夜柔吠陀 · 章(Adhyāya) 6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
शुन्धन्तां लोकाः पितृषदनाः ।
पितृषदनम् असि ॥ ६.१ ॥
在保育者萨维德里神的推动下,以双阿输钦之臂、以普善之手,我拿起你。你是女性。此处我也斩断罗刹的颈项。你是大麦;使憎恨远离我们,使敌人远离。为天界而用你,为虚空而用你,为大地而用你。愿作为祖先座位的诸世界得到净化。你是祖先的座位。
6.2
अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति ।
देवस् त्वा सविता मध्व् आनक्तु ।
सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीः ॥ ६.२ ॥
你是领先者,自入其位,为升举者之首;凭此所得,他将立于你之上。愿神萨维德里以蜜涂抹你。为结好果的草木,用你。你从前方触及天界,从中间充满虚空,从上方坚固大地。
6.3
या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः ।
अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि ।
ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥ ६.३ ॥
我们所渴望的那些住所,多角、不疲倦的牛群所去之处,那里正是广步的毗湿奴的至高之位;它被大大地承载着。能赢得梵、赢得刹帝利、赢得财富与滋养的你,我将你环绕牵引。使梵坚固,使刹帝利坚固,使寿命坚固,使后代坚固。
6.4
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥ ६.४ ॥
看毗湿奴的业绩,他由此觉察到圣戒;他是因陀罗的同轭伴侣与朋友。
6.5
तद् विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम् ॥ ६.५ ॥
智者总是见到毗湿奴的那至高之位,如同展开在天空中的眼睛。
6.6
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानꣳ रायो मनुष्याणाम् ।
दिवः सूनुर् असि ।
एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः ॥ ६.६ ॥
你是环绕者。愿神圣的众民环绕你;愿这位施祭者连同人间的财富也被环绕。你是天之子。这是你在地上的世界;你的牲畜生于森林。
6.7
उपावीर् असि ।
उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् ।
देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम् ॥ ६.७ ॥
你是使接近者。使神圣的众民接近诸神;引导乌希遮祭司,即最善于奉持祭品者向前。神圣的特沃斯图啊,在财富中欢喜吧;愿你的祭品被品尝。
6.8
रेवती रमध्वं बृहस्पते धारया वसूनि ।
ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥ ६.८ ॥
诸位富饶者,请欢喜吧!布哈斯帕蒂啊,以水流赐予财富。作为诸神之供物的正理(ṛta),我以绳索缚住你。勇敢的人啊!
6.9
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अग्नीषोमाभ्यां जुष्टं नि युनज्मि ।
अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ।
अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥ ६.९ ॥
在神萨维特里的推动下,以双马童之臂与普山之手,我缚住你。你为阿耆尼与苏摩所爱,我将你分出安置。愿水与草木应许你;愿母、父、同胎兄弟与同群伴侣都认可你。你为阿耆尼与苏摩所爱,我洒水于你。
6.10
अपां पेरुर् असि ।
आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः ।
सं ते प्राणो वातेन गच्छताꣳ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा ॥ ६.१० ॥
你是众水之器。愿神圣的水品尝它;愿这献给诸神的供物确实被善加接受。愿你的气息与风相合;愿你的肢体与当受供奉的诸神相合;愿祭主与祝福相合。
