Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.1

देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा ॥ ९.१ ॥

啊,天神萨维特里,推动祭祀前行;为了福祉,推动祭主前行。愿天界的乾达婆,净化智慧者,净化我们的智慧;愿语主使我们的食物甘甜。娑婆诃。

9.2

ध्रुवसदं त्वा नृषदं मनःसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
अप्सुषदं त्वा घृतसदं व्योमसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
पृथिवीसदं त्वाऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥ ९.२ ॥

你坐于稳固之座,坐于人中,坐于心中:是你。你以升天器皿被取来;我取你,为因陀罗所爱。此乃你的位置,最为因陀罗所爱。你坐于水中,坐于酥油中,坐于天空中:是你。你以升天器皿被取来;我取你,为因陀罗所爱。此乃你的位置,最为因陀罗所爱。你坐于大地,坐于虚空,坐于天界,坐于诸神之中,坐于天国:是你。你以升天器皿被取来;我取你,为因陀罗所爱。此乃你的位置,最为因陀罗所爱。

9.3

अपाꣳ रसम् उद्वयसꣳ सूर्ये सन्तꣳ समाहितम् ।
अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् ।
उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥ ९.३ ॥

我为你们取水之精华,它升起并安居于太阳之中;即水之精华中的最上精华。你被升华之杯所取;为因陀罗,我取这可爱的你。这是你的座位;你最为因陀罗所喜爱。

9.4

ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् ।
तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जꣳ सम् अग्रभम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् ।
विपृचौ स्थो वि मा पाप्मना पृङ्क्तम् ॥ ९.४ ॥

诸杯与力之献,为灵感的智者寻求思想而游走;为你们这些族类所爱者,我一并取其食与力。你被升华之杯所取;为因陀罗,我取这可爱的你。这是你的座位;你最为因陀罗所喜爱。你们二者相合;使我与吉祥相合。你们二者相分;使我与罪恶相分。

9.5

इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजꣳ सेत् ।
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥ ९.५ ॥

你是因陀罗的金刚杵,赢得战利的;愿此人借你而得战利。今在战利之推动中,我们以名以言赞颂伟大的母亲阿底提,整个世界已入其中;愿神萨维德里在她之中为我们推动正法。

9.6

अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः ।
देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजꣳ सेत् ॥ ९.६ ॥

水中有甘露,水中有良药。在赞颂水的时候,愿马匹强健有力。神圣的水啊,你们那迅疾高涌的波浪,愿借此使这匹马赢得竞赛。

9.7

वातो वा मनो वा गन्धर्वाः सप्तविꣳशतिः ।
ते ऽ अग्रेऽ श्वम् अयुञ्जꣳस् ते ऽ अस्मिन् जवम् आदधुः ॥ ९.७ ॥

风或心,二十七位乾达婆最先驾上了马匹;他们在其中注入了速度。

9.8

वातरꣳहा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि ।
युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु ॥ ९.८ ॥

啊,马啊,愿你如风般迅疾,像被套上的因陀罗右马一样光彩焕发。愿全知的摩录多套上你;愿特瓦什特在你的足中安放速度。

9.9

जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते ।
तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः ।
वाजिनो वाजजितो वाजꣳ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥ ९.९ ॥

啊,马啊,那藏于洞中的你的速度,在隼中盘旋,在风中疾行——凭着这速度,啊马,为我们变得强健,成为赛跑的胜者,能在战斗中带我们渡过。啊,诸马,赛跑的胜者,以力量奔驰者,请享用布里哈斯帕蒂的一份。

9.10

देवस्याहꣳ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकꣳ रुहेयम् ।
देवस्याहꣳ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकꣳ रुहेयम् ।
देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् ।
देवस्याहꣳ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम् ॥ ९.१० ॥

在赐予真实策动的天神萨维特里的策动中,愿我升上布利哈斯帕蒂的至上天界。在萨维特里的策动中,愿我升上因陀罗的至上天界。在赐予真实策动的天神萨维特里的策动中,我升上了布利哈斯帕蒂的至上天界。在萨维特里的策动中,我升上了因陀罗的至上天界。

9.11

बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत ।
इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत ॥ ९.११ ॥

