夜柔吠陀 · 章(Adhyāya) 14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.1
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया ।
उख्यस्य केतुं प्रथमं जुषाणा ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥ १४.१ ॥
你是稳固的基地与稳固的根源;请在稳固之处安坐,欣然接受乌克亚的第一面旗帜。愿二位阿什文、祭司阿ध्वर्यु在此安置你。
14.2
कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥ १४.२ ॥
你拥有巢穴,富于酥油,承载丰饶,请坐于大地的安适之座。愿楼陀罗与婆苏赞颂你;为了福运,请圆满这些咒语。愿二位阿什文、祭司阿ध्वर्यु在此安置你。
14.3
स्वैर् दक्षैर् दक्षपितेह सीद देवानाꣳ सुम्ने बृहते रणाय ।
पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥ १४.३ ॥
以你自身的力量,技艺之主啊,请坐于此处,以求诸神的大恩与欢喜。愿你如父亲般慈爱于子嗣;以你自身之躯完整地进入。愿二位阿什文、祭司阿ध्वर्यु在此安置你。
14.4
पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥ १४.४ ॥
你是大地的圆满,名为阿普萨斯;愿一切神明都赞颂你。以赞歌为背脊,富于酥油,请坐于此;赐予我们连同子嗣的财富。愿二位阿什文、祭司阿ध्वर्यु在此安置你。
14.5
अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥ १४.५ ॥
我将你置于阿底提的背上。你是承载虚空者,是支撑诸方的柱石,是诸世界的主母。你是水的波浪与水滴;你的仙人是毗首羯摩。愿二位阿什文,即祭司,在此安置你。
14.6
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १४.६ ॥
愿二夏季,即光明与清净,成为阿耆尼的内在结合。愿天与地得以备妥,愿水与草木得以备妥;愿诸火各以礼敬,为至尊同持一誓。同心之诸火,在天地之间,此二夏季正在备妥之时,愿诸神如因陀罗般进入其中。与此神同住,如安吉罗斯那般稳坐于不动处。
14.7
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥ १४.७ ॥
与季节同在,与安排同在,与诸神同在,与生命之力的纽带同在——为火神毗首那罗,愿两位祭司阿ština双神在此安置你。(重复五次,分别与婆苏、楼陀罗、阿底提亚和一切天神同在。)
14.8
प्राणं मे पाहि ।
अपानं मे पाहि ।
व्यानं मे पाहि ।
चक्षुर् म ऽ उर्व्या वि भाहि ।
श्रोत्रं मे श्लोकय ।
अपः पिन्व ।
ओषधीर् जिन्व ।
द्विपाद् अव ।
चतुष्पात् पाहि ।
दिवो वृष्टिम् एरय ॥ १४.८ ॥
守护我的 prāṇa(气息)。守护我的 apāna(下行气)。守护我的 vyāna(遍行气)。使我的眼睛广大明亮。使我的听觉闻名。使水充盈。使草木苏醒。护佑两足众生。护佑四足众生。从天空降下雨水。
14.9
मूर्धा वयः प्रजापतिश् छन्दः ।
क्षत्रं वयो मयंदं छन्दः ।
विष्टम्भो वयो ऽधिपतिश् छन्दः ।
विश्वकर्मा वयः परमेष्ठी छन्दः ।
वस्तो वयो विवलं छन्दः ।
वृष्णिर् वयो विशालं छन्दः ।
पुरुषो वयस् तन्द्रं छन्दः ।
व्याघ्रो वयो ऽनाधृष्टं छन्दः ।
सिꣳहो वयश् छदिश् छन्दः ।
पष्ठवाड् वयो बृहती छन्दः ।
ऽ उक्षा वयः ककुप् छन्दः ।
ऽ ऋषभो वयः सतोबृहती छन्दः ॥ १४.९ ॥
头为活力,生主为韵律。力量为活力,摩衍达为韵律。支撑为活力,阿提帕蒂为韵律。毗首羯摩为活力,最高者为韵律。公羊为活力,毗缚罗为韵律。公牛恶利为活力,毗舍罗为韵律。人为活力,坦陀罗为韵律。虎为活力,阿那德利斯塔为韵律。狮为活力,恰迪斯为韵律。役牛为活力,广韵为韵律。公牛为活力,迦古不为韵律。公牛利沙波为活力,萨托广韵为韵律。
14.10
अनड्वान् वयः पङ्क्तिश् छन्दः ।
धेनुर् वयो जगती छन्दः ।
त्र्यविर् वयस् त्रिष्टुप् छन्दः ।
