の気品を帯びて輝く水を受け取った。その水によってミトラとヴァルナは灌頂され、その水によってインドラは敵を越えて導かれた。
10.2
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥ १०.२ ॥
あなたは雄々しき者の波、王国を与える者。私に王国を与えよ、svāhā。あなたは雄々しき者の波、王国を与える者。彼に王国を与えよ。あなたはヴリシャセナ、王国を与える者。私に王国を与えよ、svāhā。あなたはヴリシャセナ、王国を与える者。彼に王国を与えよ。
10.3
अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
अर्थेत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
अपां पतिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
अपां पतिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
ऽ अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥ १०.३ ॥
あなた方二人は不動であり、王国を与える者です。私に王国をお与えください。スヴァーハー。あなた方二人は不動であり、王国を与える者です。その者(施主)に王国をお与えください。あなたは力強く、王国を与える者です。私に王国をお与えください。スヴァーハー。あなたは力強く、王国を与える者です。その者に王国をお与えください。あなた方二人は周囲を流れる水であり、王国を与える者です。私に王国をお与えください。スヴァーハー。あなた方二人は周囲を流れる水であり、王国を与える者です。その者に王国をお与えください。あなたは水の主、王国を与える者です。私にお与えください。スヴァーハー。あなたは水の主、王国を与える者です。その者にお与えください。あなたは水の胎、王国を与える者です。私にお与えください。スヴァーハー。あなたは水の胎、王国を与える者です。その者にお与えください。
10.4
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः ।
ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः ॥ १०.४ ॥
あなたがたは太陽の皮膚のようで、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは太陽の皮膚のようで、王国を与える者たちです。あの者(施主)に王国をお与えください。あなたがたは太陽の輝きを持ち、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは太陽の輝きを持ち、王国を与える者たちです。あの者に王国をお与えください。あなたがたは喜ばせる者で、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは喜ばせる者で、王国を与える者たちです。あの者に王国をお与えください。あなたがたは囲いに住まう者で、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは囲いに住まう者で、王国を与える者たちです。あの者に王国をお与えください。あなたがたは鳴く(牝牛)で、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは鳴く(牝牛)で、王国を与える者たちです。あの者に王国をお与えください。あなたがたは最も力強く、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは最も力強く、王国を与える者たちです。あの者に王国をお与えください。あなたがたは強大で、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは強大で、王国を与える者たちです。あの者に王国をお与えください。あなたがたは民を養う者で、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは民を養う者で、王国を与える者たちです。あの者に王国をお与えください。あなたがたは万物を養う者で、王国を与える者たちです。私に王国をお与えください、スヴァーハー。あなたがたは万物を養う者で、王国を与える者たちです。あの者に王国をお与えください。自ら統べる水よ、あなたがたは王国を与える者です。あの者に王国をお与えください。甘い水よ、甘い水と結ばれますように。王のために大いなる統治権を求めつつ。無敵のまま座し、力と気力を備えて。王のために大いなる統治権を授けつつ。
10.5
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अग्नये स्वाहा ।
सोमाय स्वाहा ।
सवित्रे स्वाहा ।
सरस्वत्यै स्वाहा ।
पूष्णे स्वाहा ।
बृहस्पतये स्वाहा ।
इन्द्राय स्वाहा ।
घोषाय स्वाहा ।
श्लोकाय स्वाहा ।
अᳬंशाय स्वाहा ।
