夜柔吠陀 · 章(Adhyāya) 25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
25.1
शादं दद्भिर् अवकां दन्तमूलैर् मृदं बर्स्वैस् तेगान् दꣳष्ट्राभ्याꣳ सरस्वत्या ऽ अग्रजिह्वं जिह्वाया ऽ उत्सादम् अवक्रन्देन तालु वाजꣳ हनुभ्याम् अप ऽ आस्येन वृषणम् आण्डाभ्याम् आदित्याꣳ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनकाभ्याꣳ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्य् अवार्या ऽ इक्षवो वार्याणि पक्ष्माणि पार्या ऽ इक्षवः ॥ २५.१ ॥
以牙齿,得牙根;以牙根,得下部;以牙龈,得柔软部分;以獠牙,得尖锐部分;以萨拉斯瓦蒂,得舌尖;以舌,得上部;以咆哮,得上颚;以下颌,得力量;以口,得水;以睾丸,得睾丸;以胡须,得阿底提亚;以眉,得道路;以眼睑,得天地;以瞳孔,得闪电。白者斯瓦哈,黑者斯瓦哈。可越过的睫毛,不可越过的目光;不可越过的睫毛,可越过的目光。
25.2
वातं प्राणेनापानेन नासिके ऽ उपयामम् अधरेणौष्ठेन सद् उत्तरेण प्रकाशेनान्तरम् अनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्याꣳ श्रोत्रꣳ श्रोत्राभ्यां कर्णौ तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिꣳ शीर्ष्णा निर्ऋतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् रेष्माणꣳ स्तुपेन ॥ २५.२ ॥
以呼气与吸气供奉风;以献供器 upayāma 供奉双鼻孔;以下唇供奉真实;以上唇与光供奉内部;以外部光辉供奉外部;以头供奉雷;以压力供奉金刚;以大脑供奉闪电;以两个瞳孔供奉两耳;以耳朵供奉听觉;以 tedanī 供奉两耳;以下咽喉供奉水;以干燥的咽喉供奉心意;以颈脉供奉 Aditi;以头供奉 Nirṛti;以高声说话供奉头;以呼喊供奉诸气息;以发束供奉 Reṣmāṇa。
25.3
मशकान् केशैर् इन्द्रꣳ स्वपसा वहेन बृहस्पतिꣳ शकुनिसादेन कूर्माञ्छफैर् आक्रमणꣳ स्थूराभ्याम् ऋक्षलाभिः कपिञ्जलान् जवं जङ्घाभ्याम् अध्वानं बाहुभ्यां जाम्बीलेनारण्यम् अग्निम् अतिरुग्भ्यां पूषणं दोर्भ्याम् अश्विनाव् अꣳसाभ्याꣳ रुद्रꣳ रोराभ्याम् ॥ २५.३ ॥
以毛发供奉蚊虫;以善巧之业(svapas)供奉因陀罗;以承载者供奉;以鸟栖木供奉布里哈斯帕蒂;以蹄供奉龟;以两个粗大部分供奉前进;以类似熊的部分供奉鹧鸪;以两腿供奉速度;以两臂供奉道路;以 jambīla 供奉森林;以两个锐利部分供奉阿耆尼;以两臂供奉普善;以两肩供奉双阿输众神;以两个吼叫部分供奉楼陀罗。
25.4
अग्नेः पक्षतिर् वायोर् निपक्षतिर् इन्द्रस्य तृतीया सोमस्य चतुर्थ्य् अदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताꣳ सप्तमी बृहस्पतेर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी ॥ २५.४ ॥
阿耆尼之翼,伐由之下翼,因陀罗之第三,苏摩之第四,阿底提之第五,因陀罗尼之第六,摩如特之第七,梵天主之第八,阿利耶曼之第九,达陀之第十,因陀罗之第十一,伐楼那之第十二,阎摩之第十三。
25.5
