Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.1

वाचस् पतये पवस्व वृष्णो अꣳशुभ्यां गभस्तिपूतः ।
देवो देवेभ्यः पवस्व येषां भागो ऽसि ॥ ७.१ ॥

言语之主,强健的苏摩,借由枝茎与光线滤器净化而流吧。神啊,为诸神而流吧;你是他们的份额。

7.2

मधुमतीर् न ऽ इषस् कृधि ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
स्वाहा ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥ ७.२ ॥

使我们的食物甘甜。为你那配得苏摩、警醒的名字,啊苏摩,献给苏摩,斯瓦哈。斯瓦哈。我行经广阔的虚空。

7.3

स्वांकृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
देवेभ्यस् त्वा मरीचिपेभ्यः ।
देवाशो यस्मै त्वेडे तत् सत्यम् उपरिप्रुता भङ्गेन हतो ऽसौ फट् ।
प्राणाय त्वा ।
व्यानाय त्वा ॥ ७.३ ॥

你自身已被妥善制成。为一切感官——天界与地界的感官——为心意,愿特瓦什塔将你造成;斯瓦哈。为太阳,你这善生者。为饮光的诸神,你。诸神啊,为了谁,你这被赞者——那是真实的;从上方洒落,被破碎所击,此物,发。为气息,你。为遍行之气,你。

7.4

उपयामगृहीतो ऽस्य् अन्तर्यच्छ मघवन् पाहि सोमम् ।
उरुष्य राय ऽएषो यजस्व ॥ ७.४ ॥

你以优帕雅玛杯被取出;在内收持,啊慷慨者,饮用苏摩。守护财富,那由激发而来的财富;行祭。

7.5

अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर्दधाम्य् उर्व् अन्तरिक्षम् ।
सजूर् देवेभिर् अवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥ ७.५ ॥

我在你之内安置天与地;我在内安置广阔的虚空。啊,内制者(Antaryāma),啊,摩伽凡(Maghavan),与下界和上界的诸神一同欢喜吧。

7.6

स्वांकृतोऽसि विश्वेभ्य ऽ इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
देवेभ्यस् त्वा मरीचिपेभ्यः ।
ऽ उदानाय त्वा ॥ ७.६ ॥

你已善成;为一切感官、天界与地界,为意念,愿特瓦斯特里为之。斯瓦哈。啊,苏婆婆,你为太阳而设。你为饮光诸神而设。你为上行之气而设。

7.7

आ वायो भूष शुचिपा ऽ उप नः सहस्रं ते नियुतो विश्ववार ।
उपो तेऽअन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ।
वायवे त्वा ॥ ७.७ ॥

啊,风神,请来;饮纯净者,近我们而庄严。你有千驾,啊,众人所愿者。我向你奉上令人陶醉的汁液,啊,神,你持有首饮之权。为风神而设你。

7.8

इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतोऽसि वायव ऽ इन्द्रवायुभ्यां त्वा ।
एष ते योनिः ।
सजोषोभ्यां त्वा ॥ ७.८ ॥

啊,因陀罗与风神,这些压榨的苏摩汁已备;带着你们的意愿近前。汁滴渴望你们二者。你被以奉献杯所取;为风神,为因陀罗-风神而设你。这是你的座位;为共同欢喜的二者而设你。

7.9

अयं वां मित्रावरुणा सुतः सोम ऽ ऋतावृधा ।
ममेद् इह श्रुतꣳ हवम् ।
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥ ७.९ ॥

密特拉与伐楼拿,此苏摩为你二位压榨;增长天则的你们,请在此听我的呼唤。你已被取入献器upayāma中;为密特拉与伐楼拿,我取你。

7.10

राया वयꣳ ससवाꣷसो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ।
एष ते योनिर् ऋतायुभ्यां त्वा ॥ ७.१० ॥

愿我们以财富而满足而欢喜;诸神啊,以献供;牛啊,以草料。密特拉与伐楼拿,愿你们二位永远赐给我们那不踢人的乳牛。此为你们的座位;为两位求取ṛta者,我取你。

7.11

या वां कशा मधुमत्याश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतम् ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा ।
एष ते योनिर् माध्वीभ्यां त्वा ॥ ७.११ ॥

双马童啊,你们那充满蜜与悦耳真实的鞭子,请以它洒湿祭祀。你已被取入献器upayāma中;为双马童,我取你。此为你们的座位;为两位蜜者,我取你。

7.12

तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदꣳ स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे धुनिम् आशुं जयन्तम् अनु यासु वर्धसे ।
उपयामगृहीतो ऽसि शण्डाय त्वा ।
एष ते योनिर् वीरतां पाहि ।
अपमृष्टः शण्डः ।
देवास् त्वा शुक्रपाः प्रणयन्तु ।
अनाधृष्टासि ॥ ७.१२ ॥

