夜柔吠陀 · 章(Adhyāya) 5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.1
अग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिऽतिथेर् आतिथ्यम् असि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा ॥ ५.१ ॥
你是阿耆尼之身;为毗湿奴,我(立)你。你是苏摩之身;为毗湿奴,立你。你是客人的款待;为毗湿奴。为鹰,立你;为持苏摩的毗湿奴,立你。为阿耆尼,立你;为赐予财富与滋养的毗湿奴,立你。
5.2
अग्नेर् जनित्रम् असि ।
वृषणौ स्थः ।
ऽउर्वश्य् असि ।
आयुर् असि ।
ऽ पुरूरवा असि ।
गायत्रेण त्वा छन्दसा मन्थामि ।
त्रैष्टुभेन त्वा छन्दसा मन्थामि ।
जागतेन त्वा छन्दसा मन्थामि ॥ ५.२ ॥
你是阿耆尼的生处。你们二者是雄性部件(取火钻)。你是乌尔婆西。你是寿命。你是补鲁罗婆娑。以伽耶特里韵律搅动你。以特里斯图普韵律搅动你。以耆伽提韵律搅动你。
5.3
भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥ ५.३ ॥
你们二者对我们同心、同念、无罪。不要伤害祭祀;不要伤害祭主。哦,知晓一切生者的你们二者,今日对我们吉祥。
5.4
अग्नाव् अग्निश् चरति प्रविष्ट ऽ ऋषीणां पुत्रो ऽअभिशस्तिपावा ।
स नः स्योनः सुयजा यजेह देवेभ्यो हव्यꣳ सदम् अप्रयुच्छन्त् स्वाहा ॥ ५.४ ॥
阿耆尼进入阿耆尼之中而行走;他是诸仙之子,是免除诅咒的守护者。愿他对我们慈悯、易于供奉;在此行祭,不断地将祭品奉献给诸神。斯瓦哈。
5.5
आपतये त्वा परिपतये गृह्णामि तनूनप्त्र्ये शाक्वराय शक्वन ऽ ओजिष्ठाय ।
अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽनभिशस्त्य् अभिशस्तिपा ऽ अनभिशस्तेन्यम् अञ्जसा सत्यम् उप गेषꣳ स्विते मा धाः ॥ ५.५ ॥
为堕落之主、周围堕落之主,我取你;为身之孙、强者、有能者、最有力者。此为不可击败者,诸神不可战胜之力量;无指责,护佑免于指责。真实地、直接地,愿我近前;萨维特里,使我安立。
5.6
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् इयꣳ सा मयि यो मम तनूर् एषा सा त्वयि ।
सह नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः ॥ ५.६ ॥
啊,阿耆尼,持誓之主!你身中的这身体在我身中;我身中的这身体在你身中。持誓之主啊,让我们二者共同守持誓愿。愿受戒之主认可我的受戒;愿苦行之主认可我的苦行。
5.7
अꣳशुर्-अꣳशुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे ।
आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥ ५.७ ॥
愿你的光芒为识得唯一财富的因陀罗而增长,啊天神苏摩。愿因陀罗为你而增长;你为因陀罗而增长。以施予与智慧增益我们与朋友。啊天神苏摩,愿我因你的榨取而得吉祥。愿所求的财富被送来;为婆伽赐ṛta;向说真话者致敬;向天地致敬。
5.8
या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ ५.८ ॥
啊阿耆尼,愿你躺在铁中、最为广大、居于洞穴的身体驱除猛烈之言;驱除炽烈之言。斯瓦哈。愿你躺在空气中的身体……斯瓦哈。愿你躺在赤褐色中的身体……斯瓦哈。
5.9
तप्तायनी मे ऽसि ।
वित्तायनी मे ऽसि ।
अवतान् मा नाथितात् ।
अवतान् मा व्यथितात् ।
विदेद् अग्निर् नभो नाम ।
अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।
योऽस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
विदेद् अग्निर् नभो नाम ।
अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।
यो द्वितीयस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
विदेद् अग्निर् नभो नाम ।
अग्नेऽअङ्गिर ऽ आयुना नाम्नेहि ।
यस् तृतीयस्यां पृथिव्याम् असि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
अनु त्वा देववीतये ॥ ५.९ ॥