भगाय स्वाहा ।
अर्यम्णे स्वाहा ॥ १०.५ ॥
あなたはソーマの輝きである。あなたの輝きのように、私にも輝きがあれ。アグニにスヴァーハー。ソーマにスヴァーハー。サヴィトリにスヴァーハー。サラスヴァティーにスヴァーハー。プーシャンにスヴァーハー。ブリハスパティにスヴァーハー。インドラにスヴァーハー。ゴーシャにスヴァーハー。シュローカにスヴァーハー。アンシャにスヴァーハー。バガにスヴァーハー。アルヤマンにスヴァーハー。
10.6
पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि स्वाहा राजस्वः ॥ १०.६ ॥
あなたがたふたつはヴィシュヌに属する濾し器である。サヴィトリの促しにより、太陽の光線をもつ無垢の濾し器で私はあなたがたを清める。あなたは触れられざるもの、言葉の縁者、熱から生まれたもの、ソーマの贈り物である。スヴァーハー。王のもの。
10.7
सधमादो द्युम्निनीर् आप ऽ एता अनाधृष्टा ऽ अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थम् अपाᳬं शिशुर् मातृतमास्व् अन्तः ॥ १०.७ ॥
これらの水は共に喜び、輝き、征服されず、活動的で、衣をまとう。ヴァルナは住処の間に共通の座を設けた。水の子は最も母たるものの内にある。
10.8
क्षत्रस्योल्वम् असि ।
क्षत्रस्य जराय्व् असि ।
क्षत्रस्य योनिर् असि ।
क्षत्रस्य नाभिर् असि ।
इन्द्रस्य वात्रघ्नम् ।
मित्रस्यासि वरुणस्यासि ।
त्वयायं वृत्रं वधेत् ।
दृवासि ।
रुजासि ।
क्षुमासि ।
पातैनं प्राञ्चम् ।
पातैनं प्रत्यञ्चम् ।
पातैनं तिर्यञ्चं दिग्भ्यः पात ॥ १०.८ ॥
おまえは王権の膜である。おまえは王権の胎盤である。おまえは王権の胎である。おまえは王権の臍である。おまえはインドラのヴリトラ殺しである。おまえはミトラとヴァルナのものである。おまえによって、これが障害を打ち倒しますように。おまえは堅固である。おまえは砕くものである。おまえは揺るがすものである。前から守れ、後ろから守れ、横から、方位から守れ。守れ。
10.9
आविर्मर्याः ।
ऽ आवित्तो ऽ अग्निर् गृहपतिः ।
आवित्त ऽ इन्द्रो वृद्धश्रवाः ।
ऽ आवित्तौ मित्रावरुणौ धृतव्रतौ ।
आवित्तः पूषा विश्ववेदाः ।
ऽ आवित्ते द्यावापृथिवी विश्वशम्भुवौ ।
आवित्तादितिर् उरुशर्मा ॥ १०.९ ॥
顕れし人々よ!家の主アグニが守った。ヴリッダシュラヴァスのインドラが守った。誓いに堅固なミトラとヴァルナが守った。全知のプーシャンが守った。万福をもたらす天と地が守った。広大な庇護のアディティが守った。
10.10
अवेष्टा दन्दशूकाः ।
प्राचीम् आ रोह गायत्री त्वावतु रथन्तरꣳ साम त्रिवृत् स्तोमो वसन्त ऽ ऋतुर् ब्रह्म द्रविणम् ॥ १०.१० ॥
無力になった咬む蛇たちよ!東へ登れ。ガーヤトリー韻律がおまえを守れ。ラタンタラの歌、三重の讃歌、春の季節、梵の句、そして富がおまえを守れ。
10.11
दक्षिणाम् आ रोह त्रिष्टुप् त्वावतु बृहत् साम पञ्चदश स्तोमो ग्रीष्म ऽ ऋतुः क्षत्रं द्रविणम् ॥ १०.११ ॥
南の方角に登れ。トリシュトゥプ韻律がおまえを守るように。ブリハト歌、十五段の讃歌、夏の季節、力(クシャトラ)と財(ドラヴィナ)。
10.12
प्रतीचीम् आ रोह जगती त्वावतु वैरूपꣳ साम सप्तदश स्तोमो वर्षा ऽ ऋतुः विड् द्रविणम् ॥ १०.१२ ॥
西の方角に登れ。ジャガティ韻律がおまえを守るように。ヴァイルーパ歌、十七段の讃歌、雨季、民(ヴィト)と財(ドラヴィナ)。
10.13
उदीचीम् आ रोहानुष्टुप् त्वावतु वैराजꣳ सामैकविꣳश स्तोमः शरद् ऋतुः फलं द्रविणम् ॥ १०.१३ ॥
北の方角に登れ。アヌシュトゥプ韻律がおまえを守るように。ヴァイラージャ歌、二十一段の讃歌、秋の季節、果実(パラ)と財(ドラヴィナ)。
10.14
ऊर्ध्वाम् आ रोह पङ्क्तिस् त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिꣳशौ स्तोमौ हेमन्तशिशिराव् ऋतू वर्चो द्रविणम् ।
प्रत्यस्तं नमुचेः शिरः ॥ १०.१४ ॥
上方へ登れ。パンクティ韻律がおまえを守るように。シャークヴァラとライヴァタの歌、四十九と三十三の讃歌、ヘマンタとシシラの季節、輝き(ヴァルチャス)と財(ドラヴィナ)。ナムチの頭は後ろへ向けられる。