以古老的方式、以先前的方式、以一切如此的方式呼唤他:那位至尊者,坐在圣草上,寻得天界者。他在相反的方向上强劲,为挤奶而摇动,迅捷而得胜;你与他一同增长。你由优帕亚玛杯所取;为沙恩达而取你。此即你的位置;护持英勇。沙恩达已被擦拭。愿饮用光明苏摩的诸神引导你前行。你不可被攻破。

7.13

सुवीरो वीरान् प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा ।
निरस्तः शण्डः ।
शुक्रस्याधिष्ठानम् असि ॥ ७.१३ ॥

富有善良的英雄,生育英雄,周行而去;伴随财富的增长,前往祭主处。与天与地相会,你是明亮的,以光辉的光明闪耀。沙恩达已被抛出。你是光明者的座位。

7.14

अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम ।
सा प्रथमा सꣳस्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो ऽ अग्निः ॥ ७.१४ ॥

啊神苏摩,愿我们成为你不断绝的殊胜精力与财富增长的施予者。那第一次准备为众人所珍爱;他是首位,即伐楼那、密多罗与阿耆尼。

7.15

स प्रथमो बृहस्पतिश् चिकित्वाꣳस् तस्मा ऽ इन्द्राय सुतम् आ जुहोत स्वाहा ।
तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत् स्वाहा ।
अयाड् अग्नीत् ॥ ७.१५ ॥

彼为首位,Bṛhaspati,有智慧者:为他向因陀罗奉献压榨的苏摩,svāhā。愿祭司们以甘露满足,以善献、善悦、善行之祭,svāhā。阿耆尼已行祭。

7.16

अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपाꣳ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।
उपयामगृहीतो ऽसि मर्काय त्वा ॥ ७.१६ ॥

此维纳(苏摩)推动,有斑纹之胎,以光为胞衣,在虚空之量中。在众水交汇处,灵感的智者以思想舔舐这太阳之子。你被取于优帕雅玛杯中,为马尔卡而取。

7.17

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ ।
एष ते योनिः प्रजाः पाहि ।
अपमृष्टो मर्कः ।
देवास् त्वा मन्थिपाः प्रणयन्तु ।
अनाधृष्टासि ॥ ७.१७ ॥

在如心思般锐利的奉献中,你以力量迅速获胜,啊灵感者。以箭矢,那强大者在手中布置此方。此乃你的座位;护佑子嗣。马尔卡已被净化。愿搅拌的守护者诸神引你前行。你是不可征服者。

7.18

सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा ।
निरस्तो मर्कः ।
मन्थिनो ऽधिष्ठानम् असि ॥ ७.१८ ॥

行于众民之间,生育善子,以财富的滋养来到祭主身边。与天与地相合的搅木,以搅木之火焰。拭去的污垢已被抛弃。你是搅木的基座。

7.19

ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥ ७.१९ ॥

诸神啊,你们在天上为十一,在地上为十一,以威力居于水中为十一——愿那些神接受此祭祀。

7.20

उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणः पाहि यज्ञं पाहि यज्ञपतिं विष्णुस् त्वाम् इन्द्रियेण पातु विष्णुं त्वं पाह्य् अभि सवनानि पाहि ॥ ७.२० ॥

你被以升供器取出;你是初供,善初供。护持祭祀,护持祭主。愿毗湿奴以根力护你;你护毗湿奴,从各方护持诸压榨。

7.21

सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥ ७.२१ ॥

苏摩得净化,苏摩得净化。为此婆罗门,为此刹帝利,为此榨苏摩的祭主而净化。为食物而净化,为力量而净化,为众水而净化,为草木而净化,为天地而净化,为吉祥而净化。为一切天神,我取你。这是你的座位;为一切天神,我取你。

7.22

उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत ऽ उक्थाव्यं गृह्णामि ।
यत् त ऽ इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ।
एष ते योनिर् उक्थेभ्यस् त्वा ।
देवेभ्यस् त्वा देवाव्यं गृह्णामि यज्ञस्यायुषे गृह्णामि ॥ ७.२२ ॥