啊布利哈斯帕蒂,赢得战利;为布利哈斯帕蒂诵出言辞;使布利哈斯帕蒂赢得战利。啊因陀罗,赢得战利;为因陀罗诵出言辞;使因陀罗赢得战利。

9.12

एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् ।
एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम् ॥ ९.१२ ॥

这便是你们真实的和谐之言,借此使布利哈斯帕蒂赢得战利。啊树木们,释放战利吧。这便是你们真实的和谐之言,借此使因陀罗赢得战利。啊树木们,释放战利吧。

9.13

देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् ।
वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ॥ ९.१३ ॥

在神萨维特里的推动下,在真实受推动的布里哈帕蒂的得奖者之中,愿我赢得伐遮(力量、食物)。啊,快马,得奖者,守住道路、丈量由旬,抵达目标吧!

9.14

एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि ।
क्रतुं दधिक्रा ऽ अनु सꣳसनिष्यदत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् स्वाहा ॥ ९.१४ ॥

这匹快马奔向鞭子,颈上系着,腋下,口中。愿它追随达提克拉而获得力量;在道路的弯曲处,它嘶鸣。斯瓦哈。

9.15

उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।
श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा ॥ ९.१५ ॥

这匹奔跑、疾驰之马,如鸟之翼,后面吹来渴望的风。它如鹰扑下,环绕达提克拉的弯道;以其力,它是使人渡过者。斯瓦哈。

9.16

शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो हिं वृकꣳ रक्षासि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥ ९.१६ ॥

愿这些快马在呼唤中、神圣仪式中为我们带来安宁,它们奔跑有度,光彩熠熠;碾碎狼与罗刹,使疾病远离我们。

9.17

ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धनꣳ समिथेषु जभ्रिरे ॥ ९.१७ ॥

它们是我们的快马,听得见召唤。愿所有步伐均匀、强健的马都听见我们的呼唤。它们赐予千份,助人获得祭祀的智慧,渴望馈赠,并在争战中赢得大量财富。

9.18

वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ ९.१८ ॥

在每一场竞争中,诸位健壮者啊,请在我们的财富中护佑我们。诸位受灵感的智者、不死者、通晓秩序者,请饮这甜美的苏摩而欢喜;满足之后,沿着诸神的道路前行。

9.19

आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे ।
आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् ।
वाजिनो वाजजितो वाजꣳ ससृवाꣳसो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः ॥ ९.१९ ॥

愿力量之流来到我这里;愿这具有万般形态的天地来到我这里;愿父与母来到我这里;愿苏摩以不死来到我这里。诸位健壮的、赢得力量的、奔向力量的,请嗅闻布里哈斯帕提的份额,并净化自己。

9.20

आपये स्वाहा ।
स्वापये स्वाहा ।
ऽअपिजाय स्वाहा ।
क्रतवे स्वाहा ।
वसवे स्वाहा ।
ऽअहर्पतये स्वाहा ।
ऽअह्ने मुग्धाय स्वाहा ।
मुग्धाय वैनꣳशिनाय स्वाहा ।
विनꣳशिन ऽ आन्त्यायनाय स्वाहा ।
ऽऽअन्त्याय भौवनाय स्वाहा ।
भुवनस्य पतये स्वाहा ।
ऽअधिपतये स्वाहा ॥ ९.२० ॥

致Āpi,svāhā。致Svāpi,svāhā。致Apijāya,svāhā。致Kratu,svāhā。致Vasu,svāhā。致日之主,svāhā。致日,svāhā。致Mugdha,svāhā。致Mugdha Vainaṃśina,svāhā。致Vinaṃśin之裔Āntyāyana,svāhā。致Āntya,svāhā。致Bhauvana,svāhā。致世界之主,svāhā。致至上之主,svāhā。

9.21

आयुर् यज्ञेन कल्पताम् ।
प्राणो यज्ञेन कल्पताम् ।
चक्षुर् यज्ञेन कल्पताम् ।
श्रोत्रं यज्ञेन कल्पताम् ।
पृष्ठं यज्ञेन कल्पताम् ।
यज्ञो यज्ञेन कल्पताम् ।
प्रजापतेः प्रजा ऽ अभूम ।
स्वर्देवा ऽ अगन्म ।
अमृता ऽ अभूम ॥ ९.२१ ॥