10.15
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
मृत्योः पाहि ।
ओजो ऽसि सहो ऽस्य् अमृतम् असि ॥ १०.१५ ॥
おまえはソーマの輝きである。私の輝きもおまえのようであれ。死から守れ。おまえは活力(オージャス)、忍耐(サハス)、不死(アムリタ)である。
10.16
हिरण्यरूपा ऽउषसो विरोक ऽउभाव् इन्द्रा ऽउदिथः सूर्यश् च ।
आ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ।
मित्रो ऽसि वरुणो ऽसि ॥ १०.१६ ॥
黄金の姿の暁よ、輝く二者よ、インドラのように昇る太陽よ、登れ。ヴァルナとミトラよ、壇に登れ。そこからアディティとディティを見よ。汝はミトラである、汝はヴァルナである。
10.17
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण ।
क्षत्राणां क्षत्रपतिर् एध्य् अति दिद्यून् पाहि ॥ १०.१७ ॥
ソーマの輝き、アグニの光、太陽の威光、インドラの力によって、汝に灌頂する。王族の主となれ。日々を超えて守れ。
10.18
इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽएष वो मी राजा सोमो स्माकं ब्राह्मणाना राजा ॥ १०.१८ ॥
神々よ、この者を敵なき者とせよ——大いなる王権、大いなる首位、民への大いなる統治、インドラの力のために。この者はあの者の子、あの者はこの者の子——民よ、この者が汝らの王である。ソーマはわれらバラモンの王である。
10.19
प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः ।
ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः ।
विष्णोर् विक्रमणम् असि ।
विष्णोर् विक्रान्तम् असि ।
विष्णोः क्रान्तम् असि ॥ १०.१९ ॥
山の、雄牛の背から、流れは舟のように前へ進む。それらは下へ向きを変え、上へ流れ、底にいる蛇に従って流れる。おまえはヴィシュヌの歩幅。おまえはヴィシュヌの歩み。おまえはヴィシュヌの足踏み。
10.20
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु ।
अयम् अमुष्य पिताऽसाव् अस्य पिता ।
वयꣳ स्याम पतयो रयीणा स्वाहा ।
रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा ॥ १०.२० ॥
おおプラジャーパティよ、おまえのほかに、これら一切の姿を造った者はいない。われらがおまえに捧げる願いが、われらのものとなりますように。これはあれの父、あれはこれの父。われらが富の主となりますように。スヴァーハー。おおルドラよ、おまえの最高の名クリヴィにおいて供えられたものは忘れられない。スヴァーハー。
10.21
इन्द्रस्य वज्रो ऽसि ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि ।
अव्यथायै त्वा स्वधायै त्वाऽरिष्टो अर्जुनः ।
मरुतां प्रसवेन जय ।
आपाम मनसा ।
सम् इन्द्रियेण ॥ १०.२१ ॥
おまえはインドラの雷杵。二人の支配者ミトラとヴァルナの命により、わたしはおまえを繋ぐ。不動のためにおまえを繋ぎ、自存のためにおまえを繋ぐ。傷なき者、輝く者。マルトの推進により勝て。心によって得られますように。活力と共に合わさりますように。
10.22
मा त ऽ इन्द्र ते वयं तुराषाड् अयुक्तासो ऽ अब्रह्मता विदसाम ।
तिष्ठा रथम् अधि यं वज्रहस्ता रश्मीन् देव युवसे स्वश्वान् ॥ १०.२२ ॥
インドラよ、速やかな征服者よ、我らはあなたのもの。軛のかからない、ブラフマンのない戦車に我らが出会いませんように。金剛を手にする神よ、戦車の上に立ち、良き馬をつなぐ手綱を握りたまえ。
10.23
अग्नये गृहपतये स्वाहा ।
सोमाय वनस्पतये स्वाहा ।
मरुताम् ओजसे स्वाहा ।
इन्द्रस्येन्द्रियाय स्वाहा ।
पृथिवि मातर् मा मा हिꣳसीर् मो ऽ अहं त्वाम् ॥ १०.२३ ॥
家の主アグニに、スヴァーハー。樹木の主ソーマに、スヴァーハー。マルットの力に、スヴァーハー。インドラの活力に、スヴァーハー。母なる大地よ、私を傷つけないでください、私もあなたを傷つけません。
10.24