你是我炽热的途径。你是我所得的途径。请保护我免于匮乏之苦。请保护我免于痛苦。愿阿耆尼获得名为纳巴斯的称号。啊,阿耆尼·安吉罗,以生命与名号来此。你存在于此地,我以你不可战胜、适于祭祀的名号确立你。愿阿耆尼获得名为纳巴斯的称号。啊,阿耆尼·安吉罗,以生命与名号来此。你存在于第二地,我以你不可战胜、适于祭祀的名号确立你。愿阿耆尼获得名为纳巴斯的称号。啊,阿耆尼·安吉罗,以生命与名号来此。你存在于第三地,我以你不可战胜、适于祭祀的名号确立你。为诸神的享用,我使你欢悦。
5.10
सिꣳह्य् असि सपत्नसाही देवेभ्यः कल्पस्व ।
सिꣳह्य् असि सपत्नसाही देवेभ्यः शुन्धस्व ।
सिꣳह्य् असि सपत्नसाही देवेभ्यः शुम्भस्व ॥ ५.१० ॥
你是母狮,征服敌人者;为诸神做好准备。你是母狮,征服敌人者;为诸神净化。你是母狮,征服敌人者;为诸神装饰。
5.11
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु ।
प्रचेतास् त्वा रुद्रैः पश्चात् पातु ।
मनोजवास् त्वा पितृभिर् दक्षिणतः पातु ।
विश्वकर्मा त्वादित्यैर् उत्तरतः पातु ।
इदम् अहं तप्तं वार् बहिर्धा यज्ञान् निः सृजामि ॥ ५.११ ॥
愿因陀罗呵护者从东方以婆苏们保护你;愿普拉采塔斯从西方以楼陀罗们保护你;愿摩诺迦婆从南方以祖先们保护你;愿毗首羯摩从北方以阿迪提耶们保护你。我将这加热的水送出祭祀之外。
5.12
सिꣳह्य् असि स्वाहा ।
सिꣳह्य् अस्य् आदित्यवनिः स्वाहा ।
सिꣳह्य् असि ब्रह्मवनिः क्षत्रवनिः स्वाहा ।
सिꣳह्य् असि सुप्रजावनी रायस्पोषवनिः स्वाहा ।
सिꣳह्य् अस्य् आवह देवान् यजमानाय स्वाहा ।
भूतेभ्यस् त्वा ॥ ५.१२ ॥
你是母狮,斯瓦哈。你是母狮,为阿迪提耶们所悦纳,斯瓦哈。你是母狮,赐予梵与刹帝利之力,斯瓦哈。你是母狮,赐予良好子嗣与财富的滋养,斯瓦哈。你是母狮,为施祭者迎来诸神,斯瓦哈。为众生,我将你献上。
5.13
ध्रुवो ऽसि पृथिवीं दृꣳह ।
ध्रुवक्षिद् अस्य् अन्तरिक्षं दृꣳह ।
अच्युतक्षिद् असि दिवं दृꣳह ।
अग्नेः पुरीषम् असि ॥ ५.१३ ॥
你稳固;使大地坚固。你安住于虚空;使虚空坚固。你安住于不坠之处;使天空坚固。你是阿耆尼的充盈。
5.14
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽइन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥ ५.१४ ॥
灵感的智者驾驭心意与思虑,为伟大而智慧的灵感者。祭司们以多种方式安立之;唯有一人知晓诸道。愿对神萨维特里的伟大赞颂得以实现。斯瓦哈。
5.15
इदं विष्णुर् विचक्रमे त्रेधा नि दधे पदम् ।
समूढम् अस्य पासुरे स्वाहा ॥ ५.१५ ॥
毗湿奴跨越此界;三种方式安放其步。其隐藏的第三步在尘土之中。斯瓦哈。
5.16
इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे दशस्या ।
व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा ॥ ५.१६ ॥
你成为伊罗婆提,富于牛群与良好草场,慷慨地赐予摩奴。毗湿奴啊,你展开并撑住两界;以光芒从四方承托大地。斯瓦哈。
5.17
देवश्रुतौ देवेष्व् आ घोषतम् ।
प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् ।
स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् ।
अत्र रमेथां वर्ष्मन् पृथिव्याः ॥ ५.१७ ॥
你们二位听闻诸神,请在诸神之中宣告。面向东方引导祭礼向前;将祭祀引向高处,不要偏斜。呼唤你们的牛栏;女神们,不要在家中夺去寿命和子嗣。在大地的高处欢喜吧。
5.18
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि ।
यो ऽ अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायः ।
विष्णवे त्वा ॥ ५.१८ ॥
我现在要宣说毗湿奴的英勇事迹:他丈量了地上的世界,支撑起高处的居所,以三步行走,被广泛颂扬。为毗湿奴,献上你。
5.19
दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् ।
उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् ।
विष्णवे त्वा ॥ ५.१९ ॥
啊毗湿奴,无论来自天空、大地,还是广大的虚空;请以财富充满双手,从右手和左手施予。为毗湿奴,献上你。
5.20
प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥ ५.२० ॥
这位毗湿奴因其勇力而被颂扬,如同在山中游荡的可怖野兽。在他广阔的三步之上,一切世界得以安居。
5.21
विष्णो रराटम् असि ।
विष्णोः श्नप्त्रे स्थः ।
विष्णोः स्यूर् असि ।
