夜柔吠陀 · 章(Adhyāya) 28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
28.1
होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि ।
दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज ॥ २८.१ ॥
愿呼唤祭司以薪柴在伊达之位、大地之脐处礼敬因陀罗。愿他在天之高处燃起。最为强壮、征服众族者,愿他享用酥油。呼唤祭司啊,献祭吧!
28.2
होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् ।
इन्द्रं देवꣳ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशꣳसेन तेजसा वेत्व् आज्यस्य होतर् यज ॥ २८.२ ॥
愿呼唤祭司以诸护佑礼敬坦努那帕特、征服者因陀罗、不可战胜者、寻得天光之神,循最甘甜之道,以那拉沙姆萨之光辉。愿他享用酥油。呼唤祭司啊,献祭吧!
28.3
होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् ।
देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्व् आज्यस्य होतर् यज ॥ २८.३ ॥
愿呼唤祭司以祭品礼敬因陀罗——被赞颂、被呼请、不死者。与诸神同等威力、手执金刚、摧毁城堡之神,愿他享用酥油。呼唤祭司啊,献祭吧!
28.4
होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् ।
वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज ॥ २८.४ ॥
愿呼唤祭司在吉祥草座上礼敬因陀罗——最善端坐者、如公牛者、精通男子之业者。与众婆苏、楼陀罗、阿底提亚良好相连,愿他坐于吉祥草上。愿他享用酥油。呼唤祭司啊,献祭吧!
28.5
होता यक्षद् ओजो न वीर्यꣳ सहो द्वार ऽ इन्द्रम् अवर्धयन् ।
सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज ॥ २८.५ ॥
愿呼唤祭司行祭。如力量、英勇之力与威能,诸门增长了因陀罗。愿此祭中坦途开启;愿增益天则(ṛta)之门为慷慨的因陀罗开启。啊,呼唤祭司,以酥油行祭!
28.6
होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही ।
सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज ॥ २८.६ ॥
愿呼唤祭司行祭。献给晨曦与因陀罗的两头大乳牛——易于挤奶、光辉相等的母牛,愿小牛增益因陀罗。愿她们享用酥油。啊,呼唤祭司,行祭吧!
28.7
होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः ।
कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज ॥ २८.७ ॥
愿呼唤祭司行祭。两位神圣的呼唤者、两位医师、两位朋友,以供物为因陀罗治疗。两位诗人、两位神,有智慧者,愿他们为因陀罗安置感官之力。愿他们享用酥油。啊,呼唤祭司,行祭吧!
28.8
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः ।
इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज ॥ २८.८ ॥
愿呼唤祭司行祭。三位女神,如同良药;三位具三重本质的活跃者:伊达(Iḍā)、萨拉斯瓦蒂(Sarasvatī)与伟大的婆罗提(Bhāratī)。因陀罗的妃子们,富于供物者,愿她们享用酥油。啊,呼唤祭司,行祭吧!
