夜柔吠陀 · 章(Adhyāya) 4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.1
एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे । इमा ऽ आपः शम् उ मे सन्तु देवीः । ओषधे त्रायस्व ।
ऋक् सामाभ्या संतरन्तो यजुर्भी रायस् पोषेण सम् इषा मदेम ।
स्वधिते मैनꣳ हिꣳसीः ॥ ४.१ ॥
我们来到了大地上这处祭祀之地,诸神在此皆得欢悦。愿这些神圣的水对我吉祥。啊,草药,请保护。以《梨俱》与《娑摩》渡越,以《祭祀》诵文,愿我们因财富的滋养与食物而欢喜。啊,斧,不要伤害此者。
4.2
आपो ऽ अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वꣳ हि रिप्रं प्रवहन्ति देवीः ।
उद् इदाभ्यः शुचिर् आ पूत ऽ एमि ।
दीक्षातपसोस् तनूर् असि तं त्वा शिवाꣳ शग्मां परि दधे भद्रं वर्णं पुष्यन् ॥ ४.२ ॥
愿诸水如母,净化我们;愿以酥净酥的水使我们洁净。神圣之水确能冲走一切污秽。我纯净洁白,从水中升起。你是受戒与苦行之身;我披上那吉祥而慈悲的你,滋养美好的光彩。
4.3
महीनां पयो सि वर्चोदा ऽ असि वर्चो मे देहि ।
वृत्रस्यासि कनीनकश् चक्षुर्दा ऽ असि चक्षुर् मे देहि ॥ ४.३ ॥
你是伟大者的乳汁(滋养之液),是赐予光辉者;请赐予我光辉。你是弗栗多的瞳仁,是赐予视力者;请赐予我视力。
4.4
चित्पतिर् मा पुनातु ।
वाक्पतिर् मा पुनातु ।
देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच् छकेयम् ॥ ४.४ ॥
愿思想之主净化我。愿言语之主净化我。愿神苏维塔以无瑕的滤器与太阳的光线净化我。啊,滤器之主,愿我能够净化你所愿、由滤器净化的那物。
4.5
आ वो देवास ऽ ईमहे वामं प्रयत्य् अध्वरे ।
आ वो देवास आशिषो ऽ यज्ञियासो हवामहे ॥ ४.५ ॥
诸神啊,在祭礼的供奉中,我们向你们求取财富。诸神啊,值得献祭的神明,我们在此呼唤你们赐予祝福。
4.6
स्वाहा यज्ञं मनसः ।
स्वाहोरोर् अन्तरिक्षात् ।
स्वाहा द्यावापृथिवीभ्याम् ।
स्वाहा वाताद् आ रभे स्वाहा ॥ ४.६ ॥
娑诃,以心意献上祭祀。娑诃,自广阔的虚空。娑诃,献给天与地。娑诃,我从风中取得。娑诃。
4.7
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी ऽ उरो ऽ अन्तरिक्ष ।
बृहस्पतये हविषा विधेम स्वाहा ॥ ४.७ ॥
娑诃,献给阿耆尼,为了意图与驾驭。娑诃,献给阿耆尼,为了智慧与心意。娑诃,献给阿耆尼,为了灌顶与苦行。娑诃,献给阿耆尼,为了萨罗室伐蒂与普山。啊,神圣而广大、普济众生的诸水,天与地及广阔虚空,让我们以供品敬拜布里哈斯帕提。娑诃。
4.8
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥ ४.८ ॥
愿每个凡人都选择神之领袖的友谊。愿众人渴求财富,选择光辉与昌盛。Svāhā。
4.9
ऋक्सामयोः शिल्पे स्थः ते वाम् आ रभे ते मा पातमास्य यज्ञस्योदृचः ।
शर्मासि शर्म मे यच्छ नमस् ते ऽ अस्तु मा मा हिꣳसीः ॥ ४.९ ॥
你们二者是梨俱与娑摩的装饰;我握住你们两者。愿你们借此祭祀的升起诗句护卫我。你们是庇护;赐我庇护。向你们致敬。不要伤害我。
4.10
ऊर्ग् अस्य् आङ्गिरस्यूर्णम्रदा ऽ ऊर्जं मयि धेहि ।
सोमस्य नीविर् असि ।
विष्णोः शर्मासि शर्म यजमानस्य ।
इन्द्रस्य योनिर् असि ।
सुसस्याः कृषीस् कृधि ।
उच् छ्रयस्व वनस्पत ऽऊर्ध्वो मा पाह्य् अꣳहसऽ आस्य यज्ञस्योदृचः ॥ ४.१० ॥
