夜柔吠陀 · 章(Adhyāya) 2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.1
कृष्णोऽस्य् आखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि ।
वेदिर् असि बर्हिषे त्वा जुष्टां प्रोक्षामि ।
बर्हिर् असि स्रुग्भ्यस् त्वा जुष्टं प्रोक्षामि ॥ २.१ ॥
你是黑色的,为阿耆尼而选;被接受的你,我洒水净化。你是祭坛地,为圣草;被接受的你,我洒水净化。你是圣草,为勺子;被接受的你,我洒水净化。
2.2
अदित्यै व्युन्दनम् असि ।
विष्णो स्तुपो ऽसि ।
ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः ।
भुवपतये स्वाहा ।
भुवनपतये स्वाहा ।
भूतानां पतये स्वाहा ॥ २.२ ॥
你是为阿底提铺展的器具。啊毗湿奴,你是草束。柔软如羊毛,我为诸神将你铺开,使其安坐。归于地界之主,स्वाहा。归于诸世界之主,स्वाहा。归于众生之主,स्वाहा。
2.3
गन्धर्वस् त्वा विश्वावसुः परि दधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽīडितः ।
इन्द्रस्य बाहुर् असि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ।
मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ॥ २.३ ॥
愿乾达婆毗首跋苏将你置于四周,为一切人及施主的无害;你是周围之木,阿耆尼,受赞颂。你是因陀罗的右臂,为一切人及施主的无害;你是周围之木,阿耆尼,受赞颂。愿密特罗与婆楼那自北方以坚定之法将你置于四周;为一切人及施主的无害;你是周围之木,阿耆尼,受赞颂。
2.4
वीतिहोत्रं त्वा कवे द्युमन्तꣳ सम् इधीमहि ।
अग्ने बृहन्तम् अध्वरे ॥ २.४ ॥
智者啊,维提贺特罗,我们点燃你光辉灿烂。阿耆尼啊,你在祭祀中伟大。
2.5
समिद् असि ।
सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्यै ।
सवितुर् बाहू स्थः ।
ऽ ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।
ऽ आ त्वा वसवो रुद्रा ऽ आदित्याः सदन्तु ॥ २.५ ॥
你是柴薪。愿太阳从前方保护你免受任何责难。你是萨维特里的双臂。为诸神,我将你铺开,柔软如羊毛,安稳放置。愿婆苏、楼陀罗与阿底提亚坐在你之上。
2.6
घृताच्य् असि जुहूर् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद ।
घृताच्य् अस्य् उपभृन् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद ।
घृताच्य् असि ध्रुवा नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सदऽ आ सीद ।
प्रियेण धाम्ना प्रियꣳ सद ऽआ सीद ।
ध्रुवा ऽ असदन्न् ऋतस्य योनौ ता विष्णो पाहि ।
पाहि यज्ञं ।
पाहि यज्ञपतिम् ।
पाहि मां यज्ञन्यम् ॥ २.६ ॥
你是乔利塔奇,名为祭勺;从你可爱的住所,坐在可爱的座位上。你是乔利塔奇,名为辅勺;此处……坐下。你是乔利塔奇,名为坚勺;此处……坐下。从你可爱的住所,坐在可爱的座位上。坚固者坐在天则的胎中。啊毗湿奴,守护它们。守护祭祀。守护祭主。守护堪为祭祀的我。
2.7
अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितꣳ सं मार्ज्मि ।
नमो देवेभ्यः ।
स्वधा पितृभ्यः ।
सुयमे मे भूयास्तम् ॥ २.७ ॥
啊,阿耆尼,赢得力量者,我净化你——你将奔向力量并已获得力量。向诸神致敬。向祖先献上斯瓦陀。愿你对我易于驾驭。
2.8
अस्कन्नम् अद्य देवेभ्यऽ आज्यꣳ सं भ्रियासम् ।