28.9
होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजꣳ सुयजं घृतश्रियम् ।
पुरुरूपꣳ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज ॥ २८.९ ॥
愿荷塔(hotṛ)祭礼敬供特瓦什特里与因陀罗,他是医者,易于供奉,以酥油生辉,形相众多,种子优良,乐于布施。愿特瓦什特里为因陀罗安置诸根之力。荷塔啊,受用酥油并行祭祀吧。
28.10
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं धियो जोष्टारम् इन्द्रियम् ।
मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज ॥ २८.१० ॥
愿荷塔祭礼敬供林主(Vanaspati),他是屠宰者,具百种力量,因思维的祈祷而欢喜,且有大力。愿他以蜜涂抹,循顺畅之道,以蜜与酥油使祭祀甘甜。荷塔啊,受用酥油并行祭祀吧。
28.11
होता यक्षद् इन्द्रꣳ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् ।
स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज ॥ २८.११ ॥
愿荷塔祭礼敬供因陀罗。酥油啊,娑婆诃!脂肪啊,娑婆诃!滴露啊,娑婆诃!娑婆诃之供物啊,娑婆诃!供献颂歌啊,娑婆诃!娑婆诃!愿饮酥油的诸天欢喜,因陀罗受用酥油。荷塔啊,行祭吧。
28.12
देवं बर्हिर् इन्द्रꣳ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् ।
वस्तोर् वृतं प्राक्तोर् भृतꣳ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज ॥ २८.१२ ॥
神Barhis与善神一道,以铺在祭坛上的吉祥草增强了有勇士的因陀罗。自晨曦之域而来,充满财富,它超越了Barhiṣmat的财富。愿他为获取财富与赐予福祉而接受;献祭。
28.13
देवीर् द्वार ऽ इन्द्रꣳ संघाते वीड्वीर् यामन्न् अवर्धयन् ।
आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणꣳ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥ २८.१३ ॥
神女之门在相会时增强了因陀罗,强者在行进中。愿他们与牛犊、少年和童子一同驱除遥远隐秘者与尘坑。愿他们为获取财富与赐予福祉而接受;献祭。
28.14
देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् ।
दैवीर् विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥ २८.१४ ॥
女神晨曦与夜晚在祭祀中呼唤因陀罗。神圣的族群已启程;愿其欢喜且稳固。愿他们为获取财富与赐予福祉而享用;献祭。
28.15
देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् ।
अयाव्य् अन्याघा द्वेषाꣳस्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥ २८.१५ ॥
女神Joṣṭrī与Vasudhitī增强了神因陀罗。一位驱除无害者,另一位驱除恶与敌意;她们带来财富与可欲之物,赐予祭祀者。愿她们为获取财富与赐予福祉而享用;献祭。
28.16
देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् ।
इषमूर्जम् अन्या वक्षत् सग्धिꣳ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥ २८.१६ ॥
愿两位女神乌尔贾胡提以乳挤奶,以乳增益因陀罗。愿一位带来食物与力量,另一位带来共享与共饮;以新施于旧,以旧容纳新。愿她们享用婆苏婆那的宝藏,它赐予祭主财富与所欲之物。祭祀。
28.17
देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् ।
हताघशꣳसाव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥ २८.१७ ॥
愿二神与女神、二位呼唤者(荷塔)增益因陀罗。愿两位哈塔伽沙诃(Hatāghaśaṃsa)带来;愿他们享用婆苏婆那的宝藏,它赐予祭主财富与所欲之物。祭祀。
28.18
देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् ।
अस्पृक्षद् भारती दिवꣳ रुद्रैर् यज्ञꣳ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज ॥ २८.१८ ॥
三位女神增益其夫因陀罗。愿婆罗提与楼陀罗们一同触及天界与祭祀;愿萨罗室伐底、伊达与婆苏摩蒂抵达家宅。愿她们享用婆苏婆那的宝藏。祭祀。
28.19
देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् ।
शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥ २८.१९ ॥
诸神 Indra、Narāśaṃsa、Trivarūtha 与 Tribandhura 增强了神 Indra。他与百头千头白背之牲一同被设立而前行。愿 Mitra 与 Varuṇa 承担 hotṛ 之职,Bṛhaspati 承担值得者之颂,Aśvin 承担 adhvaryu 之职。为财富林中的 vasudheya 祭,愿他享用。Yaja。
28.20
देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् ।
दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृꣳहद् वसुवने वसुधेयस्य वेतु यज ॥ २८.२० ॥
神 Vanaspati 与诸神,金叶、蜜枝、善果,增强了神 Indra。向前他触及天界;使虚空与大地坚固。为财富林中的 vasudheya 祭,愿他享用。Yaja。
28.21
देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् ।
स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीꣳष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज ॥ २८.२१ ॥
vāritī 的神圣草(barhis)增强了神 Indra。与 Indra 安坐一处、相近而立,它转向其他的圣草。为财富林中的 vasudheya 祭,愿他享用。Yaja。
28.22
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् ।
स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥ २८.२२ ॥
神阿耆尼(Agni),善供者,使神因陀罗壮大。愿他今日为我们行善祭;为获得财富,愿他享用赐予财富的祭祀。献祭。
28.23
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् ।
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन ।
अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
त्वाम् अद्य ऽ ऋष ॥ २८.२३ ॥
施主今日选定阿耆尼为祭司;烹煮,烹煮各份,缚祭饼,为因陀罗献山羊。今日善立的树神与因陀罗之山羊相合。他烹煮并取脂肪,以祭饼增强。今日于你,先知……
28.24
होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् ।
गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ २८.२४ ॥
愿祭司向阿耆尼献祭,他以大光荣而善燃,最为殊胜,赐予活力;亦向因陀罗献祭。愿他享用,赐予伽耶特里韵律、力量、三岁母羊与牛、活力。酥油的祭司啊,献祭。
28.25
होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् ।
उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ २८.२५ ॥
愿祭司祭祀Tanūnapāt——阿底提以纯净胎儿孕育之者——以及赐予活力的因陀罗。以 uṣṇih韵律、生命之力、两岁的负载者与母牛,愿他赐予活力并享用酥油。啊,祭司,行祭!