你是用乌帕亚摩器取得的。为具有伟大与活力的因陀罗,适于乌克沙诵唱,我取你。因陀罗啊,为你那伟大的力量,为毗湿奴,我取你。这是你的座位;为乌克沙诵唱,我取你。为诸天神,适于诸天神,我取你。为祭祀的寿命,我取你。

7.23

मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राग्निभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राबृहस्पतिभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राविष्णुभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ॥ ७.२३ ॥

为弥多罗与伐楼那,我取你,诸神的守护者,为祭祀的寿命。为因陀罗,我取你,诸神的守护者,为祭祀的寿命。为因陀罗与阿耆尼,我取你,诸神的守护者,为祭祀的寿命。为因陀罗与伐楼那,我取你,诸神的守护者,为祭祀的寿命。为因陀罗与布里哈斯巴提,我取你,诸神的守护者,为祭祀的寿命。为因陀罗与毗湿奴,我取你,诸神的守护者,为祭祀的寿命。

7.24

मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
कविꣳ सम्राजम् अतिथिं जनानाम् आसन्ना पात्रं जनयन्त देवाः ॥ ७.२४ ॥

天之头,地之舵手,生于真理(ṛta)的毗湿伐那罗阿耆尼。智者、君王、众民之客——诸神将他生成为近旁的器皿。

7.25

उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तमः ।
ऽ एष ते योनिर् वैश्वानराय त्वा ।
ध्रुवं ध्रुवेण मनसा वाचा सोमम् अव नयामि ।
अथा न ऽ इन्द्र ऽ इद् विशो ऽसपत्नाः समनसस् करत् ॥ ७.२५ ॥

你被上称杯所取;你坚定,居所坚固,是坚定者中最坚定的,是不动者中居所最不动的。这是你的位置;为了毗首婆那罗,我将你奉上。以坚定的心、坚定的言,我使苏摩降下。现在,因陀罗啊,使我们的民众无敌且心意一致。

7.26

यस् ते द्रप्स स्कन्दति यस् ते ऽ अꣳशुर् ग्रावच्युतो धिषणयोर् उपस्थात् ।
अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतꣳ स्वाहा ।
देवानाम् उत्क्रमणम् असि ॥ ७.२६ ॥

你那滴落的水滴,你那从压石、从两块压板的膝间落下的部分,从祭司或周围,或从滤器所落的,我以心将之作为 vaṣaṭ 供奉给你,svāhā。你是诸神的上升。

7.27

प्राणाय मे वर्चोदा वर्चसे पवस्व ।
व्यानाय मे वर्चोदा वर्चसे पवस्व ।
उदानाय मे वर्चोदा वर्चसे पवस्व ।
वाचे मे वर्चोदा वर्चसे पवस्व ।
क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व ।
श्रोत्राय मे वर्चोदा वर्चसे पवस्व ।
चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् ॥ ७.२७ ॥

为我的气息,赐予光辉者,为光辉而清净流动。为我的遍行气,赐予光辉者,为光辉而清净流动。为我的上行气,赐予光辉者,为光辉而清净流动。为我的言语,赐予光辉者,为光辉而清净流动。为我的意志与力量,赐予光辉者,为光辉而清净流动。为我的听觉,赐予光辉者,为光辉而清净流动。为我的双眼,你们二者赐予光辉者,为光辉而清净流动。

7.28

आत्मने मे मे वर्चोदा वर्चसे पवस्व ।
ओजसे मे वर्चोदा वर्चसे पवस्व ।
आयुषे मे वर्चोदा वर्चसे पवस्व ।
विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् ॥ ७.२८ ॥

为我的自我,赐予光辉者,为光辉而清净流动。为我的活力,赐予光辉者,为光辉而清净流动。为我的长寿,赐予光辉者,为光辉而清净流动。为我的一切子嗣,你们二者赐予光辉者,为光辉而清净流动。

7.29

को ऽसि कतमो ऽसि कस्यासि को नामासि ।
यस्य ते नामामन्महि यं त्वा सोमेनातीतृपाम ।
भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्या सुवीरो वीरैः सुपोषः पोषैः ॥ ७.२९ ॥

你是谁,你是哪一位,你属于谁,你的名字是什么?无论你的哪个名字我们赞颂,你这位我们以苏摩使之满足者。地、空、天。愿我以子嗣而富有子孙,以英雄而富有英雄,以滋养而得良好的养育。