अङ्घ्रिणा विष्णो मा त्वाव क्रमिषम् ।
वसुमतीम् अग्ने ते छायाम् उप स्थेषं विष्णो स्थानम् असि ।
इत ऽ इन्द्रो वीर्यम् अकृणोद् ऊर्ध्वो ध्वर ऽआस्थात् ॥ २.८ ॥
愿我今日为诸神妥善奉上不洒落的酥油。啊,毗湿奴,愿我不以脚踩踏你。啊,阿耆尼,愿我站在你富饶的荫影旁。啊,毗湿奴,你即是处所。从此处因陀罗显示了力量;直立的祭祀便屹立不动。
2.9
अग्ने वेर् होत्रं वेर् दूत्यम् ।
अवतां त्वां द्यावापृथिवी ।
ऽअव त्वं द्यावापृथिवी स्विष्टकृद् देवेभ्यो इन्द्रऽ आज्येन हविषा भूत् स्वाहा ।
सं ज्योतिषा ज्योतिः ॥ २.९ ॥
啊,阿耆尼,你当知呼唤者(荷塔)之职与使者之职。愿天与地护佑你。啊,天与地,你们也从下方护佑;为诸神,愿因陀罗以酥油与供品成就斯维什塔克利特之祭。斯瓦哈。愿光与光相合。
2.10
मयीदम् इन्द्र ऽइन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकꣳ सन्त्व् आशिषः सत्या नः सन्त्व् आशिषः ।
ऽउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयताम् ।
अग्निर् आग्नीध्रात् स्वाहा ॥ २.१० ॥
因陀罗啊,请在我身上安置这股根能。愿富有者与我们同在。愿我们的愿望成就,愿我们的祝福真实。愿被呼请的大地之母唤我靠近。从阿格尼德拉而来的阿耆尼;娑婆诃。
2.11
उपहूतो द्यौष् पितोप मां द्यौष् पिता ह्वयताम् अग्निर् आग्नीध्रात् स्वाहा ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
प्रति गृह्णामि ।
अग्नेष् ट्वास्येन प्राश्नामि ॥ २.११ ॥
愿被呼请的父亲天空唤我靠近。从阿格尼德拉而来的阿耆尼;娑婆诃。在savitṛ神的策动下,以双马童之臂,以普善神之手,我接受你。以阿耆尼之口,我食你。
2.12
एतं ते देव सवितर् यज्ञं प्राहुर् बृहस्पतये ब्रह्मणे ।
तेन यज्ञम् अव तेन यज्ञपतिं तेन माम् अव ॥ २.१२ ॥
天神savitṛ啊,这场祭祀他们宣告给布里哈斯帕提、给婆罗门祭司。以此护佑祭祀,以此护佑祭主,以此护佑我。
2.13
मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु ।
अरिष्टं यज्ञꣳ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ३ं प्र तिष्ठ ॥ २.१३ ॥
愿心念之速享用澄清黄油。愿布里哈斯帕提延展此祭;愿他使此无害之祭稳固确立。愿一切毗首提婆在此欢喜。唵,向前立。
2.14
एषा तेऽ अग्ने समित् तया वर्धस्व चा च प्यायस्व ।
वर्धिषीमहि च वयम् आ च प्यासिषीमहि ।
अग्ने वाजजिद् वाजं त्वा ससृवाꣳसं वाजजितꣳ सं मार्ज्मि ॥ २.१४ ॥
啊,阿耆尼,这是你的薪柴;借它增长并充满。愿我们也增长并充满。啊,阿耆尼,夺得财富者,以力量前行的你,我将你仔细地涂油净化。
2.15
अग्नीषोमयोर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।
अग्नीषोमौ तम् अपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ।
इन्द्राग्न्योर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।
इन्द्राग्नी तम् अप नुदतां यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ॥ २.१५ ॥
循阿耆尼与苏摩的至高胜利,我获胜;凭力量的推动,我向前。愿阿耆尼与苏摩驱逐那恨我们的人,以及我们所恨的人。凭力量的推动,我驱逐他。循因陀罗与阿耆尼的至高胜利,我获胜;凭力量的推动,我向前。愿因陀罗与阿耆尼驱逐那恨我们的人,以及我们所恨的人。凭力量的推动,我驱逐他。
2.16
