夜柔吠陀 · 章(Adhyāya) 1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.1
इषे त्वा ऊर्जे त्वा ।
वायव स्थ ।
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशꣳसो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः ।
यजमानस्य पशून् पाहि ॥ १.१ ॥
我为食物、为力量而取你。噢风神,你们存在。愿神萨维特里促使你们行最卓越的工作。噢不可伤害的牛群,为因陀罗的份额而增长,有子嗣,无病无消耗。愿盗贼不统治你们,恶语者也不统治。在这位牛群之主的家中坚定而众多地存在。保护祭主的牲畜。
1.2
वसोः पवित्रम् असि ।
द्यौर् असि पृथिव्यसि ।
मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृꣳहस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥ १.२ ॥
你是伐苏的净化之器。你是天,你是地。你是摩多利什文的不焦者、持一切者。以至高的住所坚固吧。不要动摇;愿祭主也不动摇。
1.3
वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् ।
देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा ।
काम् अधुक्षः ॥ १.३ ॥
你是伐苏的净化之器,有百道水流;你是伐苏的净化之器,有千道水流。愿神萨维特里以伐苏的百流净化器净化你,已充分压榨。你挤出了何种愿望?
1.4
सा विश्वायुः ।
सा विश्वकर्मा ।
सा विश्वधायाः ।
इन्द्रस्य त्वा भागꣳ सोमेना तनच्मि ।
विष्णो हव्यꣳ रक्ष ॥ १.४ ॥
她是一切生命(viśvāyuḥ),她是一切之作(viśvakarmā),她是承载一切者(viśvadhāyāḥ)。作为因陀罗的份额,我以苏摩展开你。毗湿奴啊,护卫献祭之物。
1.5
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
इदम् अहम् अनृतात् सत्यम् उपैमि ॥ १.५ ॥
啊阿耆尼,誓约之主,我将践行誓约;愿我能够做到,愿它为我成功。我从虚妄走向真实。
1.6
कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति ।
कर्मणे वां वेषाय वाम् ॥ १.६ ॥
谁来套上你?他套上你。为谁而套上你?为他而套上你。为工作,为你们二者;为行动,为你们二者。
1.7
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः ।
निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥ १.७ ॥
罗刹被反烧,敌对之力被反烧。罗刹被彻底烧焦,敌对之力被彻底烧焦。我沿着广阔的虚空前行。
1.8
धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।
देवानाम् असि वह्नितमꣳ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥ १.८ ॥
你是 dhūḥ,轭杆。损害那伤害我们的人;损害我们所要损害的人。你是诸神中最能承载、最能施与、最能充盈、最令人欣悦、最为诸神所召请的。
1.9
अह्रुतम् असि हविर्धानं दृꣳहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् ।
विष्णुस् त्वा क्रमताम् ।
उरु वाताय ।
अपहतꣳ रक्षः ।
यच्छन्तां पञ्च ॥ १.९ ॥
你是不会失误的,havirdhāna。要坚固;愿祭主不失误、不迷失。愿毗湿奴踏上你。为风而宽广。罗刹已被驱逐。愿他们约束那五者。
1.10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अग्नये जुष्टं गृह्णामि ।
अग्नीषोमाभ्यां जुष्टं गृह्णामि ॥ १.१० ॥
在天神萨维特里的推动下,以双马童的臂膀,以普善的双手,我取你。我取悦于阿耆尼之物。我取悦于阿耆尼与苏摩之物。
1.11
भूताय त्वा नारातये ।
स्वर् अभिवि ख्येषम् ।
दृꣳहन्तां दुर्याः पृथिव्याम् ।
उर्व् अन्तरिक्षम् अन्व् एमि ।
पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यꣳ रक्ष ॥ १.११ ॥
为众生之福我取你,不为吝啬者。愿我清楚地看见天空。愿地上的门柱坚固。我沿着广阔的空界行走。我把你安放在大地的肚脐上,阿底提的怀中。阿耆尼啊,守护祭品。
1.12
पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिꣳ सुधातुं यज्ञपतिं देवयुवम् ॥ १.१२ ॥
你们二者是净化之器,属于毗湿奴。依萨维特里的推动,我以太阳光线中无瑕的净化之力净化你们。神圣的水啊,走在前面的、先行净化的,今日请引导此祭祀向前;引导祭主向前,那善于承载、与诸神相合的祭主。
1.13
युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये ।
प्रोक्षिता स्थ ।
अग्नये त्वा जुष्टं प्रोक्षामि ।
अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ।
दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि ॥ १.१३ ॥
在与弗栗多的战斗中,因陀罗选择了你们;在与弗栗多的战斗中,你们选择了因陀罗。你们已被洒净。我洒净你们,你们为阿耆尼所喜爱。我洒净你们,你们为阿耆尼与苏摩所喜爱。为神圣之业、为敬神之祭而清净吧;你们中曾不净而被抛弃之物,我都净化。
1.14
शर्मासि ।
अवधूतꣳ रक्षोऽवधूता ऽ अरातयः ।
ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
अद्रिर् असि वानस्पत्यः ।
ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु ॥ १.१४ ॥
你是庇护。罗刹被甩开,敌对之力被甩开。你是阿底提之皮;愿阿底提识得你。你是林木之石。你是底部宽阔的压榨石;愿阿底提之皮识得你。
1.15
अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि ।
बृहद्ग्रावासि वानस्पत्यः ।
सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व ।
हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि ॥ १.१५ ॥
你是阿耆尼的身体,言语的出口;为了诸神的享用,我取你。你是大的压榨石,由木制成。为诸神准备这供物,好好准备。供物的准备者,来;供物的准备者,来;供物的准备者,来。
1.16
कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयꣳ संघातꣳ-संघातं जेष्म ।
वर्षवृद्धम् असि ।
प्रति त्वा वर्षवृद्धं वेत्तु ।
परापूतꣳ रक्षः परापूता अरातयः ।
ऽअपहतꣳ रक्षः ।
वायुर् वो वि विनक्तु ।
देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ॥ १.१६ ॥
你是蜜舌的雄鸡;为我们说出食物与力量。愿我们与你一同赢得每一次争斗。你是由雨水养育的。愿他认出你是由雨水养育的。罗刹被驱逐,敌人被驱逐。罗刹被击退。愿风神Vāyu将你们分开。愿金手的神Savitṛ以无缺的手接受你。
1.17
धृष्टिर् असि ।
अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादꣳ सेध ।
आ देवयजं वह ।
ध्रुवम् असि पृथिवीं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ॥ १.१७ ॥
你是勇猛的。啊,阿耆尼,驱逐生食之火,逐出食肉者。引导它到诸神祭祀之处。你是坚固的,使大地稳固。胜于梵力者,胜于王权者,胜于同族者,我为击败敌人而安置你。
1.18
अग्ने ब्रह्म गृभ्णीष्व ।
धरुणम् अस्य् अन्तरिक्षं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
धर्त्रम् असि दिवं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि ।
चित स्थोर्ध्वचितः ।
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ॥ १.१८ ॥
阿耆尼啊,请接受梵咒。你是虚空的支柱,请使其坚固。作为拥有梵力、王权与亲族者,我将你安置于此,为杀灭敌人。你是持载者,请使天空坚固。作为拥有梵力、王权与亲族者,我将你安置于此,为杀灭敌人。我将你安置于一切方位。你是火坛,是向上的火坛。愿你以婆利固与安吉罗的苦行而发热。
1.19
शर्मासि ।
अवधूतꣳ रक्षोऽवधूता ऽ अरातयः ।
ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु ।
दिव स्कम्भनीर् असि ।
धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥ १.१९ ॥
你是庇护。罗刹被驱散,敌人被驱散。你是阿底提的皮肤;愿阿底提接纳你。你是持明,山之女;愿山之女接纳你。你是支撑天空者。你是持明,山之女;愿山之女接纳你。
1.20
धान्यम् असि धिनुहि देवान् ।
प्राणाय त्वा ।
उदानाय त्वा ।
व्यानाय त्वा ।
दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ।
चक्षुषे त्वा ।
महीनां पयोऽसि ॥ १.२० ॥
你是谷物;使诸神欢悦。为入息,为你。为上行息,为你。为遍行息,为你。为长寿,我将你置于长远之中。愿金手的萨维特利以无瑕之手接纳你。为视力,为你。你是伟大者的乳汁。
1.21
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सं वपामि ।
सम् आपऽओषधीभिः सम् ओषधयो रसेन ।
सꣳ रेवतीर् जगतीभिः पृच्यन्ताꣳ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम् ॥ १.२१ ॥
在神萨维特里的推动下,以双Aśvin之臂与普山之手,我播种你。愿水与草药相合,草药与汁液相合。愿丰饶者与jagatī韵律相合;愿甘甜者与甘甜者相合。
1.22
जनयत्यै त्वा सं यौमि ।
इदम् अग्नेः ।
इदम् अग्नीषोमयोः ।
इषे त्वा ।
घर्मोऽसि विश्वायुः ।
उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
अग्निष्टे त्वचं मा हिꣳसीत् ।
देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके ॥ १.२२ ॥
为诞生,我将你相连。此属于阿耆尼,此属于阿耆尼与苏摩。为食物,为你。你是热乳器,全寿之物。展开,广展;愿祭主为你广展。愿阿耆尼不伤你的皮。愿神萨维特里在最高的天上将你加热。
1.23
मा भेर् मा संविक्थाः ।
ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् ।
त्रिताय त्वा ।
द्विताय त्वा ।
एकताय त्वा ॥ १.२३ ॥
不要害怕,不要慌乱。愿祭祀成为无阻的守护者;愿祭祀者的子孙成为无阻的守护者。为三者而献你。为二者而献你。为一者而献你。
1.24
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ऽध्वरकृतं देवेभ्यः ।
ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः ॥ १.२४ ॥
借着天神萨维特里的推动,以双马童之臂,以普善之手,我取你。我取为祭祀所造、为诸神所用之物。你是因陀罗的右臂,具千点、百光;你是风神,锐利之光,杀戮仇恨者之者。
1.25
पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिꣳसिषम् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥ १.२५ ॥
啊,大地,诸神祭祀之所,愿我不伤害草木之根。去往牧场,去往牛栏。愿天为你降雨。啊,天神萨维特里,在最遥远的大地上,以百条绳索捆住那憎恨我们、我们所憎恨的人;不要让他从此脱身。
1.26
अपाररुं पृथिव्यै देवयजनाद् वध्यासम् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अररो दिवं मा पप्तः ।
द्रप्सस् ते द्यां मा स्कन् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥ १.२६ ॥
愿我不从大地的神圣祭场上消失。去圈栏,去牛棚。愿天为你降雨。神啊萨维特里,在最高的大地上用百条绳索缚住那憎恨我们、我们所憎恨的人;不要释放他。阿拉如,不要飞向天空。滴液啊,你不要落入天空。去圈栏,去牛棚。愿天为你降雨。神啊萨维特里,在最高的大地上用百条绳索缚住那憎恨我们的人;不要释放他。
1.27
गायत्रेण त्वा छन्दसा परि गृह्णामि ।
त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि ।
जागतेन त्वा छन्दसा परि गृह्णामि ।
सुक्ष्मा चासि शिवा चासि ।
स्योना चासि सुषदा चासि ।
ऊर्जस्वती चासि पयस्वती च ॥ १.२७ ॥
我用伽耶特里格律从四周握住你。我用特利什图普格律从四周握住你。我用耆伽提格律从四周握住你。你精细又吉祥。你温和又便于就座。你充满力量,也充满滋养。
1.28
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् ।
याम् ऐरयꣳश् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते ।
प्रोक्षणीर् आ सादय ।
द्विषतो वधोऽ सि ॥ १.२८ ॥
往昔有残暴者的游走者。啊,广展者,你举起那赋予生命的大地,人们以供养将其推动于月亮中,智者为此而向其致意献祭。放置洒祭之水。你是憎恨者的杀戮者。
1.29
प्रत्युष्टꣳ रक्षः प्रत्युष्टा ऽअरातयः ।
निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।
अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि ।
प्रत्युष्टꣳ रक्षः प्रत्युष्टाऽ अरातयः ।
निष्टप्तꣳ रक्षो निष्टप्ताऽ अरातयः ।
अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि ॥ १.२९ ॥
罗刹被驱回,敌人也被驱回。罗刹被充分烧炙,敌人也被充分烧炙。你未经磨砺,是摧毁敌对者的;有力者啊,为点燃力量,我将你彻底净化。罗刹被驱回,敌人被驱回。罗刹被充分烧炙,敌人被充分烧炙。你未经磨砺,是摧毁敌对者的;有力者啊,为点燃力量,我将你彻底净化。
1.30
अदित्यै रास्नासि ।
विष्णोर् वेष्यो सि ।
ऊर्जे त्वा ।
ऽअदब्धेन त्वा चक्षुषाव पश्यामि ।
अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे ॥ १.३० ॥
你为阿底提之舌(rāsnā)。你是毗湿奴的楔子。为滋养而取你。以无损之眼我看你。你是火神之舌,善于召请者;为诸神,为每一居所,为我而在,为每一祭祀祷文而在。
1.31
सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तेजो ऽसि शुक्रम् अस्य् अमृतम् असि ।
धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि ॥ १.३१ ॥
在萨维特里的推动下,我以无孔的滤器、以太阳的光线净化你。在萨维特里的推动下,我以无孔的滤器、以太阳的光线净化你们。你是光辉、明亮、不死的。你是богов所爱的居所与名号,是不可侵犯的诸神祭场。