विष्णोर् ध्रुवो सि ।
वैष्णवम् असि विष्णवे त्वा ॥ ५.२१ ॥
啊毗湿奴,你是顶端。你们两个是毗湿奴的系带。你是毗湿奴的线。你是毗湿奴的稳固支柱。你是毗湿奴的(器物);我将你献给毗湿奴。
5.22
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहꣳ रक्षसां ग्रीवा ऽ अपिकृन्तामि ।
बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद ॥ ५.२२ ॥
在神萨维特里的推动下,以双Aśvin的臂膀、普善的双手,我接过你。你是女性。我斩断罗刹的颈项。你伟大、声音宏大;为因陀罗说出宏大的言辞。
5.23
रक्षोहणं वलगहनं वैष्णवीम् ।
इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान ।
उत् कृत्यां किरामि ॥ ५.२३ ॥
这位毗湿奴的(力量)摧毁罗刹,斩断束缚之结。我将敌对者或大臣所埋的束缚从此拔出。我拔出同等者或非同等者所埋的束缚。我拔出亲属或非亲属所埋的束缚。我拔出同族或非同族所埋的束缚。我拔除有害的咒术(kṛtyā)。
5.24
स्वराड् असि सपत्नहा ।
सत्रराड् अस्य् अभिमातिहा ।
जनराड् असि रक्षोहा ।
सर्वराड् अस्य् अमित्रहा ॥ ५.२४ ॥
你是自主之王,摧毁敌对者。你是祭祀之王,摧毁敌意的攻击者。你是人民之王,摧毁罗刹。你是万物之王,摧毁敌人。
5.25
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् ।
रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् ।
रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् ।
रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी ।
रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी ।
वैष्णवम् असि ।
वैष्णवा स्थ ॥ ५.२५ ॥
你们是摧毁罗刹与瓦拉伽的,我洒水于你们,属于毗湿奴。你们是摧毁罗刹与瓦拉伽的,我将你们放下,属于毗湿奴。你们是摧毁罗刹与瓦拉伽的,我将你们铺于下方,属于毗湿奴。你们二者是摧毁罗刹与瓦拉伽的,我将你们置于近处,属于毗湿奴。你们二者是摧毁罗刹与瓦拉伽的,我将你们绕行转动,属于毗湿奴。你属于毗湿奴。你们属于毗湿奴。
5.26
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा ।
शुन्धन्तां लोकाः पितृषदनाः ।
पितृषदनम् असि ॥ ५.२६ ॥
在萨维特里神的推动下,以双Aśvin之臂,以普善之手,我取你。你是女性。我也斩断罗刹的颈项。你是大麦;请使怨恨远离我们,使敌人远离。为天界取你,为虚空取你,为大地取你。愿诸世界得净,祖先的座位。你是祖先的座位。
5.27
उद् दिवꣳ स्तभानान्तरिक्षं पृण दृꣳहस्व पृथिव्याम् ।
द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा ।
ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥ ५.२७ ॥
托住天空,充满虚空,在大地上坚定不移。愿光明的摩嚕多诸神量度并固定你;愿弥陀罗与伐楼那以坚定之法。赢得梵力、赢得王权、赢得财富与滋养的你,我绕着你行走。使梵力坚固,使王权坚固,使寿命坚固,使子嗣坚固。
5.28
ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् ।
घृतेन द्यावापृथिवी पूर्येथाम् ।
इन्द्रस्य छदिर् असि विश्वजनस्य छाया ॥ ५.२८ ॥
你是稳固的;愿此处的祭主得子嗣与牲畜之福。愿天与地都以酥油充满。你是因陀罗的顶盖,是众人的荫蔽。
5.29
परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ ५.२९ ॥
哦,值得赞颂者,愿这些颂歌从四面环绕你。愿增益随着长寿者而来;愿悦耳的赞颂令人喜悦。
5.30
इन्द्रस्य स्यूर् असि ।
इन्द्रस्य ध्रुवो ऽसि ।
ऐन्द्रम् असि ।
वैश्वदेवम् असि ॥ ५.३० ॥
你是因陀罗的丝线。你为因陀罗而稳固。你属于因陀罗。你属于诸神(毗湿伐提婆)。
5.31
विभूर् असि प्रवाहणः ।
वह्निर् असि हव्यवाहनः ।
श्वात्रो ऽसि प्रचेताः ।
तुथो ऽसि विश्ववेदाः ॥ ५.३१ ॥
你遍在,是引导者。你是承载者,是运送供品的。你迅捷、有智慧、明察。你强健,是知晓一切者。
5.32
उशिग् असि कविः ।
अङ्घारिर् असि बम्भारिः ।
अवस्यूर् असि दुवस्वान् ।
शुन्ध्यूर् असि मार्जालीयः ।
सम्राड् असि कृशानुः ।
परिषद्योऽसि पवमानः ।
नभोऽसि प्रतक्वा ।