6.11
घृतेनाक्तौ पशूँस् त्रायेथा ।
रेवति यजमाने प्रियं धा ऽ आ विश ।
उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव ।
वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः ।
स्वाहा देवेभ्यः ।
देवेभ्यः स्वाहा ॥ ६.११ ॥
以酥油涂抹的你们二者,守护牲畜。富饶者啊,将可爱之物置于施祭者之中;来到此处。从广阔的中间空间,与神风一同,以此供物之自我而祭;以全身同在。在最强大的祭祀中,确立施祭者。斯瓦哈,献给诸神。斯瓦哈,献给诸神。
6.12
माहिर् भूर् मा पृदाकुः ।
नमस् तऽ आतानानर्वा प्रेहि ।
घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु ॥ ६.१२ ॥
不要成为蛇,也不要成为咬人的生物。向你致敬;伸展的马啊,沿着真理之路,前往酥油的渠道。
6.13
देवीर् आपः शुद्धा वोढ्वꣳ सुपरिविष्टा देवेषु ।
सुपरिविष्टा वयं परिवेष्टारो भूयास्म ॥ ६.१३ ॥
神圣的水啊,纯净的你们应当被携带,在诸神之中被妥善环绕。愿我们也成为善于环绕者。
6.14
वाचं ते शुन्धामि ।
प्राणं ते शुन्धामि ।
चक्षुस् ते शुन्धामि ।
श्रोत्रं ते शुन्धामि ।
नाभिं ते शुन्धामि ।
मेढ्रं ते शुन्धामि ।
पायुं ते शुन्धामि ।
चरित्राꣳस् ते शुन्धामि ॥ ६.१४ ॥
我净化你的言语。我净化你的气息。我净化你的眼睛。我净化你的耳朵。我净化你的肚脐。我净化你的生殖器。我净化你的肛门。我净化你的肢体。
6.15
मनस्तऽ आ प्यायताम् ।
वाक् तऽ आ प्यायताम् ।
प्राणस् तऽ आ प्यायताम् ।
चक्षुस्तऽ आ प्यायताम् ।
श्रोत्रं तऽ आ प्यायताम् ।
यत् ते क्रूरं यद् आस्थितं तत् त ऽआ प्यायतां निष्ट्यायतां तत् ते शुध्यतु ।
शम् अहोभ्यः ।
ओषधे त्रायस्व ।
स्वधिते मैनꣳ हिꣳसीः ॥ ६.१५ ॥
愿你的意念得到滋养,愿你的言语得到滋养,愿你的气息得到滋养,愿你的眼睛得到滋养,愿你的耳朵得到滋养。愿你身上坚硬之处和凝结之处得到滋养并完全恢复;愿那对你得到净化。愿诸日吉祥。草药啊,请守护。斧头啊,不要伤害他。
6.16
रक्षसां भागो ऽसि ।
निरस्तꣳ रक्षः ।
ऽ इदम् अहꣳ रक्षोऽ भितिष्ठामीदम् अहꣳ रक्षोऽ व बाधऽ इदम् अहꣳ रक्षो ऽधमं तमो नयामि ।
घृतेन द्यावापृथिवी प्रोर्णुवाथाम् ।
वायो वे स्तोकानाम् ।
अग्निर् आज्यस्य वेतु स्वाहा ।
स्वाहाकृते ऽ ऊर्ध्वनभसं मारुतं गच्छतम् ॥ ६.१६ ॥
你是诸罗刹的份额。罗刹已被驱逐。我站立于此罗刹之上,我确实驱逐此罗刹,我将此罗刹引入最低的黑暗之中。以酥油遮盖天与地。哦风神,你属于那些滴露。愿阿耆尼享用澄清酥油,斯瓦哈。以斯瓦哈奉献,去往高天的摩录多。
6.17
इदम् आपः प्रवहतावद्यं च मलं च यत् ।
यच् चाभिदुद्रोहानृतं यच् च शेपे ऽ अभीरुणम् ।
आपो मा तस्माद् एनसः पवमानश् च मुञ्चतु ॥ ६.१७ ॥
愿这些水冲走过失与污秽,冲走我所欺骗的谎言,以及我欺诈所发的誓言。诸水啊,请使我脱离那罪;愿净化者(Pavamāna)也使我解脱。
6.18
सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् ।
रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रꣳह्या ऽ ऊष्मणो व्यथिषत् ।
प्रयुतं द्वेषः ॥ ६.१८ ॥
愿你的心与心相合,你的气息与气息相合。你是芦苇;愿阿耆尼使你成熟,愿诸水将你连结;为了风的迅疾与普善的速度,愿敌意远离热力而散去。
6.19
घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा ।
दिशः ।
प्रदिशः ।
ऽ आदिशः ।
विदिशः ।
ऽ उद्दिशः ।
दिग्भ्यः स्वाहा ॥ ६.१९ ॥
饮酥油者,饮酥油吧;饮脂肪者,饮脂肪吧。你是虚空的祭品,娑訶。献给方位,献给次方位,献给近方位,献给旁方位,献给上方位——献给方位,娑訶。
6.20
ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः ।
देव त्वष्टर् भूरि ते सꣳ-समेतु सलक्ष्मा यद् विषुरूपं भवाति ।
देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥ ६.२० ॥
因陀罗的气息在每一肢体中闪耀;因陀罗的上行气息安立于每一肢体中。神圣的特瓦什特里啊,愿你众多的部分聚合;愿形态各异者成为一致。走向诸神的朋友们,为了护佑;愿母亲与父亲随你而欢喜。
6.21
समुद्रं गच्छ स्वाहा ।
ऽ अन्तरिक्षं गच्छ स्वाहा ।
देवꣳ सवितारं गच्छ स्वाहा ।
मित्रावरुणौ गच्छ स्वाहा ।
ऽ अहोरात्रे गच्छ स्वाहा ।
छन्दाꣳसि गच्छ स्वाहा ।
द्यावापृथिवी गच्छ स्वाहा ।
यज्ञं गच्छ स्वाहा ।
सोमं गच्छ स्वाहा ।
दिव्यं नभो गच्छ स्वाहा ।
अग्निं वैश्वानरं गच्छ स्वाहा ।
मनो मे हार्दि यच्छ ।
दिवं ते धूमो गच्छतु स्वर् ज्योतिः पृथिवीं भस्मना पृण स्वाहा ॥ ६.२१ ॥
前往大海,svāhā。前往虚空,svāhā。前往天神萨维特里,svāhā。前往密特拉与伐楼那,svāhā。前往昼与夜,svāhā。前往诸韵律,svāhā。前往天与地,svāhā。前往祭祀,svāhā。前往苏摩,svāhā。前往天界虚空,svāhā。前往毗舍婆那火神,svāhā。把我的心意留在心中。愿你的烟升向天界;化为光明,以灰烬充满大地,svāhā。
6.22
मापो मौषधीर् हिꣳसीः ।
धाम्नो-धाम्नो राजꣳस् ततो वरुण नो मुञ्च ।
यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ६.२२ ॥
不要伤害水和草木。从每一处,王啊,婆楼那,解救我们。因为人们说“不可伤害”,我们以婆楼那起誓;因此,婆楼那啊,解救我们。愿水与草木对我们友善,对憎恨我们的人和我们所憎恨的人则成为敌人。
6.23
हविष्मतीर् इमा ऽ आपो हविष्माꣳ२ ऽ आ विवासति ।
हविष्मान् देवो ऽ अध्वरो हविष्माꣳ२ ऽ अस्तु सूर्यः ॥ ६.२३ ॥
这些水富有祭品;他侍奉富有祭品的水。愿献祭之神富有祭品;愿太阳富有祭品。
6.24
अग्नेर्वोऽ पन्नगृहस्य सदसि सादयामि ।
इन्द्राग्न्योर् भागधेयी स्थ ।
मित्रावरुण्योर् भागधेयी स्थ ।
विश्वेषां देवानां भागधेयी स्थ ।
अमूर् या ऽ उप सूर्ये याभिर् वा सूर्यः सह ।
ता नो हिन्वन्त्व् अध्वरम् ॥ ६.२४ ॥
我将你们安置在阿耆尼的隐火之家的坐席上。你们是因陀罗与阿耆尼的份额;你们是密多罗与婆楼那的份额;你们是一切诸神的份额。愿那些靠近太阳、与太阳相连的,推动我们的祭祀。
6.25
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यच्छ ॥ ६.२५ ॥
为了心,我取你;为了意,我取你;为了天,我取你;为了太阳,我取你。将此祭祀向上举起;在天上诸神之中举起供奉。
6.26
सोम राजन् विश्वास् त्वं प्रजा ऽ उपाव रोह ।
विश्वास् त्वां प्रजा उपाव रोहन्तु ।
शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः ।
श्रोता ग्रावाणो विदुषो न यज्ञꣳ शृणोतु देवः सविता हवं मे स्वाहा ॥ ६.२६ ॥