你是Ūrk,安基罗斯的毛织衣;请将力量置于我身。你是苏摩的腰带。你是毗湿奴的庇护,是祭主的庇护。你是因陀罗的胎座。为好收成而耕作。哦,林中之主,升起;挺立,借此祭祀的升起诗句护我脱离苦难。
4.11
व्रतं कृणुताग्निर् ब्रह्माग्निर् यज्ञो वनस्पतिर् यज्ञियः ।
दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये वर्चोधां यज्ञवाहसꣳ सुतीर्था नो ऽअसद् वशे ।
ये देवा मनोजाता मनोयुजो दक्षक्रतवस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥ ४.११ ॥
愿阿耆尼成就誓愿;阿耆尼即神圣祷词,阿耆尼即祭祀,而林中之主的祭柱适于行祭。我们思念那神圣的智慧,慈悲、吉祥、赐予光辉、承载祭祀;愿它为我们所掌控的顺畅之路。愿那些生于意、系于意、意志灵巧的诸神护佑我们、守护我们;向他们致敬,斯瓦哈。
4.12
श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः ।
ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः ॥ ४.१२ ॥
诸水啊,当你们被饮用时,请成为可爱之物;在我们腹中请极为慈悦。愿它们对我们甘甜,无消耗之病,无疾,无过;它们是神圣的、不死的,并能增长宇宙秩序。
4.13
इयं ते यज्ञिया तनूः ।
अपो मुञ्चामि न प्रजाम् ।
अꣳहोमुचः स्वाहाकृताः पृथिवीम् आविशत ।
पृथिव्या संभव ॥ ४.१३ ॥
此乃你适于祭祀的形体。我使其离开——而非子嗣。解脱忧患者啊,以斯瓦哈奉献后,请入于大地;请从大地而生。
4.14
अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि ।
रक्षा णो ऽ अप्रयुच्छन् प्रबुधे नः पुनस् कृधि ॥ ४.१४ ॥
啊阿耆尼,请善加警醒,使我们得以安乐。请不间断地护佑我们;醒来之时,再使我们(平安)。
4.15
पुनर् मनः पुनर् आयुर् म ऽआगन् पुनः प्राणः पुनर् आत्मा मऽ आगन् पुनश् चक्षुः पुनः श्रोत्रं म ऽआगन् ।
वैश्वानरोऽ अदब्धस् तनूपा ऽअग्निर् नः पातु दुरिताद् अवद्यात् ॥ ४.१५ ॥
愿我的心再次回到我身边,愿我的寿命再次回到我身边;愿我的气息再次回到我身边,愿我的自我再次回到我身边;愿我的视力再次回到我身边,愿我的听力再次回到我身边。愿为众人所共有、不可欺、护身的火神毗舍那罗,保护我们免于灾厄与罪责。
4.16
त्वम् अग्ने व्रतपा ऽ असि देव ऽ आ मर्त्येष्व् आ त्वं यज्ञेष्व् ईड्यः ।
रास्वेयत्सोमा भूयो भर देवो नः सविता वसोर् दाता वस्व् अदात् ॥ ४.१६ ॥
啊,火神,你是守护誓约的神;在凡人之中、在祭祀之中,你都值得赞颂。请赐予这样的苏摩,再次带来。愿财富的赐予者天神萨维特里赐予我们财富。
4.17
एषा ते शुक्र तनूर् एतद् वर्चस् तया सं भव भ्राजं गच्छ ।
जूर् असि धृता मनसा जुष्टा विष्णवे ॥ ४.१७ ॥
这是你明亮的身体,这是光辉;与之合一,光彩照耀地前行。你迅捷,由心所持,为毗湿奴所爱。
4.18
तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा ।
शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि ॥ ४.१८ ॥
愿我在你这真力之身的生发之中,获得那支持。斯瓦哈。你明亮,你是月亮,你是不死的,你属于一切天神。
4.19
चिद् असि मनासि धीर् असि दक्षिणासि क्षत्रियासि यज्ञियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी ।
सा नः सुप्राची सुप्रतीच्य् एधि मित्रस् त्वा पदि बध्नीतां पूषाऽध्वनस् पात्व् इन्द्रायाध्यक्षाय ॥ ४.१९ ॥
你是 cit,你是 manas,你是 dhī,你是 dakṣiṇā,你是 kṣatriyā,你是 yajñiyā;你是 Aditi,双头者。愿她为我们 suprācī 与 supratīcī。愿 Mitra 将你系于足上;愿 Pūṣan 在道路上护佑;为监管者 Indra。