दित्यवाड् वयो विराट् छन्दः ।
पञ्चाविर् वयो गायत्री छन्दः ।
त्रिवत्सो वय ऽ उष्णिक् छन्दः ।
तुर्यवाड् वयो ऽनुष्टुप् छन्दः ॥ १४.१० ॥
公牛是鸟形与力量;韵律为Paṅkti。母牛是鸟形与力量;韵律为Jagatī。三岁母羊是鸟形与力量;韵律为Triṣṭubh。两岁公牛是鸟形与力量;韵律为Virāj。五岁母羊是鸟形与力量;韵律为Gāyatrī。三岁小牛是鸟形与力量;韵律为Uṣṇih。四岁公牛是鸟形与力量;韵律为Anuṣṭubh。
14.11
इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृꣳहतं युवम् ।
पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे ॥ १४.११ ॥
因陀罗与阿耆尼,你们二者使不动摇的砖块坚固。以脊背,你们二者将天、地与虚空隔开。
14.12
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृꣳहान्तरिक्षं मा हिꣳसीः ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ १४.१२ ॥
愿毗首羯摩将你安置于虚空之背。承托广阔伸展的虚空,使虚空坚固,不要损害虚空。为了一切,为了入息,为了出息,为了遍行息,为了上行息,为了稳固立足,为了运行。愿风神以大安乐和最吉祥的庇护,与那位神明一同守护你;如安吉罗人那样坚定地坐下。
14.13
राज्ञ्य् असि प्राची दिक् ।
विराड् असि दक्षिणा दिक् ।
सम्राड् असि प्रतीची दिक् ।
स्वराड् अस्य् उदीची दिक् ।
अधिपत्न्य् असि बृहती दिक् ॥ १४.१३ ॥
你是王后,东方。你是光耀者,南方。你是君王,西方。你是自主者,北方。你是至尊的配偶,广大的方位。
14.14
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ १४.१४ ॥
愿一切造物者在虚空之背上,把你安置在充满光明之处。为众生的上气、下气与遍气赐予全部光明。风神伐由是你的主;与那位神明一起,如安吉罗斯一般稳固地坐下。
14.15
नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १४.१५ ॥
愿纳跋斯与纳跋斯耶这两个雨季成为阿耆尼的连结。愿天地得以成就,愿水与草木得以成就,愿诸火各自以同一誓愿,为尊位而致敬得以成就。愿同心的诸火,在天地之间,成就这些雨季,如因陀罗一般,诸神啊,共同进入。与那位神明一起,如安吉罗斯一般,你们二者稳固地坐下。
14.16
इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १४.१६ ॥
Iṣa与Ūrja,秋季诸时节;你是Agni的连接处。愿天地得以成就;愿水与草木得以成就;愿诸火各自得以成就。向至高致敬,你们共守同一誓愿。心意相同的诸火,在天地之间,当这些秋季正在成就时,如诸神进入因陀罗,与那位神灵一起,如安吉拉斯那样,坚定地坐下。
14.17
आयुर् मे पाहि ।
प्राणं मे पाहि ।
अपानं मे पाहि ।
व्यानं मे पाहि ।
चक्षुर् मे पाहि ।
श्रोत्रं मे पाहि ।
वाचं मे पिन्व ।
मनो मे जिन्व ।
आत्मानं मे पाहि ।
ज्योतिर् मे यच्छ ॥ १४.१७ ॥
守护我的寿命。守护我的气息。守护我的呼气。守护我的遍布之气。守护我的眼睛。守护我的听觉。滋养我的言语。激发我的心意。守护我的自我。赐我光明。
14.18
मा छन्दः ।
प्रमा छन्दः ।
प्रतिमा छन्दः ।
ऽ अस्रीवयश् छन्दः ।
पङ्क्तिश् छन्दः ।
ऽ उष्णिक् छन्दः ।
बृहती छन्दः ।
ऽअनुष्टुप् छन्दः ।
विराट् छन्दः ।
गायत्री छन्दः ।
त्रिष्टुप् छन्दः ।
जगती छन्दः ॥ १४.१८ ॥
Mā 是韵律。Pramā 是韵律。Pratimā 是韵律。Asrīvaya 是韵律。Paṅkti 是韵律。Uṣṇik 是韵律。Bṛhatī 是韵律。Anuṣṭubh 是韵律。Virāj 是韵律。Gāyatrī 是韵律。Triṣṭubh 是韵律。Jagatī 是韵律。
14.19
पृथिवी छन्दः ।
ऽअन्तरिक्षं छन्दः ।
द्यौश् छन्दः ।
समाश् छन्दः ।
नक्षत्राणि छन्दः ।
वाक् छन्दः ।