愿寿命因祭祀而成就。愿气息因祭祀而成就。愿视力因祭祀而成就。愿听力因祭祀而成就。愿脊背因祭祀而成就。愿祭祀因祭祀而成就。我们成为生主(Prajāpati)的子民。我们到达了天上的诸神。我们成为了不死者。

9.22

अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाꣳसि सन्तु वः ।
नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै ।
ऽइयं ते राट् ।
यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ॥ ९.२२ ॥

愿你的力量归于我们,愿阳刚之力与决心归于我们;愿你的光辉归于我们。向母亲大地致敬,向母亲大地致敬。这是你的王权。你是统御者、约束者,你坚定,你是支撑者。为了耕作我取你,为了安康我取你,为了财富我取你,为了滋养我取你。

9.23

वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु ।
ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयꣳ राष्ट्रे जागृयाम पुरोहिताः स्वाहा ॥ ९.२३ ॥

这股力量的推动首先在草药中、在水中榨出了国王苏摩。愿它们对我们甘甜。愿我们作为祭司,在王国中保持警醒。斯瓦哈。

9.24

वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् ।
अदित्सन्तं दापयति प्रजानन् स नो रयिꣳ सर्ववीरं नि यच्छतु स्वाहा ॥ ९.२४ ॥

这股力量的推动已达天界与这一切世界。愿统御一切的王,使不肯施舍者施舍,知悉我们,赐予我们连同一切英勇子嗣的财富。斯瓦哈。

9.25

वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।
सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा ॥ ९.२५ ॥

如今这股力量的推动已然生起,这一切世界四面八方皆如此。知晓一切的苏涅米王绕行而行,为我们增长子孙与兴旺。斯瓦哈。

9.26

सोमꣳ राजानमवसेऽग्निमन्वारभामहे ।
आदित्यान् विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिꣳ स्वाहा ॥ ९.२६ ॥

为求庇护,我们迎请君王苏摩与阿耆尼;also 迎请阿提提耶、毗湿奴、苏利耶、梵天与布利哈斯帕提。娑婆诃。

9.27

अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
वाचं विष्णुꣳ सरस्वती सवितारं च वाजिनꣳ स्वाहा ॥ ९.२७ ॥

请激励阿利耶曼、布利哈斯帕提与因陀罗行施舍;也请激励言语、毗湿奴、萨拉斯瓦蒂、萨维塔与骏者。娑婆诃。

9.28

अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव ।
प्र नो यच्छ सहस्रजित्त्वꣳ हि धनदा ऽ असि स्वाहा ॥ ९.२८ ॥

阿耆尼啊,请在此与我们说话,对我们心怀善意。赐予我们吧,因为你是千胜者,是赐财者。娑婆诃。

9.29

प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः ।
प्र वाग् देवी ददातु नः स्वाहा ॥ ९.२९ ॥

愿阿利耶曼赐予我们,愿普善赐予,愿布利哈斯帕提赐予;愿女神言语赐予我们。娑婆诃。

9.30

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ ॥ ९.३० ॥

在天神萨维塔的推动下,借双马神的臂膀,借普善的双手,为制约语言之主萨拉斯瓦蒂,我立你为王。以布利哈斯帕提的王权为你灌顶——此人(所提名者)。

9.31

अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् ।
अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् ।
विष्णुस् त्र्यक्षरेण त्रीꣳल् लोकान् उद् अजयत् तान् उज् जेषम् ।
सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम् ॥ ९.३१ ॥

阿耆尼以一个音节胜过了气息;我把它重新赢回。双马童以两个音节胜过了两足的人类;我把他们重新赢回。毗湿奴以三个音节胜过了三界;我把它们重新赢回。苏摩以四个音节胜过了四足的牲畜;我把它们重新赢回。

9.32

पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् ।
सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् ।
मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयꣳस् तान् उज् जेषम् ।
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम् ॥ ९.३२ ॥