7.30

उपयामगृहीतो ऽसि मधवे त्वा ।
उपयामगृहीतो ऽसि माधवाय त्वा ।
उपयामगृहीतो ऽसि शुक्राय त्वा ।
उपयामगृहीतो ऽसि शुचये त्वा ।
उपयामगृहीतो ऽसि नभसे त्वा ।
उपयामगृहीतो ऽसि नभस्याय त्वा ।
उपयामगृहीतो ऽसीषे त्वा ।
उपयामगृहीतो ऽस्य् ऊर्जे त्वा ।
उपयामगृहीतो ऽसि सहसे त्वा ।
उपयामगृहीतो ऽसि सहस्याय त्वा ।
उपयामगृहीतो ऽसि तपसे त्वा ।
उपयामगृहीतो ऽसि तपस्याय त्वा ।
उपयामगृहीतो स्य् अꣳहसस्पतये त्वा ॥ ७.३० ॥

你由奉献杯(upayāma)所取;为甘美(春)。你由奉献杯所取;为摩陀婆(Mādhava)。你由奉献杯所取;为光明者(Śukra)。你由奉献杯所取;为纯净者(Śuci)。你由奉献杯所取;为雨雾(nabhas)。你由奉献杯所取;为雨季(nabhasya)。你由奉献杯所取;为食物(iṣ)。你由奉献杯所取;为汁液与力量(ūrj)。你由奉献杯所取;为勇力(sahas)。你由奉献杯所取;为有勇力者(sahasya)。你由奉献杯所取;为苦行之热(tapas)。你由奉献杯所取;为苦行者(tapasya)。你由奉献杯所取;为困厄之主(aṃhaspati)。

7.31

इन्द्राग्नी ऽ आ गतꣳ सुतं गीर्भिर् नभो वरेण्यम् ।
अस्य पातं धियेषिता ।
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा ।
एष ते योनिर् इन्द्राग्निभ्यां त्वा ॥ ७.३१ ॥

啊因陀罗与阿耆尼,带着颂歌来到压榨的苏摩前;以思念所驱,饮用殊胜的雨雾(nabhas)。你由奉献杯所取;为因陀罗与阿耆尼。这是你的座位;为因陀罗与阿耆尼。

7.32

आ घा ये ऽ अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
येषाम् इन्द्रो युवा सखा ।
उपयामगृहीतो ऽस्य् अग्नीन्द्राभ्यां त्वा ।
एष ते योनिर् अग्नीन्द्राभ्यां त्वा ॥ ७.३२ ॥

点燃阿耆尼并依次铺设圣草的人,其年轻的朋友是因陀罗。你以优帕亚玛杯取得;为阿耆尼与因陀罗而取你。这是你的位置;为阿耆尼与因陀罗而取你。

7.33

ओमासश् चर्षणीधृतो विश्वे देवास ऽ आ गत ।
दाश्वाꣳसो दाशुषः सुतम् ।
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥ ७.३३ ॥

诸护持者,为人所奉持的众神,请来此。作为施主,接受施祭者压榨的苏摩。你以优帕亚玛杯取得;为一切神而取你。这是你的位置;为一切神而取你。

7.34

विश्वे देवास ऽ आ गत शृणुता म इमꣳ हवम् ।
एदं बर्हिर् नि षीदत ।
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥ ७.३४ ॥

诸神啊,请来此;听我这祈请。请坐于此圣草之上。你以优帕亚玛杯取得;为一切神而取你。这是你的位置;为一切神而取你。

7.35

इन्द्र मरुत्व ऽ इह पाहि सोमं यथा शार्याते ऽ अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
ऽ एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥ ७.३५ ॥

因陀罗啊,与摩禄多一同在此饮用苏摩,如同你曾在沙利耶多饮用所压的苏摩。英雄啊,在你的引导与庇护之下,善于祭祀的智慧诗人侍奉你。你被以奥雅摩陶器取得;为与摩禄多同在的因陀罗,为你。这是你的位置;为与摩禄多同在的因陀罗,为你。

7.36

मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यꣳ शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनायोग्रꣳ सहोदाम् इह तꣳ हुवेम ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ।
उपयामगृहीतो ऽसि मरुतां त्वौजसे ॥ ७.३६ ॥

让我们在此呼唤因陀罗,他有摩禄多相伴,强大、增长、无可阻挡、天界之主、征服一切者,为新(祭主)的救助,猛烈而赐予力量。你被以奥雅摩陶器取得;为与摩禄多同在的因陀罗,为你。这是你的位置;为与摩禄多同在的因陀罗,为你。你被以奥雅摩陶器取得;为摩禄多的力量,为你。

7.37

सजोषा ऽ इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूꣳन्२ ऽ अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥ ७.३७ ॥

