Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.1

मयि गृह्णाम्य् अग्रे ऽ अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।
माम् उ देवताः सचन्ताम् ॥ १३.१ ॥

为了财富的滋养、良好的子嗣与良好的精力,我先将阿耆尼纳入自身。愿诸神与我相聚。

13.2

अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥ १३.२ ॥

你是水的背脊,阿耆尼的源头,四面流动的海洋。增长而伟大,在莲花中、以天空的尺度与广阔展开吧。

13.3

ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः ।
स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥ १३.३ ॥

梵起初在东方诞生,从界限中分离而光耀;那光辉的吠那将其显露。他从根基升起,安住于其最近之处,为你们开启了有的源头与无的源头。

13.4

हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ १३.४ ॥

起初金胎生起;他生而为一切众生唯一的主宰。他承载大地与此天空。我们当以供物祭祀哪一位神?

13.5

द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।
समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥ १३.५ ॥

水滴落于大地与此天空,共同走向先前的同一处所。我遵循七位呼唤者,将此水滴献为供物。

13.6

नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ १३.६ ॥

向在大地上的诸蛇致敬。向在虚空与天界中的那些蛇致敬。

13.7

या ऽ इषवो यातुधानानां ये वा वनस्पतीꣳ१ ऽरनु ।
ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ १३.७ ॥

向那些作为食人鬼之箭的、沿树而行的、或卧于坑洞中的诸蛇致敬。

13.8

ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः ॥ १३.८ ॥

那些在天界光明之处、在太阳光线中、其座位设于水中的诸蛇,向它们致敬。

13.9

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन ।
तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥ १३.९ ॥

如网般在广阔的大地上展开你的力量。如国王般强盛,与象队同行。迅速追随网络,以最炽热的武器刺穿罗刹。

13.10

तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।
तपूꣳष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥ १३.१० ॥

你旋转的火焰迅疾落下。阿耆尼啊,勇猛燃烧,去触碰它们。阿耆尼啊,无拘无束,将炽热的火焰射向借助勺子飞翔者,将火星抛向四面八方。

13.11

प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः ।
यो नो दूरे ऽ अघशꣳसो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥ १३.११ ॥

啊阿耆尼,驱散敌人的窥探者;成为最迅捷者,做这族人不败的守护者。愿远近那个咒我们的人,不会以伤害触及你,啊阿耆尼。

13.12

उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते ।
यो नो ऽ अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥ १३.१२ ॥

啊阿耆尼,起身,向前,展开你的力量;用锐利的火焰焚烧敌人。啊点燃的阿耆尼,那对我们怀有敌意的人,请使他低下,像干柴一样将他烧尽。

13.13

ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् ।
अग्नेष् ट्वा तेजसा सादयामि ॥ १३.१३ ॥

啊阿耆尼,升高;远离我们,刺穿敌人;啊阿耆尼,显现神圣的力量。使妖术者坚固的武器低垂;消灭敌人,无论亲疏。我以阿耆尼的光辉安置你。

13.14

अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाꣳ रेताꣳसि जिन्वति ।
इन्द्रस्य त्वौजसा सादयामि ॥ १३.१४ ॥

此阿耆尼是天之首、地之巔与主;他激发水中的种子。我以因陀罗的力量安置你。

13.15

भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम् ॥ १३.१५ ॥

你是世界、祭祀与中间空间的引导者,在那里你与迅捷吉祥的骏马相连。阿耆尼啊,你把头顶在天上;你造就了运载供物的舌头。

13.16

ध्रुवासि धरुणास्तृता विश्वकर्मणा ।
मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳह ॥ १३.१६ ॥

你坚固而承载,由毗首羯磨铺设。愿海洋不向上击打你,愿金翅鸟也不击打;你不动摇,使大地坚固。

13.17

प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् ।
व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि ॥ १३.१७ ॥

愿生主将你安置在海洋水面之上。展开吧,广阔而伸展;你就是大地。

13.18

भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीं मा हिꣳसीः ॥ १३.१८ ॥

你是地(Bhū)、大地、阿底提,一切所载者,承载一切世界。护持大地,使大地坚固,不要伤害大地。

13.19

विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ १३.१९ ॥

为一切,为入息,为出息,为遍行气,为上行气,为立足安住,为运行。愿阿耆尼以大吉祥与庇护,以那位最为吉祥的神明护卫你;如安吉罗娑那样稳固地坐下。

13.20

काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ १३.२० ॥

哦,杜尔瓦草,从节到节生长,绕着每个结蔓延,如此为我们以千与百延展开去。

13.21

या शतेन प्रतनोषि सहस्रेण विरोहसि ।
तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥ १३.२१ ॥

