薄伽梵歌 · 章 13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.1
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३.१ ॥
阿周那说:盖沙婆啊,原质与原人,田与知田者,知识与所知——这些我希望了解。
13.2
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३.२ ॥
薄伽梵说:贡蒂之子啊,这身体被称为田。知晓它的人,明白此理者称之为知田者。
13.3
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३.३ ॥
婆罗多后裔啊,要知道我也是一切田中的知田者。关于田与知田者的知识,我认为那才是知识。
13.4
तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३.४ ॥
请听我简要说明:那田是什么,是怎样的,有何变化,何者从何而生;以及他是谁,有何威力。
13.5
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३.५ ॥
这已由仙人们以多种方式、在各种颂诗中分别吟唱,也在有理据且确定无疑的《梵经》语句中阐明。
13.6
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३.६ ॥
诸大元素、我慢、觉知与未显者;十根与一(意),以及五种感官对象;
13.7
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३.७ ॥
欲望、憎恶、快乐、痛苦、聚合体、意识与坚定——这就是简要所说的带有变化的田。
13.8
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३.८ ॥
不骄慢、不虚伪、不害、忍耐、正直、侍奉导师、清净、坚定、自制;
13.9
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३.९ ॥
对感官对象的离欲,以及无我慢;洞察生、死、老、病、苦的过患;
13.10
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३.१० ॥
无执着,不贪恋儿子、妻子、家宅等,于可意与不可意之事常保心平;
13.11
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३.११ ॥
以专一的瑜伽对我不移的奉爱,常居僻静之处,不喜人群聚会;
13.12
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा ॥ १३.१२ ॥
恒住于自我之知,洞见真理之知的目的——这被称为知识;与此相反的便是无知。
13.13
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३.१३ ॥
我将宣说那应被认知者,认知了它,便得不死:那是无始的至高梵,它被说成既非有,也非无。
13.14
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३.१४ ॥
它处处有手有足,处处有眼、有头、有面,处处有耳;它遍覆一切,安住于世间。
13.15
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३.१५ ॥
它借一切感官的功能而显现,却远离一切感官;无所执着,却维系一切;超越三德,却受用三德。
13.16
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३.१६ ॥
它在众生之外,也在众生之内;不动,也动;因其微妙而不可知;它在远处,也在近旁。
13.17
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३.१७ ॥
它不可分割,却仿佛分别存在于众生之中。应知它是众生的维护者、吞噬者与创生者。
13.18
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३.१८ ॥
它被称为光明中的光明,超越黑暗。它是知识,是所知,是知识所达的目标,安住于一切众生的心中。
13.19
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३.१९ ॥
如此,田、知识与所知已简要说明。我的信徒了知这些,便达到我的境界。
13.20
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १३.२० ॥
要知道原质与原人二者皆无始;也要知道诸变化和诸德都生于原质。
13.21
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३.२१ ॥
在果与器官的造作上,原质被称为原因;在苦乐的感受上,原人被称为原因。
13.22
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३.२२ ॥
原人住于原质之中,感受原质所生的诸德。对诸德的执着,是其生于善恶胎中的原因。
13.23
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३.२३ ॥
此身中的至上原人,也被称为见证者、允许者、维持者、感受者、大自在主和至上自我。
13.24
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैःसह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३.२४ ॥
如此了知原人以及原质连同诸德的人,无论如何生活,都不再出生。
13.25
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ १३.२५ ॥
有些人通过禅定,以自我在自身之中见到真我;另一些人通过数论瑜伽,还有一些人通过行动瑜伽。
13.26
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३.२६ ॥
还有些人不如此了知,从他人处听闻后便敬拜;他们专心于所闻,也必定超越死亡。
13.27
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३.२७ ॥
婆罗多族的俊杰啊,无论生起何种众生,不动的或动的,要知道都是由田与知田者的结合而生。
13.28
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३.२८ ॥
谁见到至上主平等地住于一切众生之中,在毁灭者之中不灭,谁才真正见到。
13.29
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ॥ १३.२९ ॥
因为他见到自在主平等地遍住一切处,便不以自我伤害自我;因此他达到至高的归宿。
13.30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ॥ १३.३० ॥
谁见到一切行动全然只由原质所作,同样见到真我并非作者,谁才真正见到。
13.31
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३.३१ ॥
当一个人看到众生各别的存在安住于唯一者之中,且它们的展开唯从那里而来,那时他便达到梵。
13.32
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३.३२ ॥
贡蒂之子啊,因为无始、超越三德,这不灭的至上自我虽居于身中,既不行动,也不受沾染。
13.33
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥ १३.३३ ॥
正如遍及一切的虚空因其微妙而不受沾染,同样,遍在于身中的自我也不受沾染。
13.34
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३.३४ ॥
婆罗多啊,正如一个太阳照亮整个世界,同样,田的拥有者照亮整个田。
13.35
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३.३५ ॥
那些以智慧之眼如此了知田与知田者之间的区别,以及众生从原质中解脱的人,他们抵达至上。