因陀罗啊,与你的部众同心,与摩禄多一同饮用苏摩。杀死弗栗多者,英雄,智者,打击敌人,驱散敌军,然后为我们在四方造就无惧。你被以奥雅摩陶器取得;为与摩禄多同在的因陀罗,为你。这是你的位置;为与摩禄多同在的因陀罗,为你。

7.38

मरुत्वाꣳ२ ऽ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।
आसिञ्चस्व जठरे मध्व ऽ ऊर्मिं त्वꣳ राजासि प्रतिपत्सुतानाम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥ ७.३८ ॥

与风神同在的因陀罗,公牛,为战斗与欢愉依例饮用苏摩。将甘美的波涛注入你的腹中;你是榨取之供物的王。你被取入优帕亚玛杯,为与风神同在的因陀罗;这是你的座位,为与风神同在的因陀罗。

7.39

महाꣳ२ ऽ इन्द्रो नृवद् आ चर्षणिप्रा ऽ उत द्विबर्हा ऽ अमिनः सहोभिः ।
अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥ ७.३९ ॥

伟大的因陀罗与人同在,是众民的保护者,拥有双重力量;以不可战胜的力量,为勇武而增长,转向我们。愿他广阔而宏大,借行事者而行善。你被取入优帕亚玛杯,为摩亨陀罗。

7.40

महाꣳ२ ऽ इन्द्रो य ऽ ओजसा पर्जन्यो वृष्टिमाँ२ ऽ इव ।
स्तोमैर् वत्सस्य वावृधे ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥ ७.४० ॥

伟大的因陀罗,以其力量如同降雨的云神帕尔詹亚,借瓦特萨的赞歌而增长。你被取入优帕亚玛杯,为摩亨陀罗。

7.41

उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यꣳ स्वाहा ॥ ७.४१ ॥

光线托起那位知晓一切众生的神,太阳,使一切人得以观看。斯瓦哈。

7.42

चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च स्वाहा ॥ ७.४२ ॥

诸神奇妙的光芒升起了,密特拉、伐楼那与阿耆尼之眼升起了。你充满了天地与虚空;太阳是动者与静者的灵魂。斯瓦哈。

7.43

अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम स्वाहा ॥ ७.४३ ॥

阿耆尼啊,神啊,你知晓一切道路,请引导我们走上通往财富的善道。使弯曲的罪离开我们;我们向你献上最多的敬礼之辞。斯瓦哈。

7.44

अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽ एतु प्रभिन्दन् ।
अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा ॥ ७.४४ ॥

愿此阿耆尼为我们开辟空间。愿他摧破敌军,向前迈进。愿他在争夺奖赏的竞赛中赢得奖赏;兴盛之时,愿他战胜敌人。斯瓦哈。

7.45

रूपेण वो रूपम् अभ्यागां तुथो वो विश्ववेदा वि भजतु ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणाः ।
वि स्वः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः ॥ ७.४५ ॥

我以你的形象来到你的形象之前。愿全知者分配你的供物。啊,你们这些拥有光辉布施的人,沿着真理(ṛta)之路前行。看天界;看虚空。与会众一同努力。

7.46

ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयꣳ सुधातुदक्षिणम् ।
अस्मद्राता देवत्रा गच्छत प्रदातारम् आ विशत ॥ ७.४६ ॥

愿我今日得到一位有祖先、属父系、出自仙人之后、施予优厚达克舍那的婆罗门。愿我们的布施归于诸神;愿它们进入施主之中。

7.47

अग्नये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीयायुर् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
रुद्राय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय प्राणो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ।
बृहस्पतये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय त्वग् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
यमाय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय हयो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ॥ ७.४७ ॥

愿伐楼那为阿耆尼将你赐予我;愿他使我获得不死。为施者,你为寿命;为我这受者,你为安乐。愿伐楼那为楼陀罗将你赐予我;愿他使我获得不死。为施者,你为气息;为我这受者,你为活力。愿伐楼那为布利哈斯帕蒂将你赐予我;愿他使我获得不死。为施者,你为皮肤;为我这受者,你为安乐。愿伐楼那为阎摩将你赐予我;愿他使我获得不死。为施者,你为速度;为我这受者,你为活力。

7.48

को ऽदात् कस्मा अदात् कामो ऽदात् कामायादात् ।
कामो दाता कामः प्रतिग्रहीता कामैतत् ते ॥ ७.४८ ॥

谁施予?施予于谁?欲望施予;为了欲望而施予。欲望是施主,欲望是受者;此欲望属于你。