28.26
होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यꣳ सहः सोमम् इन्द्रꣳ वयोधसम् ।
अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ २८.२६ ॥
愿祭司以赞歌供奉那值得赞颂、被赞颂、最能杀灭弗栗多者,并供奉力量被赞颂的苏摩,以及赐予活力的因陀罗。以anuṣṭubh韵律、生命之力、五岁的负载者与母牛,愿他赐予活力并享用酥油。啊,祭司,行祭!
28.27
होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यꣳ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् ।
बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ २८.२७ ॥
愿祭司祭祀铺满圣草的Subarhis——伴随Pūṣan、不死、坐于可爱圣草之上者——以及赐予活力的因陀罗。以bṛhatī韵律、生命之力、三岁的负载者与母牛,愿他赐予活力并享用酥油。啊,祭司,行祭!
28.28
होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् ।
पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥ २८.२८ ॥
愿祭司礼敬广阔、易于通达、增进天则的神圣金门;愿礼敬作为梵的因陀罗,赐予活力者。在Paṅkti韵律中,此处,愿他们接受生命力,即带有四岁公牛的母牛,赐予活力者。酥油的祭司,献祭吧!
28.29
होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् ।
त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥ २८.२९ ॥
愿祭司礼敬那两位伟大、形貌美好、巧妙造就的夜与晨光,它们从不隐没;愿礼敬因陀罗,赐予众生活力者。在Triṣṭubh韵律中,此处,愿他们接受生命力,即带有六岁公牛的母牛,赐予活力者。酥油的祭司,献祭吧!
28.30
होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् ।
जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥ २८.३० ॥
愿祭司礼敬那两位智者、诸神至高的光荣、那两位神圣的祭司、并驾齐驱的两位诗人;愿礼敬因陀罗,赐予活力者。在Jagatī韵律中,此处,愿他们接受生命力,即带有公牛的母牛,赐予活力者。酥油的祭司,献祭吧!