वसुभ्यस् त्वा ।
रुद्रेभ्यस् त्वा ।
आदित्येभ्यस् त्वा ।
सं जानाथां द्यावापृथिवी ।
मित्रावरुणौ त्वा वृष्ट्यावताम् ।
व्यन्तु वयो क्तꣳ रिहाणाः ।
मरुतां पृषतीर् गच्छ वशा पृश्निर् भूत्वा दिवं गच्छ ततो नो वृष्टिम् आ वह ।
चक्षुष्पा ऽअग्ने ऽसि चक्षुर् मे पाहि ॥ २.१६ ॥
为诸婆苏,为你。为诸楼陀罗,为你。为诸阿提提亚,为你。愿天与地相互认识。愿弥陀罗与伐楼那以雨覆盖你。愿他们将所诵之颂散布为滋养,舔食。摩录多的斑点之母,去吧;让不育之牛变为斑点并升天,从那里为我们带来雨。阿耆尼,你是眼睛的守护者;请守护我的眼睛。
2.17
यं परिधिं पर्यधत्थाऽ अग्ने देव पणिभिर् गुह्यमानः ।
तं तऽ एतम् अनु जोषं भराम्य् नेत् त्वद् अपचेतयातै ।
ऽअग्नेः प्रियं पाथोऽपीतम् ॥ २.१७ ॥
哦神阿耆尼,你被诸帕尼藏匿时所立于四周的那根围栏木,我以爱意将此献给你,使你不要离开我。阿耆尼可爱的道路被隐藏。
2.18
सꣳस्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः ।
इमां वाचम् अभि विश्वे गृणन्त ऽआसद्यास्मिन् बर्हिषि मादयध्वम् ।
स्वाहा वाट् ॥ २.१८ ॥
你们是流注分的分享者,诸位伟大者,立于铺草之上,以及围栏木的诸神。赞颂此言语,愿诸神都坐于此神圣的草上而欢喜。斯瓦哈,瓦特。
2.19
घृताची स्थो धुर्यौ पातꣳ सुम्ने स्थः सुम्ने मा धत्तम् ।
यज्ञ नमश् च तऽ उप च यज्ञस्य शिवे सं तिष्ठस्व स्विष्टे मे संतिष्ठस्व ॥ २.१९ ॥
你们是流淌酥油者,是轭上的一对;请守护。你们在恩惠之中;请将恩惠置于我身。祭祀啊,向你致敬;在祭祀近旁,吉祥地安立;在我善行的祭祀中安立。
2.20
अग्नेऽ दब्धायो ऽशीतम पाहि मा दिद्योः ।
पाहि प्रसित्यै ।
पाहि दुरिष्ट्यै ।
पाहि दुरद्मन्याऽ अविषं नः पितुं कृणु ।
सुषदा योनौ स्वाहा वाट् ।
अग्नये संवेशपतये स्वाहा ।
सरस्वत्यै यशोभगिन्यै स्वाहा ॥ २.२० ॥
啊阿耆尼,不可伤者,最锐利者;守护我。守护我免于雷电。守护我免于罗网。守护我免于恶行的祭祀。守护我免于恶念;使我们的食物无毒。在安坐之处——斯瓦哈,瓦特。向家主阿耆尼致斯瓦哈。向赐予荣耀的萨罗室伐蒂致斯瓦哈。
2.21
वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदोऽ भवस् तेन मह्यं वेदो भूयाः ।
देवा गातुविदो गातुं वित्त्वा गातुम् इत ।
मनसस् पतऽ इमं देव यज्ञꣳ स्वाहा वाते धाः ॥ २.२१ ॥
你是财富(吠陀),借此你知晓,啊神;你为诸神成为了财富;借此也请为我成为财富。啊诸神,知道道路者,找到道路后,沿路前行。啊心之主,啊神,斯瓦哈,致此祭祀;将其置于风中。
2.22
सं बर्हिर् अङ्क्ताꣳ हविषा घृतेन सम् आदित्यैर् वसुभिः सं मरुद्भिः ।
सम् इन्द्रो विश्वदेवेभिर् अङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥ २.२२ ॥
愿此圣草以供物与酥油庄严;愿其以阿提亚、婆苏与摩录多庄严。愿因陀罗与一切天神共同庄严它;愿它升往天界虚空——斯瓦哈。
2.23
कस् त्वा वि मुञ्चति स त्वा वि मुञ्चति कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति ।
पोषाय ।
रक्षसां भागो ऽसि ॥ २.२३ ॥
谁释放你,他便释放你;为谁释放你,便为他释放你。为了滋养。你是罗刹的份额。
2.24
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।