मनश् छन्दः ।
कृषिश् छन्दः ।
हिरण्यं छन्दः ।
गौश् छन्दः ।
ऽअजा छन्दः ।
ऽअश्वश् छन्दः ॥ १४.१९ ॥
大地是韵律。虚空是韵律。天空是韵律。岁月是韵律。星宿是韵律。言语是韵律。心是韵律。耕作是韵律。黄金是韵律。牛是韵律。山羊是韵律。马是韵律。
14.20
अग्निर् देवता ।
वातो देवता ।
सूर्यो देवता ।
चन्द्रमा देवता ।
वसवो देवता ।
रुद्रा देवता ।
ऽऽआदित्या देवता ।
मरुतो देवता ।
विश्वे देवा देवता ।
बृहस्पतिर् देवता ।
इन्द्रो देवता ।
वरुणो देवता ॥ १४.२० ॥
阿耆尼是神。风神是神。太阳是神。月神是神。婆薮们是神。楼陀罗们是神。阿底提亚们是神。摩禄多们是神。一切天神是神。梵天主是神。因陀罗是神。伐楼那是神。
14.21
मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी ।
आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥ १४.२१ ॥
你是头,你是王后;你是坚固的,你是支撑者;你是承载者,你是承托的大地。为了长寿我安置你,为了光辉我安置你,为了耕作我安置你,为了安康我安置你。
14.22
यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री ।
इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ।
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ १४.२२ ॥
你是掌控者,你是王后;你是约束者,你是制御者;你是坚固的,你是承载者。为了食物我安置你,为了力量我安置你,为了财富我安置你,为了滋养我安置你。充满世界,填满空隙;然后坐下,你是坚固的。因陀罗、阿耆尼与梵主将你安置于此胎中。挤榨的花牛准备这苏摩。在诸神诞生时,在天空三个光明世界中,众民以如海般广阔的颂歌增强因陀罗。诸车手中最好的车手,诸真实赏赐之主,主(因陀罗)。
14.23
आशुर् त्रिवृत् ।
भान्तः पञ्चदशः ।
व्योमा सप्तदशः ।
धरुण ऽ एकविꣳशः ।
प्रतूर्तिर् अष्टादशः ।
तपो नवदशः ।
ऽअभीवर्तः सविꣳशः ।
वर्चो द्वाविꣳशः ।
संभरणस् त्रयोविꣳशः ।
योनिश् चतुर्विꣳशः ।
गर्भाः पञ्चविꣳशः ।
ऽ ओजस् त्रिणवः ।
क्रतुर् एकत्रिꣳशः ।
प्रतिष्ठा त्रयस्त्रिꣳशः ।
ब्रध्नस्य विष्टपं चतुस्त्रिꣳशः ।
नाकः षट्त्रिꣳशः ।
विवर्तो ष्टाचत्वारिꣳशः ।
धर्त्रं चतुष्टोमः ॥ १४.२३ ॥
迅捷者为三重;光耀者为第十五;如天空者为第十七;支撑者为第二十一;带来胜利者为第十八;热力为第十九;环绕为第二十;光辉为第二十二;聚集为第二十三;源头为第二十四;胚胎为第二十五;活力为第二十七;决心为第三十一;基础为第三十三;太阳的居所为第三十四;天界为第三十六;旋转为第四十八;支撑是四重赞歌。
14.24
अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रꣳ स्पृतं पञ्चदशः स्तोमः ।
नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रꣳ स्पृतꣳ सप्तदशः स्तोमः ।
मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविꣳश स्तोमः ॥ १४.२४ ॥
你是阿耆尼的份额,受灌顶之主宰;与梵(神圣知识)相连;三分赞颂度(trivṛt stoma)。你是因陀罗的份额,受毗湿奴之主宰;与刹帝利(王权)相连;十五分赞颂度(pañcadaśa stoma)。你是人类观察者的份额,受达塔尔之主宰;与生(janitra)相连;十七分赞颂度(saptadaśa stoma)。你是密特拉的份额,受伐楼那之主宰;与天上的雨和风相连;二十一分赞颂度(ekaviṃśa stoma)。
14.25
वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विꣳश स्तोमः ।
आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविꣳश स्तोमः ।
अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ॥ १४.२५ ॥
你是婆苏神众的份额,受楼陀罗之主宰;与四足相连;二十四分赞颂度(caturviṃśa stoma)。你是阿迪提耶神众的份额,受摩录多之主宰;与胎藏相连;二十五分赞颂度(pañcaviṃśa stoma)。你是阿底提的份额,受普善之主宰;与力量(ojas)相连;三乘九分赞颂度(triṇava stoma)。你是神萨维特里的份额,受布利哈斯帕提之主宰;与相会之方位相连;四分赞颂度(catuṣṭoma stoma)。
14.26
यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिꣳश स्तोमः ।
ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतꣳ स्पृतं त्रयस्त्रिꣳश स्तोमः ॥ १४.२६ ॥
你是大麦之分;非大麦之主权;众生相连;四十四为赞歌韵律。你是利布之分;诸神之主权;有情相连;三十三为赞歌韵律。
14.27
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १४.२७ ॥
Saha与Sahasya,这两个寒季,你是Agni的内接缝;愿天地得以备妥,愿水与草木得以备妥;愿诸火各自致敬,为尊位而持同一誓愿。同心之诸火,在天地之间,此二寒季得以备妥之时,愿其如诸神入于因陀罗一般入内;与彼神一道,如安吉拉斯一般,坐于稳固之处。
14.28
एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् ।
तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् ।
पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् ।
सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत् ॥ १४.२८ ॥
以一颂赞美,众生生起;生主为主宰。以三颂赞美,梵被创造;梵天主为主宰。以五颂赞美,诸元素被创造;众生之主为主宰。以七颂赞美,七仙人被创造;创造者为主宰。
14.29
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् ।
एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् ।
त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् ।
पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् ।
सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ॥ १४.२९ ॥
以九颂赞美,祖先被创造;阿底提为主之妻。以十一颂赞美,四季被创造;四季之主为主宰。以十三颂赞美,月份被创造;岁为主宰。以十五颂赞美,王权被创造;因陀罗为主宰。以十七颂赞美,家畜被创造;布里哈斯帕提为主宰。
14.30
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् ।
एकविꣳशत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् ।
त्रयोविꣳशत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् ।
पञ्चविꣳशत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् ।
सप्तविꣳशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयꣳस् त ऽ एवाधिपतय ऽ आसन् ॥ १४.३० ॥
以十八赞颂,首陀罗与雅利安被创造;昼与夜为主宰之妻。以二十一赞颂,单蹄的牲畜被创造;婆楼那为主宰。以二十三赞颂,小型牲畜被创造;普善为主宰。以二十五赞颂,野生牲畜被创造;伐尤为主宰。以二十七赞颂,天与地分离;婆薮、楼陀罗与阿底提亚随后而行;他们便是主宰。
14.31
नवविꣳशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
एकत्रिꣳशतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन् ।
त्रयस्त्रिꣳशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ॥ १४.३१ ॥
以二十九赞颂,草木被创造;苏摩为主宰。以三十一赞颂,众生被创造;大麦与非大麦之谷物为主宰。以三十三赞颂,众有情得以平息;至上的生主为主宰。