苏摩王啊,你升于一切众生之上。愿一切众生升于你之上。愿阿耆尼以柴薪听我的呼唤;愿神圣的水与地神们听闻。如智者听闻祭祀,愿压榨石听闻;愿天神萨维德里听我的呼唤。斯瓦哈。
6.27
देवीर् आपो ऽ अपां नपाद् यो व ऽ ऊर्मिर् हविष्य ऽ इन्द्रियावान् मदिन्तमः ।
तं देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषां भाग स्थ स्वाहा ॥ ६.२७ ॥
神圣的水啊,水之子,你们的波浪适于供奉、充满力量、最令人陶醉——将它给予诸神,在诸神之中给予饮用清净者,他们的分享即是你们。斯瓦哈。
6.28
कार्षिर् असि ।
समुद्रस्य त्वाक्षित्या ऽ उन् नयामि ।
सम् आपो ऽ अद्भिर् अग्मत सम् ओषधीभिर् ओषधीः ॥ ६.२८ ॥
你是卡尔什。为了不灭,我从海洋中将你举起。水与水相合;草药与草药相合。
6.29
यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीर् इषः स्वाहा ॥ ६.२९ ॥
阿耆尼啊,你在战斗中保护、在竞赛中激励的凡人,愿他成为永恒愿望的引导者。斯瓦哈。
6.30
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे रावासि गभीरम् इमम् अध्वरं कृधीन्द्राय सुषूतमम् ।
उत्तमेन पविनोर्जस्वन्तं मधुमन्तं पयस्वन्तम् ।
निग्राभ्या स्थ देवश्रुतस् तर्पयत मा ॥ ६.३० ॥
在仙主萨维德里的推动下,以双阿输昕之臂与普善之手,我取你。你深沉;使此祭祀为因陀罗充分压榨。以最上的滤器使之有力、甘美、富含乳汁。你们二位止者,为诸神所闻,愿使我欢喜。
6.31
मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे मा वितृषन् ॥ ६.३१ ॥
使我的心意欢喜,使我的言语欢喜,使我的气息欢喜,使我的眼睛欢喜,使我的听觉欢喜,使我的自我欢喜,使我的子嗣欢喜,使我的牲畜欢喜,使我的众伴欢喜;愿我的众伴不渴。
6.32
इन्द्राय त्वा वसुमते रुद्रवते ।
ऽ इन्द्राय त्वादित्यवते ।
ऽ इन्द्राय त्वाभिमातिघ्ने ।
श्येनाय त्वा सोमभृते ।
ऽ अग्नये त्वा रायस्पोषदे ॥ ६.३२ ॥
为拥有财富的因陀罗,我取你;为与楼陀罗们同在的因陀罗,我取你;为与阿提提亚们同在的因陀罗,我取你;为击杀敌人的因陀罗,我取你;为承载苏摩的鹰,我取你;为增益财富的阿耆尼,我取你。
6.33
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे ।
तेनास्मै यजमानायोरु राये कृध्य् अधि दात्रे वोचः ॥ ६.३३ ॥
苏摩啊,你在天上、地上与广阔虚空中的光明,愿借此为这位祭主增添广大的财富,并为施主说吉祥之言。
6.34
श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः ।
ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥ ६.३४ ॥
你们是光明者,击败弗栗多者,迅速赐予财富,是不死者的妻子。被召请的女神们,把此祭引向诸神;请饮苏摩。
6.35
मा भेर् मा सं विक्था ऽ ऊर्जं धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जं दधाथाम् ।
पाप्मा हतो न सोमः ॥ ६.३५ ॥
不要害怕,不要散乱;啊,禔舍那,持守力量。坚定而使之坚定,安置力量;罪恶已被打倒,苏摩并未被毁。
6.36
प्राग् अपाग् उदग् अधराक् सर्वतस् त्वा दिश ऽ आ धावन्तु ।
अम्ब नि ष्पर सम् अरीर् विदाम् ॥ ६.३६ ॥
从东、南、北与下方,愿一切方向奔向你。啊母亲,把敌人向下驱散;愿我们完全找到敌人。
6.37
त्वम् अङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् ।
न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ ६.३७ ॥
朋友,你是神,至为强大,你赞美有死之人。慷慨者啊,除你之外并无他人仁慈;因陀罗,我向你说这句话。