普利那以五个音节胜过了五方;我把它们重新赢回。萨维特里以六个音节胜过了六季;我把它们重新赢回。摩噜多以七个音节胜过了七种村畜;我把它们重新赢回。布里哈斯帕蒂以八个音节胜过了伽耶特利韵律;我把它重新赢回。

9.33

मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ।
वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् ।
इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् ।
विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयꣳस् ताम् उज् जेषम् ॥ ९.३३ ॥

密特拉以九音节格律赢得三重赞颂(triv-ṛt stoma);愿我也赢得它。伐楼那以十音节格律赢得维拉吉(virāj);愿我也赢得它。因陀罗以十一音节格律赢得特里式图普(triṣṭubh);愿我也赢得它。众天神以十二音节格律赢得耆迦提(jagatī);愿我也赢得它。

9.34

वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।
रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।
आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।
अदितिः षोडशाक्षरेण षोडशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ।
प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ॥ ९.३४ ॥

婆苏神以十三音节格律赢得十三重赞颂(trayodaśa stoma);愿我也赢得它。楼陀罗神以十四音节格律赢得十四重赞颂(caturdaśa stoma);愿我也赢得它。阿底提亚神以十五音节格律赢得十五重赞颂(pañcadaśa stoma);愿我也赢得它。阿底提以十六音节格律赢得十六重赞颂(ṣoḍaśa stoma);愿我也赢得它。生主以十七音节格律赢得十七重赞颂(saptadaśa stoma);愿我也赢得它。

9.35

एष ते निर्ऋते भागस् तं जुषस्व स्वाहा ।
ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा ।
यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा ।
विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा ।
मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा ।
सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा ॥ ९.३५ ॥

此乃你的份额,哦尼厘提,请接受。斯瓦哈。以阿耆尼为首、坐于东方的诸神,斯瓦哈。以阎摩为首、坐于南方的诸神,斯瓦哈。以毗首提婆为首、坐于西方的诸神,斯瓦哈。以密特拉-伐罗那或摩录多为首、坐于北方的诸神,斯瓦哈。以苏摩为首、坐于上方、值得侍奉的诸神,斯瓦哈。

9.36

ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा ।
ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा ।
ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा ।
ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा ।
ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा ॥ ९.३६ ॥

以阿耆尼为首、坐于东方的诸神,斯瓦哈。以阎摩为首、坐于南方的诸神,斯瓦哈。以毗首提婆为首、坐于西方的诸神,斯瓦哈。以密特拉-伐罗那或摩录多为首、坐于北方的诸神,斯瓦哈。以苏摩为首、坐于上方、值得侍奉的诸神,斯瓦哈。

9.37

अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य ।
दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि ॥ ९.३७ ॥

阿耆尼啊,征服敌军,驱逐仇敌!越过难以跨越的敌人,祭祀的承载者啊,赐予光辉。

9.38

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
उपाꣳशोर् वीर्येण जुहोमि हतꣳ रक्षः स्वाहा ।
रक्षसां त्वा वधाय ।
अवधिष्म रक्षोऽ वधिष्मामुम् असौ हतः ॥ ९.३८ ॥

在萨维特里神的推动下,以双Aśvin的臂膀、普善的双手,我取你。以奥杉舒的力量我献祭:被杀的罗刹。斯瓦哈。为杀灭罗刹,我取你。我们杀了罗刹,我们杀了他;那边那个已被杀死。

9.39

सविता त्वा सवानाꣳ सुवताम् अग्निर् गृहपतीना सोमो वनस्पतीनाम् ।
बृहस्पतिर् वाच ऽ इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥ ९.३९ ॥

愿萨维特里使你成为榨取祭的推动者;愿阿耆尼为家主之主,苏摩为树木之主。布里哈斯帕蒂为言语之主,因陀罗为长者之主;楼陀罗为牲畜之主,弥陀罗为真理之主,伐楼那为法主之主。

9.40

इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणाना राजा ॥ ९.४० ॥

诸神啊,使此人无敌地被推动,以求大刹帝利之权、大长者之位、大民众王权,以及因陀罗之力。立他为此民之王,那人之子,那人之女之子;此人是你们的王——苏摩,我们婆罗门的王。