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा ऽ अद्रिजा ऽ ऋतं बृहत् ॥ १०.२४ ॥
光明に座す白鳥、虚空に座す光り輝くもの、祭壇に座す祭官、家に座す客人。人々の間に座し、最上の場に座し、真理に座し、天空に座し、水から生まれ、牛から生まれ、真理から生まれ、石から生まれた者、大いなる真理。
10.25
इयद् अस्यायुर् अस्यायुर् मयि धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
ऊर्ग् अस्य् ऊर्जं मयि धेहि ।
इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपाव हरामि ॥ १०.२५ ॥
この者の寿命はこれほどである。寿命を私の中に置きたまえ。あなたは結ばれた者、あなたは輝き。輝きを私の中に置きたまえ。この者の活力を私の中に置きたまえ。男の力によってなされた、インドラと汝ら二者の両腕を、私は下ろす。
10.26
स्योनासि सुषदासि ।
क्षत्रस्य योनिर् असि ।
स्योनाम् आ सीद सुषदाम् आ सीद क्षत्रस्य योनिम् आ सीद ॥ १०.२६ ॥
あなたは快く、良い座席である。あなたは王権(クシャトラ)の母胎である。快い座席に座れ、良い座席に座れ、王権の母胎に座れ。
10.27
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥ १०.२७ ॥
酥油の誓いを守るヴァルナは、住居の中に座した。主権のために善い志を持つ者。
10.28
अभिभूर् अस्य् एतास् ते पञ्च दिशः कल्पन्ताम् ।
ब्रह्मꣳस् त्वं ब्रह्मासि सवितासि सत्यप्रसवः ।
वरुणो ऽसि सत्यौजाः ।
ऽ इन्द्रो ऽसि विशौजाः ।
रुद्रोऽ सि सुशेवः ।
बहुकार श्रेयस्कर भूयस्कर ।
इन्द्रस्य वज्रो ऽसि तेन मे रध्य ॥ १०.२८ ॥
あなたは征服者(abhibhū)である。これら五方があなたにふさわしくあれ。あなたは神聖な句(brahman)であり、神聖な句である。あなたは真の推進者サヴィトリである。あなたは真の力を持つヴァルナである。あなたは民の力を持つインドラである。あなたは非常に慈悲深いルドラである。多くをなす者、福祉をもたらす者、増大させる者よ!あなたはインドラの金剛杵である。それによって私のために成就せよ。
10.29
अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा ।
स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वꣳ सजातानां मध्यमेष्ठ्याय ॥ १०.२९ ॥
広大な法の主アグニよ、喜びつつ、アグニよ、広大な法の主よ、酥油を味わいたまえ。スヴァーハー。スヴァーハーとともに捧げられた者たちよ、太陽の光線によって努め、同族の中央に立つように。
10.30
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि ॥ १०.३० ॥
我らのために、推進者サヴィトリ、言葉によるサラスヴァティー、形によるトヴァシュトリ、家畜によるプーシャン、インドラ、ブリハスパティ、聖なる言葉、ヴァルナ、活力、アグニ、輝き、ソーマ、王、ヴィシュヌ、そして第十の神に促されて、私は進む。
10.31
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ।
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥ १०.३१ ॥
アシュヴィンのために熟せ。サラスヴァティーのために熟せ。善き守護者インドラのために熟せ。ヴァーユは濾し布で清められた。上へと流れるソーマは、インドラの軛を共にする友である。
10.32
कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥ १०.३२ ॥
友よ、大麦を持つ我らは確かに、馴らされた家畜が順に放たれるように、ここかしこでバルヒスのもとで礼拝と詠唱によって供物を捧げる者たちのために饗宴を整えよ。おまえはウパーヤーマの器で取られている;アシュヴィン、サラスヴァティー、インドラ、善き守護者のためのものである。
10.33
वयꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥ १०.३३ ॥
我ら、阿修羅ナムチのもとで共にスラー酒を飲み、アシュヴィンよ、吉祥の二主よ、行為においてインドラを助けたまえ。
10.34
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ १०.३४ ॥
父母が息子を守るように、二人のアシュヴィンと因陀羅は見事な業と知恵によって守った。おおマガヴァンよ、あなたがスラー酒を飲んだとき、サラスヴァティーはその力であなたを支えた。