त्वष्टा सुदत्रो वि दधातु रायोऽ नुमार्ष्टु तन्वो यद् विलिष्टम् ॥ २.२४ ॥
愿我们与光辉和乳汁相合,与身体相合,与心意和吉祥相合。愿善施者特瓦什特里分配财富,净化身体中有缺陷的部分。
2.25
दिवि विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अन्तरिक्षे विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो योऽ स्मान् द्वेष्टि यं च वयं द्विष्मः ।
पृथिव्यां विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अस्माद् ऽअन्नादस्यै प्रतिष्ठायै ।
ऽ अगन्म स्वः ।
सं ज्योतिषाभूम ॥ २.२५ ॥
在天上,毗湿奴以遮遮提韵律迈步;由此,那憎恨我们者、我们所憎恨者被驱除。在虚空中,毗湿奴以遮遮提韵律迈步;由此,那憎恨我们者、我们所憎恨者被驱除。在大地上,毗湿奴以遮遮提韵律迈步;由此,那憎恨我们者、我们所憎恨者被驱除。为此食物,为此根基。愿我们得到天界(svar)。愿我们与光明相合(jyotis)。
2.26
स्वयम्भूर् असि श्रेष्ठो रश्मिर् ऽवर्चोदा असि वर्चो मे देहि ।
सूर्यस्यावृतम् अन्व् आवर्ते ॥ २.२६ ॥
你是自生者,至上者;你是光线,赐予光辉。赐我光辉。在太阳的圈域中,沿其运转之道。
2.27
अग्ने गृहपते सुगृहपतिस् त्वयाऽग्ने ऽहं गृहपतिना भूयासꣳ सुगृहपतिस् त्वं मयाऽग्ने गृहपतिना भूयाः ।
अस्थूरि णौ गार्हपत्यानि सन्तु शतꣳ हिमाः ।
सूर्यस्यावृतम् अन्व् आवर्ते ॥ २.२७ ॥
啊阿耆尼,家主!愿我因你而成为善良的家主;愿你因我与家主一同成为善良的家主。愿我们的家事之务无断绝,百个寒冬。在太阳的圈域中,沿其运转之道。
2.28
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मेऽ राधि ।
इदम् अहं यऽ एवाऽस्मि सोऽस्मि ॥ २.२८ ॥
啊阿耆尼,誓愿之主!我已奉行誓愿;我能够做到。愿它为我成就。我即是此;我实际是什么,我便是什么。
2.29
अग्नये कव्यवाहनाय स्वाहा ।
सोमाय पितृमते स्वाहा ।
अपहता ऽ असुरा रक्षाꣳसि वेदिषदः ॥ २.२९ ॥
致敬持送祖灵供物的阿耆尼,斯瓦哈。致敬具足祖灵的苏摩,斯瓦哈。坐在祭坛上的阿修罗与罗刹已被驱逐。
2.30
ये रूपाणि प्रतिमुञ्चमाना ऽ असुराः सन्तः स्वधया चरन्ति ।
परापुरो निपुरो ये भरन्त्य् अग्निष्टाँन् लोकात् प्र णुदात्य् अस्मात् ॥ २.३० ॥
那些化作各种形相、借供物而行走的阿修罗,那些持有远城与近城者——阿耆尼将他们驱离此世。
2.31
अत्र पितरो मादयध्वं यथाभागम् आ वृषायध्वम् ।
अमीमदन्त पितरो यथाभागम् आ वृषायिषत ॥ २.३१ ॥
此处,诸位祖先啊,按各自的份额欢喜吧;充分地获得力量。祖先们按各自的份额欢喜了;充分地获得了力量。
2.32
नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः ॥ २.३२ ॥
向你们致敬,诸位祖先,因你们的汁液;向你们致敬,诸位祖先,因你们的枯竭;向你们致敬,诸位祖先,因生命;向你们致敬,诸位祖先,因斯瓦达;向你们致敬,诸位祖先,因你们的猛烈;向你们致敬,诸位祖先,因你们的愤怒。向你们致敬,诸位祖先。诸位祖先啊,把现有之物赐予我们的家。诸位祖先啊,我们将把这个——这件衣服——奉给你们。
2.33
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
यथेह पुरुषो ऽसत् ॥ २.३३ ॥
诸位祖先啊,承载胎儿,那戴着莲花花环的少年,使此处有一位男子。
2.34
ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् ।
स्वधा स्थ तर्पयत मे पितॄन् ॥ २.३४ ॥
你们承载着力量、不死甘露、酥油、乳和流淌的饮品,你们即是斯瓦达;请使我的祖先们满足。