Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

24.1

अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याꣳ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥ २४.१ ॥

马是tūpara;母牛或鹿;它们属于生主(Prajāpati)。黑颈者属于阿耆尼;额前为萨罗室伐蒂的母羊;下颌上为二阿输二神;下部两个无标记者;臂上为苏摩与普善;黑色者在肚脐;日神与阎摩二者;两侧白与黑,为特瓦湿多的二者;腿有毛者;腿上为风神;白尾者为因陀罗,为能者,为vehat公牛;毗湿奴的侏儒。

24.2

रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥ २४.२ ॥

赤色者、烟赤者、枣赤者,属于苏摩;褐色者、赤褐者、鹦鹉褐者,属于伐如那;一侧有白点者、另一侧有白点者、四周有白点者,属于萨维德里;白臂者、另一侧白臂者、四周白臂者,属于布里哈斯帕提;有斑点者、小斑点者、大斑点者,属于密多罗与伐如那。

24.3

शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥ २४.३ ॥

尾巴纯净的、全然纯净的、尾如宝珠的,属于双Aśvin。白色、白眼、赤红色的,属于楼陀罗,群畜之主。有耳的、Yāma、涂抹的、属于楼陀罗的、天色的,属于Parjanya。

24.4

पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः ॥ २४.४ ॥

斑点的、横斑的、向上斑点的,属于风神Marut。黄色的、红毛的、Palakṣī,属于Sarasvatī。脾耳的、姜耳的、铁耳的,属于Tvaṣṭṛ。黑颈的、白腹的、涂油腿的,属于因陀罗-火神。黑涂油的、小涂油的、大涂油的,属于曙神Uṣas。

24.5

शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥ २४.५ ॥

斑纹各异的,属于众神(Viśvedeva);赤红的、三岁的,属于语言女神Vāc;不可辨认的,属于Aditi;形态相同的,属于Dhātṛ;小牛、少牛,属于诸神之妻。

24.6

कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः ॥ २४.६ ॥

黑颈的属于阿耆尼;白眉的属于婆苏(Vasu);红色的属于楼陀罗(Rudra);白色、阿婆罗其的属于阿底提亚(Āditya);天色的属于Parjanya。

24.7

उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः ॥ २४.७ ॥

高峰的公牛与矮小的动物归你所有,属于因陀罗与毗湿奴。白臂白背、身材高大者归你所有,属于因陀罗与布里哈斯帕蒂。形如野猪的快马;斑点者属于阿耆尼与摩如特;黑色者属于普善。

24.8

एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः ॥ २४.८ ॥

这些双形者属于因陀罗与阿耆尼;矮小者属于阿耆尼与苏摩;挽车之牛属于阿耆尼与毗湿奴;不育的母牛属于弥陀罗与伐楼那;来自另一群,并属于弥陀罗。

24.9

कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥ २४.९ ॥

黑颈者属于阿耆尼;褐色者属于苏摩;白色者属于伐由;不识者属于阿底提,同形者属于达多;小母牛属于诸神的妻子们。

24.10

कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः ॥ २४.१० ॥

黑色者属于大地;烟色者属于虚空;巨大者属于天界;斑驳者属于闪电;星点者。

24.11

धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥ २४.११ ॥

他以烟色者祭春,白者祭夏,黑者祭雨季,赤者祭秋,斑点者祭冬,黄褐者祭寒季。

24.12

त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे ॥ २४.१२ ॥

三岁的牲畜献给迦耶特里韵律;五岁的牲畜献给特利什图普韵律;两岁的役牛献给耆舍提韵律;有三头小牛的母牛献给阿努什图普韵律;四岁的役牛献给乌什尼赫韵律。

24.13

पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे ॥ २४.१३ ॥

六岁的役牛献给毗罗遮韵律;公牛献给勃哈提韵律;公牛献给迦古布韵律;役牛献给般克提韵律;乳牛献给阿提昌达斯韵律。

24.14

कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥ २४.१४ ॥

黑颈的牲畜献给阿耆尼;褐色的献给苏摩;耳朵下垂的献给萨维特里;小母牛献给萨罗室伐底;黑色的献给布善;有斑点的献给摩录多;多色的献给一切神;不育的母牛献给天地。

24.15

उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः ॥ २४.१५ ॥

所谓游走者有:属于因陀罗与阿耆尼的;黑色的献给伐楼那;有斑点的献给摩录多;属于身体与子宫的。

24.16

अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सꣳसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् ॥ २४.१६ ॥

他献给统帅军队的阿耆尼初生的牲畜;献给施热的摩录多属风的牲畜;献给居家的摩录多巴什基牲畜;献给嬉戏的摩录多一同放出的牲畜;献给自有力量的摩录多之后放出的牲畜。

24.17

उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥ २४.१७ ॥

这些随行之畜(saṃcara)已被宣说:属于因陀罗与阿耆尼的,角在前的,属于摩诃因陀罗的,形态多样的,属于毗首羯摩的。

24.18

धूम्रा बभ्रुनीकाशाः पितॄणाꣳ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः ॥ २४.१८ ॥

烟色、似褐色的,属于持有苏摩的祖先;褐色、似褐色的,属于坐在圣草上的祖先;黑色、似褐色的,属于被献给阿耆尼的祖先;黑而有斑点的,属于三眼神(Tryambaka)。