मृष्टो ऽसि हव्यसूदनः ।
ऽऋतधामासि स्वर्ज्योतिः ॥ ५.३२ ॥
你是乌希格,智者。你是昂迦利,你是邦跋利。你是阿婆修由,你是杜婆斯婉。你是顺底由,你是摩耳迦利耶。你是萨姆罗,你是克利沙努。你是钵利沙德耶,你是波婆曼。你是那婆斯,你是钵罗多克瓦。你是穆瑟塔,你是哈维耶苏陀那。你是利多达玛,你是斯瓦尔乔提。
5.33
समुद्रो ऽसि विश्वव्यचाः ।
ऽअजो ऽस्य् एकपात् ।
अहिर् असि बुध्न्यः ।
वाग् अस्य् ऐन्द्रम् असि सदो ऽसि ।
ऋतस्य द्वारौ मा मा संताप्तम् ।
अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात् ॥ ५.३३ ॥
你是海洋,遍照万物。你是不生者,独足者。你是蛇,属于根基者。你是语言,属于因陀罗,是座位。两扇天理之门,不要灼烧我。诸道之主,引我前行;愿我在此诸神之路上得享吉祥。
5.34
मित्रस्य मा चक्षुषेक्षध्वम् ।
अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिꣳसिष्ट ॥ ५.३४ ॥
请以密特拉之眼看顾我。诸火啊,你们是萨伽罗;以萨伽罗之名,与楼陀罗之军,护佑我。诸火啊,滋养我。诸火啊,守护我。向你们致敬。不要伤害我。
5.35
ज्योतिर् असि विश्वरूपं विश्वेषां देवाना समित् ।
त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथꣳ स्वाहा ।
जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा ॥ ५.३५ ॥
你是光明,具一切形态,是诸神的薪柴。哦,苏摩,你守护身体;免于他人所作的仇恨,你是广大的引导者与庇护。娑婆诃。愿苏摩欢喜,作为众水的守护者,饮用澄清的酥油。娑婆诃。
5.36
अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम ॥ ५.३६ ॥
哦,阿耆尼,知晓一切道路的神,请引导我们走上通往财富的善路。使弯曲的罪离开我们。我们向你献上最丰盛的敬礼之辞。
5.37
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् ।
अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा ॥ ५.३७ ॥
愿此阿耆尼为我们成就财富。愿他向前行进,刺穿敌军。愿他在争夺战利品的竞赛中赢得奖赏。欢欣鼓舞地,愿他征服敌人。娑婆诃。
5.38
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥ ५.३८ ॥
哦,毗湿奴,大步迈进;为我们造就宽广的居所。哦,酥油之源,请饮酥油;引导祭主向前,渡过彼岸。娑婆诃。
5.39
देव सवितर् एष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् ।
एतत् त्वं देव सोम देवो देवाँ२ ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये ॥ ५.३९ ॥
哦,神萨维德利,这是你的苏摩;守护它,使任何事物都不伤害你。哦,神苏摩,你作为神而亲近诸神;愿我与众人,凭财富的滋养,说斯瓦哈。愿我从伐楼那的绳索中解脱。
5.40
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि ।
यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमꣳस्तानु तपस् तपस्पतिः ॥ ५.४० ॥
哦阿耆尼,誓愿的守护者,你内在的身体成为了我的身体;我内在的身体成为了你的身体。哦誓愿之主,为我们二者,依法依誓;愿授予者接受我的受戒,苦行之主接受我的苦行。
5.41
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥ ५.४१ ॥
哦毗湿奴,大步前行;为我们的居所开辟广阔之处。哦酥油之源,饮用酥油;引领祭主向前——斯瓦哈。
5.42
अत्य् अन्याꣳ ऽ अगां नान्याꣳ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः ।
तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा ।
ओषधे त्रायस्व ।
स्वधिते मैनꣳ हिꣳसीः ॥ ५.४२ ॥
我超越了他人,没有去找他人;在远者与近者之前,我在此找到了你。神植物主啊,我们为向诸神献祭而渴求你;愿诸神为向诸神献祭而接受你,为毗湿奴而接受你。草药啊,请保护。斧啊(svadhiti),不要伤害这个。
5.43
द्यां मा लेखीर् अन्तरिक्षं मा हिꣳसीः पृथिव्या सं भव ।
अयꣳ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय ।
अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम ॥ ५.४३ ॥
不要刮擦天空,不要伤害虚空;与大地合一。这把锋利的斧头带领你走向伟大的福祉。因此,神植物主啊,你要以百枝生长蔓延;愿我们以千枝生长蔓延。