28.31
होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् ।
विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥ २८.३१ ॥
愿祭司礼拜盛饰的三位金色女神——婆罗提、勃里诃提与摩诃,以及赐予活力的主宰因陀罗。愿毗罗阇韵律、此处的生命力,以及如牛与乳牛般赐予寿命者欢喜。祭司啊,以酥油献祭。
28.32
होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनꣳ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् ।
द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ २८.३२ ॥
愿祭司礼拜善种者、增益养料、变化多样形相的特瓦什特里,以及赐予活力的因陀罗。愿双足韵律、此处的生命力,以及如公牛与牛般赐予寿命者欢喜。祭司啊,以酥油献祭。
28.33
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुꣳ हिरण्यपर्णम् उक्थिनꣳ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् ।
ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ २८.३३ ॥
愿祭司礼拜林中之主伐那婆提、祭献者、具百力者、金叶者、颂诗之主、持绳者、制御者薄伽,以及赐予活力的因陀罗。愿俱句韵律、此处的生命力,以及如不育牛与良牛般赐予寿命者欢喜。祭司啊,以酥油献祭。
28.34
होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् ।
अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥ २८.३४ ॥
愿呼唱者以娑婆诃供奉家主阿耆尼,分别供奉伐楼那、医药、诗人、刹帝利之力,以及赐予力量的因陀罗。愿赋予超越韵律、韵律、生命力、广大、公牛、母牛与活力者享用酥油。呼唱者啊,献祭吧。
28.35
देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् ।
गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥ २८.३५ ॥
神巴尔希斯,赐予活力之神,增长了因陀罗。以伽耶特里韵律,在因陀罗中安立生命力、眼目与活力,愿他享用得财林的赐财。献祭吧。
28.36
देवीर् द्वारो वयोधसꣳ शुचिम् इन्द्रम् अवर्धयन् ।
उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥ २८.३६ ॥
神圣之门增长了纯净的赐力者因陀罗。以乌什尼赫韵律,在因陀罗中安立生命力、气息与活力,愿他们享用得财林的赐财。献祭吧。
28.37
देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥ २८.३७ ॥
愿女神晨曦与夜晚增长赐力之神因陀罗。以阿努什图布韵律,在因陀罗中安立生命力、力量与活力,愿他享用得财林的赐财。献祭吧。
28.38
देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
बृहत्या छन्दसेन्द्रियꣳ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥ २८.३८ ॥
愿二位女神,即令人喜悦、赐予财富者,增强赐予活力的天神因陀罗。以布里哈蒂韵律,将感官之力与听觉置于因陀罗之中,将活力置于因陀罗之中,愿她们享受为获取财富而赐予的财富。献祭(yaja)。
28.39
देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
पङ्क्त्या छन्दसेन्द्रियꣳ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥ २८.३९ ॥
愿二位女神,即滋养之供物、挤奶者与善挤奶者,以乳汁增强赐予活力的天神因陀罗。以般吉韵律,将感官之力与光辉置于因陀罗之中,将活力置于因陀罗之中,愿她们享受为获取财富而赐予的财富。献祭(yaja)。
28.40
देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् ।
त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥ २८.४० ॥
愿二位神圣的祭司(hotṛ)、诸神,增强赐予活力的天神因陀罗。以特里史图布韵律,将感官之力与光辉置于因陀罗之中,将活力置于因陀罗之中,愿他们享受为获取财富而赐予的财富。献祭(yaja)。
28.41
देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् ।
जगत्या छन्दसेन्द्रियꣳ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥ २८.४१ ॥
三位女神、三位女神增强了赐予活力的主宰因陀罗。以耆伽提韵律,将感官之力与力量置于因陀罗之中,将活力置于因陀罗之中,愿她们享受为获取财富而赐予的财富。献祭(yaja)。
28.42
देवो नराशꣳसो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
विराजा छन्दसेन्द्रियꣳ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥ २८.४२ ॥
神那罗阿希桑萨增强了赐予活力的神因陀罗。以毗罗阇韵律,在因陀罗中安置生命力与形体,以及力量,为赐予财富、确立宝藏,愿他享用。祭。
28.43
देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥ २८.४३ ॥
神婆那波提增强了赐予活力的神因陀罗。以双足韵律,在因陀罗中安置生命力与吉运,以及力量,为赐予财富、确立宝藏,愿他享用。祭。
28.44
देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् ।
ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥ २८.४४ ॥
门神的神祭草增强了赐予活力的神因陀罗。以卡古布韵律,在因陀罗中安置生命力与荣耀,以及力量,为赐予财富、确立宝藏,愿他享用。祭。
28.45
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥ २८.४५ ॥
神阿耆尼,善成供品者,增强了赐予活力的神因陀罗。以阿提唐达斯韵律,在因陀罗中安置生命力与王权,以及力量,为赐予财富、确立宝藏,愿他享用。祭。
28.46
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् ।
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन ।
अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
त्वाम् अद्य ऽ ऋष ॥ २८.४६ ॥
今日此施主选择阿耆尼为祭司;烹煮、捆绑补罗陀舍,为赐予活力的因陀罗献上山羊。今日植物神为赐予活力的因陀罗与山羊一同安立。他击打脂肪,烹煮它;以补罗陀舍使其增长。今日于你……