Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

27.1

समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः ॥ २७.१ ॥

阿耆尼啊,愿季节、岁月以及真实的仙人使你增长。以天界的光辉照耀吧,照亮四方。

27.2

सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।
मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये ॥ २७.२ ॥

阿耆尼啊,充分燃烧并唤醒他;为了伟大的福祉而起立。愿你近侍无所伤害;阿耆尼啊,愿你的婆罗门得享荣耀,而非他人。

27.3

त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः ।
सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥ २७.३ ॥

阿耆尼啊,这些婆罗门选择了你。阿耆尼啊,在这围栏中为我们吉祥吧。成为我们敌对者的摧毁者与仇敌的征服者;在我们自己的家园中不停地守护。

27.4

इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः ॥ २७.४ ॥

就在此处,阿耆尼啊,以你的水流赐予财富。愿从前建造火坛者与加害者不要将你击倒。阿耆尼啊,愿你的力量易于驾驭;愿你的近侍无害而兴旺。

27.5

क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥ २७.५ ॥

啊阿耆尼,以力量聚合你的善寿;啊阿耆尼,在友谊之处与朋友努力。在族人之间成为中间人;啊阿耆尼,在诸王之中值得被呼唤,在此照耀。

27.6

अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने ।
विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः ॥ २७.६ ॥

啊阿耆尼,越过暗藏的怨恨,越过攻击,越过愚昧,越过敌意。啊阿耆尼,战胜一切灾难;然后赐予我们连同英勇之子的财富。

27.7

अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह ।
विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे ॥ २७.७ ॥

啊阿耆尼,不可侵犯的全知者,不可征服者,光耀的统治者,持王权者,请在此照耀。从四方解脱人间的恐惧,今日与吉祥者一同护佑我们以得增长。

27.8

बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि ।
वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः ॥ २७.८ ॥

啊布里哈斯帕蒂,啊萨维塔尔,唤醒他;把已磨利者再好好磨利。使他增长以获大福;愿诸神皆因他而欢喜。

27.9

अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः ।
प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥ २७.९ ॥

从远方之世,当你,啊布里哈斯帕蒂,将他从阎摩的诅咒中释放时;愿双马童从他那里逐退死亡。啊阿耆尼,以诸神之医者的身份,凭你的力量。

27.10

उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ २७.१० ॥

我们超越黑暗,望见上方的天界之光,在诸神中到达了神圣的太阳,至上之光。

27.11

ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥ २७.११ ॥

他的柴薪高高升起;阿耆尼明亮的火焰也高高升起,那俊美面容之子最为光耀的火焰。

27.12

तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः ।
पथो अनक्तु मध्वा घृतेन ॥ २७.१२ ॥

无生者(Tanūnapāt),强大的全知之神,诸神中的神,愿他以蜂蜜与酥油涂抹道路。

27.13

मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो ऽ अग्ने ।
सुकृद् देवः सविता विश्ववारः ॥ २७.१३ ॥

以蜜抵达祭祀,使之欢喜的纳罗阇恭萨阿耆尼啊;行善之神萨维特利,为众所选。

27.14

अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा ।
अग्निꣳ स्रुचो ऽ अध्वरेषु प्रयत्सु ॥ २७.१४ ॥

他以力量与酥油而来,受赞颂,以敬礼携带供物;在祭祀中、在献供中,为阿耆尼献上勺子。

27.15

स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः ।
वसुश्चेतिष्ठो वसुधातमश् च ॥ २७.१५ ॥

愿他崇拜这阿耆尼的伟大;他令人欢喜,善供物丰盈,富有,最有智慧,是最慷慨的财富赐予者。

27.16

द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥ २७.१६ ॥

神圣之门在他之后持守阿耆尼的一切誓愿;广阔延展的它们凭其住所而主宰前行。

27.17

ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता ।
इमं यज्ञम् अवताम् अध्वरं नः ॥ २७.१७ ॥

她们是他的两位神圣妻子,如同同在一个子宫;愿黎明与夜晚守护我们这场无伤的祭祀。

27.18

दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् ।
कृणुतम् नः स्विष्टम् ॥ २७.१८ ॥

二位神圣的呼唤者啊,请将我们的无伤祭祀高举;请赞颂阿耆尼的舌头,为我们使此祭祀圆满奉献。

27.19

तिस्रो देवीर् बर्हिर् इदꣳ सदन्त्व् इडा सरस्वती भारती ।
मही गृणाना ॥ २७.१९ ॥

愿三位女神——伊达、萨拉斯瓦蒂与婆罗提——坐于这圣草之上,大加赞颂。

27.20

तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् ।
रायस्पोषं वि ष्यतु नाभिम् अस्मे ॥ २७.२० ॥

愿特瓦什特里赐予我们那迅捷、奇妙、丰盛的善力,并在我们的中心显现财富的滋养。

27.21

वनस्पते ऽव सृजा रराणस् त्मना देवेषु ।
अग्निर् हव्यꣳ शमिता सूदयाति ॥ २७.२१ ॥

啊,林木之主,自我欢喜,请将祭供降送于诸神之间;愿阿耆尼作为祭主,使供物成功。

27.22

अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् ।
विश्वे देवा हविर् इदं जुषन्ताम् ॥ २७.२२ ॥

啊阿耆尼,娑婆诃!啊生知者,为因陀罗准备供物吧!愿一切天神接受这份祭品。

27.23

पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥ २७.२३ ॥

丰美的食物增益财富、赐予善慧;洁白光耀的风神与疾驰的神骏相连。那些人同心协力,为风神挺身而立,各自完成了自己的功业。

27.24

राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके ॥ २७.२४ ॥

为了财富,这二界生下了他;为了财富,神圣的慧女(Dhiṣaṇā)承载这位神。于是他的疾驰神骏与风神相连,洁白的财富赐予者居于开阔的空间。

27.25

आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
ततो देवानाꣳ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥ २७.२५ ॥

当广大的水流怀胎、遍满世界并孕育出阿耆尼之时,诸神的唯一生命之气便由此而生。我们应以供物礼敬哪一位神?