इन्द्राग्न्योः पक्षतिर् सरस्वत्यै निपक्षतिर् मित्रस्य तृतीयापां चतुर्थी निर्ऋत्यै पञ्चम्य् अग्नीषोमयोः षष्ठी सर्पाणाꣳ सप्तमी विष्णोर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम् ॥ २५.५ ॥
因陀罗与阿耆尼之翼,属萨罗室伐蒂;密多罗之下翼为第三;水为第四,尼厘底为第五,阿耆尼与苏摩为第六,诸蛇为第七,毗湿奴为第八,普善为第九,特瓦湿多为第十,因陀罗为第十一,伐楼那为第十二,属阎密为第十三;天地之右侧,诸神之左侧。
25.6
मरुताꣳ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्याम् इन्द्राबृहस्पती ऽ ऊरुभ्यां मित्रावरुणाव् अल्गाभ्याम् आक्रमणꣳ स्थूराभ्यां बलं कुष्ठाभ्याम् ॥ २५.६ ॥
诸摩录多的肩膀;众神的第一根肋骨;楼陀罗的第二根;阿底提耶的第三根;风神的尾巴;火神与苏摩的两个臀部;因陀罗与梵主的两个髋部;密特罗与伐楼那的两条大腿;以两侧行进;以两个粗壮部位获得力量;以两个枢纽。
25.7
पूषणं वनिष्ठुनान्धाहीन्त् स्थूलगुदया सर्पान् गुदाभिर् विह्रुत ऽ आन्त्रैर् अपो वस्तिना वृषणम् आण्डाभ्यां वाजिनꣳ शेपेन प्रजाꣳ रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः ॥ २५.७ ॥
以喉部供养布善;以粗大的肛门供养诸蛇;以肛门供养诸蛇;以肠子供养脱臼的关节;以膀胱供养水;以两个睾丸供养睾丸;以阴茎供养骏马;以精液供养子嗣;以胆汁供养恰沙鸟;以直肠供养溃疡;以沙可团供养库什玛。
25.8
इन्द्रस्य क्रोडो ऽदित्यै पाजस्यं दिशां जत्रवो ऽदित्यै भसज् जीमूतान् हृदयौपशेनान्तरिक्षं पुरीतता नभ ऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिर् उपलान् प्लीह्ना वल्मीकान् क्लोमभिर् ग्लौभिर् गुल्मान् हिराभिः स्रवन्तीर् ह्रदान् कुक्षिभ्याꣳ समुद्रम् उदरेण वैश्वानरं भस्मना ॥ २५.८ ॥
因陀罗之胸属阿底提;胁属诸方;诸方之锁骨属阿底提;臀属云;心与其支柱属虚空;脏器之膜属天;以腹属赤鹅;以软骨属天界;以肾属山;以肠褶属石;以脾属蚁穴;以胰属丛林;以肝叶属溪流;以血管属河流;以肋属大海;以腹属吠舍婆罗;以灰。
25.9
विधृतिं नाभ्या धृतꣳ रसेनापो यूष्णा मरीचीर् विप्रुड्भिर् नीहारमूष्मणा शीनं वसया प्रुष्वा ऽ अश्रुभिर् ह्रादुनीर् दूषीकाभिर् अस्ना रक्षाꣳसि चित्राण्य् अङ्गैर् नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा ॥ २५.९ ॥
以脐为分隔;以汁为所承之水;以羹为光线;以滴为雾;以汽为寒;以脂为雨;以泪为闪电;以秽与血为罗刹;以肢体为繁星;以形为大地;以皮为对遮婆迦,娑婆诃。
25.10
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ २५.१० ॥
起初金胎(Hiraṇyagarbha)生起;他一出生便独自成为一切众生的主宰。他支撑着大地与此天空。我们应以祭品礼拜哪一位神?
25.11
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ २५.११ ॥
以其威德独自成为一切呼吸与眨眼众生、动转世界之王者;统治此二足与四足众生者。我们应以祭品礼拜哪一位神?