4.20
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः ।
सा देवि देवम् अच्छेहीन्द्राय सोमꣳ रुद्रस् त्वा वर्तयतु स्वस्ति सोमसखा पुनर् एहि ॥ ४.२० ॥
愿母亲随你应允,父亲应允,同胎的兄弟应允,朋友与群中伙伴应允。女神啊,向神而去;为因陀罗来到苏摩之处。愿楼陀罗使你回转以获吉祥;苏摩的朋友,再来吧。
4.21
वस्व्य् अस्य् अदितिर् अस्यादित्यासि रुद्रासि चन्द्रासि ।
बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आ चके ॥ ४.२१ ॥
你属于 Vasu,你是 Aditi,你是 Ādityā,你是 Rudrā,你是 Candrā。愿 Bṛhaspati 以恩惠使你欢喜;愿 Rudra 与 Vasu 一同向你照耀。
4.22
अदित्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजने पृथिव्याऽ इडायास् पदम् असि घृतवत् स्वाहा ।
अस्मे रमस्व ।
अस्मे ते बन्धुः ।
त्वे रायः ।
मे रायः ।
मा वयꣳ रायस्पोषेण वि यौष्म ।
तोतो रायः ॥ ४.२२ ॥
我将你安置于阿迪提之首。你是祭祀诸神之处、大地之处、伊达之处;你充满酥油。斯瓦哈。在我们之中喜乐吧。你的亲族在我们之中。财富在你之中,财富在我之中。愿我们不与财富的滋养相分离。驱动财富。
4.23
सम् अख्ये देव्या धिया सं दक्षिणयोरुचक्षसा ।
मा मऽ आयुः प्र मोषीर् मो ऽअहं तव ।
वीरं विदेय तव देवि संदृशि ॥ ४.२३ ॥
我以神圣的智慧清楚地看见,与右侧和广阔的视野相合。不要夺走我的寿命,也不要让我因属于你而灭亡。女神啊,愿我在你的注视下获得英雄之子。
4.24
एष ते गायत्रो भागऽ इति मे सोमाय ब्रूताद् एष ते त्रैष्टुभो भागऽ इति मे सोमाय ब्रूताद् एष ते जागतो भागऽ इति मे सोमाय ब्रूताच् छन्दोनामानाꣳ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् ।
आस्माकोऽ सि शुक्रस् ते ग्रह्यो विचितस् त्वा वि चिन्वन्तु ॥ ४.२४ ॥
愿他为我告诉苏摩:这是属于伽耶特里韵律的你的份额。愿他为我告诉苏摩:这是属于特里希图普韵律的你的份额。愿他为我告诉苏摩:这是属于耆迦提韵律的你的份额。愿他为我告诉苏摩:去往以名称所命名之韵律的主权。你是我们的;你光明的杯被选中了;愿他们选择它。
4.25
अभि त्यं देवꣳ सवितारम् ओण्योः कविक्रतुम् अर्चामि सत्यसवꣳ रत्नधाम् अभि प्रियं मतिं कविम् ।
ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ।
प्रजाभ्यस् त्वा ।
प्रजास् त्वाऽनुप्राणन्तु प्रजास् त्वम् अनुप्राणिहि ॥ ४.२५ ॥
我赞颂那位神萨维特里,双手者,有诗人之志,在驱动中真实,宝藏之所;赞颂那亲爱而智慧的先见者。 其上升之光在其驱动中闪耀;金手、善行者度量了天空。 为了子孙,献给你。 愿子孙使你获得气息;愿你使子孙获得气息。
4.26
शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन ।
सग्मे ते गोः ।
अस्मे ते चन्द्राणि ।
तपसस् तनूर् असि प्रजापतेर् वर्णः परमेण पशुना क्रीयसे सहस्रपोषं पुषेयम् ॥ ४.२६ ॥
我以光明的价格购买光明的你;以辉煌的价格购买辉煌的,以不死的价格购买不死的。 愿你的结合与牛同在。 为我们,你的光辉之物。 你是苦行的身体,生主的颜色;你以上等牲畜被购买;愿我获得千倍的滋养。
4.27
मित्रो नऽ एहि सुमित्रधः ।
ऽ इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तꣳ स्योनः स्योनम् ।