27.26

यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् ।
यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम ॥ २७.२६ ॥

他以其伟力俯视诸水,怀持神力、生出祭祀;在诸神之上独为一神。我们应以供物礼敬哪一位神?

27.27

प्र याभिर् यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायविष्टये दुरोणे ।
नि नो रयिꣳ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥ २७.२७ ॥

你乘着那些车驾前往慷慨的祭主;啊,风神,带着牵引之马来到祭屋。赐予我们富饶的财富、丰足的食物、英勇的子嗣、牛群、马匹与繁荣。

27.28

आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि यज्ञम् ।
वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥ २७.२८ ॥

带着牵引之马,成百上千,来到我们的祭礼与仪式近前;啊,风神,在这次榨汁中欢喜吧;愿你们众神以吉祥之道永远护佑我们。

27.29

नियुत्वान् वायवा गह्य् अयꣳ शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहम् ॥ २७.२९ ॥

啊,风神,乘着牵引之马前来吧。我为你献上这明亮的苏摩;你将前往榨取苏摩者的家。

27.30

वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ २७.३० ॥

啊,风神,我将甘甜苏摩的头一份,这明亮的苏摩献给你;神啊,乘着牵引之马来饮苏摩吧,你是众人所愿。

27.31

वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् ।
शिवो नियुद्भिः शिवाभिः ॥ २७.३१ ॥

愿走在前面、喜悦于祭礼的风神,与我们一同以心念前往祭礼;愿吉祥的风神乘着牵引之马与吉祥之马而来。

27.32

वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।
नियुत्वान्त् सोमपीतये ॥ २७.३२ ॥

啊,风神,乘着你那千辆战车来吧;乘着牵引之马前来饮苏摩。

27.33

एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विꣳशती च ।
तिसृभिश् च वहसे त्रिꣳशता च नियुद्भिर् वायव् इह ता वि मुञ्च ॥ २७.३३ ॥

自生的风神啊,你以一、十、二、二十、三、三十的牛群载运;请在此释放它们。

27.34

तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत ।
अवाꣳस्य् आ वृणीमहे ॥ २७.३४ ॥

风神啊,真理之主,特瓦希特里的女婿,奇妙者,我们选择你。

27.35

अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥ २७.३५ ॥

勇士啊,我们赞颂你,如同永不干涸的母牛。你是这动之世界的主宰、望见天界者;因陀罗啊,你是静之世界的主宰。

27.36

न त्वावाꣳ२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥ २७.३६ ॥

无论天界或地界,都无人如你,过去未生,将来也不会生。慷慨的因陀罗啊,我们渴求马匹、力量与牛群,因此呼唤你。

27.37

त्वाम् इद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥ २७.३७ ॥

我们歌者确实为赢得力量而呼唤你。因陀罗啊,人们在战斗中呼唤你这善者之主;在赛道上,则呼唤你这马之主。

27.38

स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः ।
गाम् अश्वꣳ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ २७.३८ ॥

你啊,奇妙者,手持金刚杵、勇猛、伟大、受赞颂、执石者,请一并赐予我们牛群、马匹与战车马,因陀罗啊,如同赐予胜利者力量。

27.39

कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ २७.३९ ॥

神奇的、常增长的朋友啊,你将以何种帮助来到我们这里?以何种最强大的护佑?

27.40

कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥ २७.४० ॥

谁真实且最慷慨于欢乐,以圣饮的喜悦使你欢欣,以便即使打碎坚固之物而获得财富?

27.41

अभी षु णः सखीनाम् अविता जरितॄणाम् ।
शतं भवास्य् ऊतये ॥ २७.४१ ॥

请确实成为我们——你的朋友与赞颂者——的守护者;为了我们的庇护,化为百倍之身。

27.42

यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे ।
प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥ २७.४२ ॥

在每一次祭祀中,每一首歌中,为了力量,献给你和阿耆尼——我们好好赞颂不死的耆陀婆陀,亲爱的朋友。

27.43

पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया ।
पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो ॥ २७.४३ ॥

阿耆尼啊,以第一首保护我们;以第二首保护。力量之主啊,以三首颂歌保护;婆苏啊,以四首保护。

27.44

ऊर्जो नपातꣳ स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम् ॥ २७.४४ ॥

我们激励力量之孙,他对我们怀有慈爱;愿我们为献上供品而奉献。愿他在竞争中相助,在增长中相助,并成为身体的守护者。

27.45

संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि ।
उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताꣳ संवत्सरस् ते कल्पताम् ।
प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय ।
सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥ २७.४५ ॥

你是年;你是满年;你是献祭之年;你是年;你是年。愿黎明为你而适宜;愿昼夜为你而适宜;愿半月为你而适宜;愿月份为你而适宜;愿季节为你而适宜;愿年岁为你而适宜。将它们连接并送出,以供往来。你是金翅鸟的构建者;与那位神一起,如安吉拉斯一般,稳稳地坐定。