25.12
यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहाहुः ।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ २५.१२ ॥
以其威德而有这些雪山,据说与其水一起而有大海,其有这些方位,其有双臂。我们应以祭品礼拜哪一位神?
25.13
य ऽ आत्मदा बलदा यस्य विश्व ऽ उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ २५.१३ ॥
给予生命与力量者,众生皆崇拜之,诸神遵从其命令;其影即是不死,其影即是死亡。我们应以祭品礼拜哪一位神?
25.14
आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासो ऽ अपरीतास ऽ उद्भिदः ।
देवा नो यथा सदम् इद् वृधे ऽ असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ २५.१४ ॥
愿吉祥的意念从四面八方来到我们这里,不受阻碍,不可战胜,生生不息。愿诸神为了我们的增长始终如此,日复一日地作不知疲倦的守护者。
25.15
देवानां भद्रा सुमतिर् ऋजूयतां देवानाꣳ रातिर् अभि नो नि वर्तताम् ।
देवानाꣳ सख्यम् उप सेदिमा वयं देवा न ऽ आयुः प्र तिरन्तु जीवसे ॥ २५.१५ ॥
愿诸神的吉祥善意降临于寻求正直者;愿诸神的恩赐转向我们。我们已亲近诸神的友谊;诸神啊,延长我们的寿命,使我们得以生存。
25.16
तान् पूर्वया निविदा हूमहे वयं भगं मित्रम् अदितिं दक्षम् अस्रिधम् ।
अर्यमणं वरुणꣳ सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥ २५.१६ ॥
我们以古老的尼维德颂词召唤他们:Bhaga、Mitra、Aditi、不朽的Dakṣa、Aryaman、Varuṇa、Soma,以及双Aśvin。愿吉祥的Sarasvatī赐我们喜乐。
25.17
तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥ २५.१७ ॥
愿带来喜乐的风为我们吹来那剂良药;愿它来自慈母大地与慈父天空。愿榨取苏摩的带来喜乐的石头听见它。哦,双Aśvin,你们二者稳立而听。
25.18
तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे हूमहे वयम् ।
पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥ २५.१८ ॥
我们呼唤那统御动与静之物、激发思想的主宰以求保护。愿如Pūṣan为我们增益财富,那不朽的护卫也为我们的安康而在。
25.19
स्वस्ति न ऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस् तार्क्ष्यो ऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ २५.१९ ॥
愿声名远播的因陀罗赐予我们吉祥;愿遍知的普山赐予我们吉祥;愿无损车轮的塔尔克什亚赐予我们吉祥;愿布里哈斯帕蒂赐予我们吉祥。
25.20
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा ऽ अवसा गमन्न् इह ॥ २५.२० ॥
愿以斑驳之马为驾、以斑驳之母为母的风神摩录多,乘势而行、来赴集会,以火为舌,明智的、目如太阳的诸摩奴,以及一切天神,都带着庇护来到我们这里。
25.21
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः ।
स्थिरैर् अङ्गैस् तुष्टुवाꣳसस् तनूभिर् व्यशेमहि देवहितं यद् आयुः ॥ २५.२१ ॥
诸神啊,愿我们以耳听闻吉祥之事;值得敬拜的诸神啊,愿我们以眼见到吉祥之事。以坚固的肢体和身躯赞颂,愿我们获得有益于诸神的寿命。
25.22
शतम् इन् नु शरदो ऽ अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥ २५.२२ ॥
诸神啊,愿百个秋天确实与我们同在,在那里你们使我们的身体趋向衰老。在儿子成为父亲的地方,不要在中途损害我们的寿命。
25.23
अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।
विश्वे देवा ऽ अदितिः पञ्च जना ऽ अदितिर् जातम् अदितिर् जनित्वम् ॥ २५.२३ ॥
阿底提即天,阿底提即虚空,阿底提即母;她即父,她即子。一切天神即阿底提,五族即阿底提;已生者即阿底提,将生者即阿底提。
25.24
मा नो मित्रो वरुणो ऽ अर्यमायुर् इन्द्र ऽ ऋभुक्षा मरुतः परि ख्यन् ।
यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ २५.२४ ॥
愿弥陀罗、伐楼那、阿利耶曼、阿尤、因陀罗、乐布刹与摩录多不要疏忽我们,当我们在祭会中宣说神生之骏马、良马的英勇事迹时。
25.25
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङ् अजो मेम्यद् विश्वरूप ऽ इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥ २५.२५ ॥
当以净化与财富,从口中带走被覆盖者所取的供物时,善行、万相的山羊鸣叫,抵达因陀罗与普善所喜爱的道路。
25.26
एष छागः पुरो ऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनꣳ सौश्रवसाय जिन्वति ॥ २५.२६ ॥
此山羊被牵引在前,作为普善之分,属于一切天神,与马和骏马同行。可爱的圣饼供物,与骏马一起,特瓦师特利确实促使他获得荣誉。
25.27
यद्धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग ऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥ २५.२७ ॥
凡按季节应作为献祭之物的,是诸神之道:人们将马绕行三圈。此处普善(Pūṣan)的第一份,山羊,前往祭祀,向诸神宣告。
25.28
होताध्वर्युर् आवया ऽ अग्निमिन्धो ग्रावग्राभ ऽ उत शꣳस्ता सुविप्रः ।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ २५.२८ ॥
召请祭司(hotṛ)、祭仪司(adhvaryu)、āvayā、点火者、握石者,以及善于感悟的诵祭者(śaṃstṛ)。以这以音声完成、善于奉献的祭祀,啊,腹腔,请充盈吧!
25.29
यूपव्रस्का ऽ उत ये यूपवाहाश् चषालं ये ऽ अश्वयूपाय तक्षति ।
ये चार्वते पचनꣳ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥ २५.२९ ॥
凡砍削祭柱者、扛载祭柱者、为马柱制作环圈者、为马准备烹煮器皿者——愿他们的成就鼓舞我们。
25.30
उप प्रागात् सुमन् मे धायि मन्म देवानाम् आशा ऽ उप वीतपृष्ठः ।
अन्व् एनं विप्रा ऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥ २५.३० ॥
自诸神的方向,白脊者已近前;我善意的思想已被安放。受启示的智者们在他之后欢喜。在诸神的滋养中,我们结成了善好的纽带。
25.31
यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य ।
यद् वा घास्य प्रभृतम् आस्ये तृणꣳ सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥ २५.३१ ॥
凡是骏马(vājin)的系绳,马(arvan)头上的笼头与缰绳,以及放入其口中的草——愿这一切也为你在诸神之中而存在。
25.32
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति ।
यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥ २५.३२ ॥
凡是马的生肉上的蝇斑,凡是在烤叉(svarau)和斧(svadhitau)上沾染的污迹,凡是在祭祀助手(śamitṛ)双手与指甲上的——愿这一切也为你在诸神之中而存在。
25.33
यद् ऊवध्यम् उदरस्यापवाति य ऽ आमस्य क्रविषो गन्धो ऽ अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधꣳ शृतपाकं पचन्तु ॥ २५.३३ ॥
凡是从腹内膜流出的,以及生肉的气味——愿祭祀助手们好好地处理它;并将神圣的肉(medha)煮熟烹调。
25.34
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति ।
मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥ २५.३४ ॥
当你的肢体在火中烹煮时,流向被刺杀者的烤叉的部分——愿它不落到地上,也不落到草上;愿它献给渴望它的诸神。
25.35
ये वाजिनं परिपश्यन्ति पक्वं य ऽ ईम् आहुः सुरभिर् निर् हरेति ।
ये चार्वतो माꣳसभिक्षाम् उपासत ऽ उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥ २५.३५ ॥
那些注视着马的人,那些对煮熟之物说“取出香者”的人,那些请求马肉的人——愿他们的恩惠(abhigūrti)推动我们。
25.36
यन्नीक्षणं माꣳस्पचन्या उखाया या पात्राणि यूष्ण ऽ आसेचनानि ।
ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥ २५.३६ ॥
煮肉锅的搅勺、器皿、洒汤的勺子、热中的盖子、羹碗(carū)的标记以及屠宰之处——这些装饰着马。
25.37
मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः ।
इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥ २५.३७ ॥
愿带有烟气的火神不要灼伤你;烤叉在焦灼的部分上闪光。献上、接受、受恩、作为瓦沙特供物——愿诸神接受那匹马。
25.38
निक्रमणं निषदनं विवर्तनं यच् च पड्वीशम् अर्वतः ।
यच् च पपौ यच् च घासिं जघास सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥ २५.३८ ॥
马的出行、坐卧、转身、蹄步,所饮、所食之草——愿这一切属于你,存在于诸神之中。
25.39
यद् अश्वाय वास ऽ उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै ।
संदानम् अर्वन्तं पड्वीशं प्रिया देवेष्व् आ यामयन्ति ॥ २५.३९ ॥
为马铺设的衣物、上层覆盖、为它的金饰、缰绳、马以及蹄绊——这些把它引向可爱的诸神。
25.40
यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
स्रुचेव ता हविषो ऽ अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ २५.४० ॥
凡在你的座位上被用力、以脚跟或鞭子刺击的,我以神圣的咒语将其全部献上,如祭礼中用勺子奉上的供品。
25.41
चतुस्त्रिꣳशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति ।
अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥ २५.४१ ॥
神之伴侣马的三十四个部位;斧头抵达马弯曲的肋骨。使各部位完整而正确地安置;逐节宣告,将其分开切割。
25.42
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऽ ऋतुः ।
या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानां प्र जुहोम्य् अग्नौ ॥ २५.४२ ॥
特瓦什特里之马的一部分用于切割;有两位驾驭者,季节亦然。我依时节所制作的那些肢体的祭饼,我投入火中献祭。
25.43
मा त्वा तपत् प्रिय ऽ आत्मापियन्तं मा स्वधितिस् तन्व ऽआ तिष्ठिपत् ते ।
मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥ २५.४३ ॥
愿亲爱的气息在离去时不灼烧你;愿斧头不停留在你的身体上。愿贪婪的斧头不使你未被切割;穿过关节之间,以剑将肢体分开。
25.44
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पृषती ऽ अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥ २५.४४ ॥
你不会死去,也不会受损;你沿着平坦的道路走向诸神。你那两匹花斑马已套上轭;强健的马已来到驴的轭旁。
25.45
सुगव्यं नो वाजी स्वश्व्यं पुꣳसः पुत्राꣳ२ऽ उत विश्वापुषꣳ रयिम् ।
अनागास्त्वं नो ऽ अदितिः कृणोतु क्षत्रं नो ऽ अश्वो वनताꣳ हविष्मान् ॥ २५.४५ ॥
愿强健的马赐予我们良好的牧草、优良的马匹、人的子嗣以及养育万物的财富。阿提提啊,使我们无罪;愿具足祭品的马为我们赢得力量。
25.46
इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः ।
आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्मभ्यं भेषजा करत् ।
यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह सीषधाति ॥ २५.४६ ॥
愿我们使这些世界确实吉祥;愿因陀罗与一切神也如此。愿因陀罗与其众随从,连同阿提提亚与摩录多,为我们准备药物。愿因陀罗与阿提提亚一同使我们的祭祀、身体与子嗣吉祥。
25.47
अग्ने त्वं नो ऽ अन्तम ऽ उत त्राता शिवो भव वरूथ्यः ।
वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ २५.४७ ॥
阿耆尼啊,愿你成为最亲近我们的守护者;愿你吉祥而护佑。富有盛名的婆苏阿耆尼,请抵达并赐予最光明的财富。最炽烈、光辉的神啊,我们此刻为了朋友们的福祉而祈求你。