24.19

उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥ २४.१९ ॥

这些随行之畜(saṃcara)已被宣说:这些属于舒那昔罗;白色的属于伐由;白色的属于苏利耶。

24.20

वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥ २४.२० ॥

为春季取鹧鸪(kapiñjala);为夏季取麻雀;为雨季取竹鸡;为秋季取鹌鹑;为冬季取鹤;为寒季取另一种鹤。

24.21

समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् ॥ २४.२१ ॥

为大海取海豚;为雨神帕尔贾尼亚取青蛙;为水取鱼;为密多罗取鳄鱼(kulīpaya);为婆楼那取那克罗(nākra)之类。

24.22

सोमाय हꣳसान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् ॥ २४.२२ ॥

为苏摩取天鹅;为伐由取鹭(balākā);为因陀罗与阿耆尼取鹬类;为密多罗取水鸟(madgu);为婆楼那取赤麻鸭(cakravāka)。

24.23

अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् ॥ २४.२३ ॥

他为阿耆尼捉取库塔鲁鸟,为植物之主捉取猫头鹰,为阿耆尼与苏摩捉取恰沙鸟,为双马童捉取孔雀,为密多罗与伐楼那捉取鸽子。

24.24

सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान् ॥ २४.२४ ॥

他为苏摩捉取拉巴鸟,为特瓦斯塔捉取考利卡鸟,为诸神之妻捉取戈沙达动物,为神圣的亲族女捉取库利卡鸟,为家主阿耆尼捉取帕鲁什那动物。

24.25

अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान् ॥ २४.२५ ॥

他为白昼捉取巴拉瓦塔鸟,为黑夜捉取西恰普鸟,为昼夜交接处捉取贾图鸟,为月份捉取达提亚乌哈鸟,为伟大的年份捉取苏跋尔那鸟。

24.26

भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः ॥ २४.२६ ॥

他为大地捉取阿呼动物,为虚空捉取潘克塔动物,为天界捉取卡沙动物,为方位捉取猫鼬,为中间方位捉取巴布鲁卡动物。

24.27

वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान् ॥ २४.२७ ॥

他为婆薮神捉取里希耶鹿,为楼陀罗神捉取鲁鲁鹿,为阿底提耶神捉取尼扬库动物,为一切神捉取斑点鹿,为萨底耶神捉取库隆迦动物。

24.28

ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाꣳस् त्वष्ट्र ऽ उष्ट्रान् ॥ २४.२८ ॥

他为伊莎那献祭帕拉斯瓦特;为弥陀罗献祭高罗牛;为伐楼那献祭水牛;为布利哈斯帕蒂献祭野牛(gavaya);为特瓦斯多献祭骆驼。

24.29

प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीꣳश् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥ २४.२९ ॥

他为生主献祭人与象;为语言献祭普卢希;为视觉献祭蚊虫;为听觉献祭甲虫。

24.30

प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥ २४.३० ॥

为生主与风神献祭牛鹿;为伐楼那献祭野山羊;为阎摩献祭黑者;为人王献祭猴;为虎献祭赤鹿;为公牛献祭母野牛;为迅猛鹰献祭鹌鹑;为青身者献祭虫;为大海献祭海豚;为雪山献祭象。

24.31

मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदꣳशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः ॥ २४.३१ ॥

生主的摩由;猫头鹰、哈利克什那、维舍达姆沙归你;为达多献祭四方的康伽鸟;火神的敦克沙;卡拉温卡鸟;赤蛇;普什卡拉萨达归你;为特瓦斯多献祭言语的鹤。

24.32

सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥ २४.३२ ॥

为苏摩:鸟kulunga,林中山羊,獴,蜥蜴。为你(普善):豺,一种māyu,因陀罗的白鹿,pidva鸟,nyaṅku,螃蟹。为阿努玛提与普拉提什鲁特卡:遮克拉瓦卡鸟。

24.33

सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥ २४.३३ ॥

为太阳:鹤,鸟śārga,sṛjaya,śayāṇḍaka。为你(密特拉):为萨罗室伐蒂,八哥,能如人言者。为大地:śvāvit,虎,狼,pṛdāku。为摩尼与萨罗婆那:鹦鹉,能如人言者。

24.34

सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥ २४.३४ ॥

鹰,属于帕尔詹亚之鸟,āti,vāhasa,darvidā。为你(风神):为布里哈斯帕蒂、言语之主,黄褐鸟,alaja,空中鸟,潜鸟,madgu,鱼。为你(河流之主):属天地的龟。

24.35

पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हꣳसो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः ॥ २४.३५ ॥

人兽,月之巨蜥,kālaka,啄木鸟。为你(诸树):公鸡,萨维德里之天鹅,风神之鳄,摩迦罗,水中之物。为你(海洋):为羞耻之神诃利,shalpaka。

24.36

एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी ॥ २४.३६ ॥

白日之羚、蛙、鼠、鹧鸪属于你;蛇之狐、阿什温的黑者、夜之熊、蜥蜴、苏希利迦属于你;他人的耶哈迦,毗湿奴之女。

24.37

अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः ॥ २४.३७ ॥

半月之异播、鹿、孔雀、金翅鸟属于你;乾闼婆之、水之獭、月之龟、赤者、昆陀陀、戈拉提迦属于你;阿普萨拉斯之,属死亡的黑者。

24.38

वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः ॥ २४.३८ ॥

四季之降雨者、鼠、卡沙、曼塔拉属于你;祖灵之,为力量的蟒蛇;婆苏之迦宾阁罗、鸽、鸮、兔属于你;为涅利提、为伐楼那,野羊。

24.39

श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः ॥ २४.३९ ॥

阿底提耶之白者、骆驼、耀者、瓦尔德里纳萨属于你;为凡人、为林野,鹿、鹿、烈者、克瓦伊、库塔卢、达提耶乌哈属于你;为马之欲,杜鹃。

24.40

खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिꣳहो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः ॥ २४.४० ॥

犀牛属于毗湿奴天众;狗、黑者、耳有标记者、驴与鬣狗归你,属于罗刹;为因陀罗的是野猪、狮子、属于末鲁特的、变色龙、皮帕卡;鸟归你,为箭靶;斑点鹿属于诸神。