स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानो ।
एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन् ॥ ४.२७ ॥
密特拉啊,来到我们这里,赐予良好友谊者;进入因陀罗宽阔的右侧。对于渴望者,所渴望者得到幸福,幸福。 啊,鸣响者,啊,光辉者,啊安伽啰,啊邦跋啰,啊手,啊善手,啊克利沙那;这些是你们购买苏摩的器具;守护它们,使无人伤害你们。
4.28
परि माग्ने दुश्चरिताद् बाधस्वा मा सुचरिते भज ।
उद् आयुषा स्वायुषोदस्थाम् अमृताꣳ ऽअनु ॥ ४.२८ ॥
阿耆尼啊,使我远离恶行,安置我于善行之中。我们以善寿而起,追随不死。
4.29
प्रति पन्थाम् अपद्महि स्वस्तिगाम् अनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥ ४.२९ ॥
愿我们抵达那通往吉祥、无忧的道路,由此驱除一切敌人,获得财富。
4.30
अदित्यास् त्वग् असि ।
अदित्यै सद ऽआ सीद ।
अस्तभ्नाद् द्यां वृषभो ऽ अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥ ४.३० ॥
你是阿底提的皮。坐于阿底提的座位上。公牛支撑天空,测量了虚空,测量了大地的广阔。至尊者坐于一切世界;这些确实是伐楼拿的律法。
4.31
वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पय ऽउस्रियासु ।
हृत्सु क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥ ४.३१ ॥
伐楼拿在森林中展开虚空,将力量置于马匹,将乳汁置于牛群。他将决心置于心中,将火置于众人之间,将太阳置于天上,将苏摩置于石上。
4.32
सूर्यस्य चक्षुर् आरोहाग्नेर् अक्ष्णः कनीनकम् ।
यत्रैतशेभिर् ईयसे भ्राजमानो विपश्चिता ॥ ४.३२ ॥
升起吧,作为太阳之眼,阿耆尼之眼的瞳孔。你与疾驰的骏马一同光耀前行之处,有智者引导你。
4.33
उस्राव् एतं धूर्षाहौ युज्येथाम् अनश्रूऽ अवीरहणौ ब्रह्मचोदनौ ।
स्वस्ति यजमानस्य गृहान् गच्छतम् ॥ ४.३३ ॥
这两头承轭的牛啊,愿你们被套上轭;无泪,不杀勇士,推动神圣的咒语。平安地前往施祭者的家中。
4.34
भद्रो मेऽ सि प्रच्यवस्व भुवस्पते विश्वान्य् अभि धामानि ।
मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन् मा वृकाऽ अघायवो विदन् ।
श्येनो भूत्वा परा पत यजमानस्य गृहान् गच्छ तन् नौ सँ̐स्कृतम् ॥ ४.३४ ॥
你对我吉祥;世界之主啊,向着一切居所前进。愿环伺的敌人、路上的盗贼、狼和恶人都找不到你。化为鹰隼,远远飞去;前往施祭者的家,那里已为我们准备妥当。
4.35
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतꣳ सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शꣳसत ॥ ४.३५ ॥
向密特拉与伐楼那之眼致敬。向伟大的神尊奉那宇宙秩序。向远视者、神所生者、光明之旗、天之子苏利耶宣唱赞歌。
4.36
वरुणस्योत्तम्भनम् असि ।
वरुणस्य स्कम्भसर्जनी स्थः ।
वरुणस्यऽ ऋतसदन्य् असि वरुणस्यऽ ऋतसदनम् असि ।
वरुणस्य ऽऋतसदनम् आ सीद ॥ ४.३६ ॥
你是伐楼那的支撑。你们二者是解开伐楼那之柱的人。你是伐楼那宇宙秩序的座位;你是伐楼那宇宙秩序的座位。请坐在伐楼那宇宙秩序的座位上。
4.37
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् ।
गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान् ॥ ४.३७ ॥
苏摩啊,愿人们以供物祭拜的你的所有居所,借你而成就祭祀。你是增益家室、引渡众人、拥有良子、摧毁无勇之敌者,苏摩啊,向前行至门户。