你以百而延展、以千而生长,哦女神砖(iṣṭakā),我们以祭品礼敬你。

13.22

यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥ १३.२२ ॥

哦阿耆尼,你在太阳中的那些光芒以光线铺展天空,愿今日以这一切光芒使我们与人民光明。

13.23

या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ १३.२३ ॥

诸神啊,你们在太阳、牛群和马匹中的那些光芒,因陀罗与阿耆尼,布利哈斯帕提,愿以这一切光芒赐予我们光辉。

13.24

विराड् ज्योतिर् अधारयत् ।
स्वराड् ज्योतिर् अधारयत् ।
प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ १३.२४ ॥

毗罗吉握持光明,自罗吉握持光明。愿生主将你置于大地之背,充满光明。为一切人之上气、下气、遍气,赐予全部光明。阿耆尼是你的主;与那神明一道,如安吉罗们那样稳固地坐下。

13.25

मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १३.२५ ॥

蜜与摩陀婆,此二为春季。你是阿耆尼的内接合。愿天地得以准备;愿水与草木得以准备;愿诸火得以准备。为求至上,向各自持同一誓愿的诸火分别致敬。愿同心的诸火在天地之间,准备这些春季,如诸神进入因陀罗那样进入。与该神祇一同,如安吉罗s那样坚定地坐下。

13.26

अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः ।
सहस्रवीर्यासि सा मा जिन्व ॥ १३.२६ ॥

你是不可征服者,能压制一切。压服敌人;压服那些求战的人。你具有千种力量;愿你使我充满活力。

13.27

मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्व् ओषधीः ॥ १३.२७ ॥

风为了宇宙秩序而吹拂甘甜;河流流淌甘甜。愿草木对我们甘美。

13.28

मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः ।
मधु द्यौर् अस्तु नः पिता ॥ १३.२८ ॥

愿夜与晨曦甘甜;愿地上之界充满甘美。愿天成为我们甘美的父亲。

13.29

मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः ।
माध्वीर् गावो भवन्तु नः ॥ १३.२९ ॥

愿林木之主对我们甘美;愿太阳甘美。愿我们的牛群甘美。

13.30

अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः ।
अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥ १३.३० ॥

坐于水之深处;愿太阳不灼烧你,亦愿维什婆那罗火不灼烧你。愿无断叶之众生善视你;愿天雨随你而来。

13.31

त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् ।
पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥ १३.३१ ॥

愿那穿越三海与诸天、为水之主、砖块中之公牛、以土为衣者,在善业之界前往先人已去之处。

13.32

मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥ १३.३२ ॥

愿广大的天与地洒此我们的祭祀;愿以养生之物充满我们。

13.33

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥ १३.३३ ॥

看毗湿奴之业,因之而见誓愿;他是因陀罗相宜的伴侣与朋友。

13.34

ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः ।
स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥ १३.३४ ॥

你坚固而承载;先从这些胎中生出了迦陀吠陀。愿他以伽耶特里、特里修图与阿努修图诸韵律,明达地将祭品送往诸神。

13.35

इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय ।
सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् ॥ १३.३५ ॥

为食物、财富、力量、光辉、活力与子嗣而欢喜吧。你是王者,你是自主者。愿两股萨罗室伐底之泉保护你。

13.36

अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्ति मन्यवे ॥ १३.३६ ॥

啊阿耆尼,确实请套上你那些熟练的马。它们为心意的渴望而好好地驮载。

13.37

युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥ १३.३७ ॥

确实,请套上最受诸神呼唤的马,啊阿耆尼,如同御者。愿古老的呼唱者在其座位上坐下。

13.38

सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः ॥ १३.३८ ॥

如河流与溪水般流淌得好,由心与意在内净化。我看见酥油之流,阿耆尼中央的金色芦苇。

13.39

ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा ।
अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च ॥ १३.३९ ॥

为了颂诗,我取你;为了光辉,我取你;为了明亮,我取你;为了光明,我取你。这成为了整个世界的活力,也是火神吠舍婆那罗的活力。

13.40

अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ।
सहस्रदा ऽ असि सहस्राय त्वा ॥ १३.४० ॥

阿耆尼以光明而充满光明,以光辉而金色灿烂。你是千倍赐予者;为了千,我取你。

13.41

आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ।
परि वृङ्धि हरसा माभि मꣳस्थाः शतायुषं कृणुहि चीयमानः ॥ १३.४१ ॥

啊,阿耆尼,请用乳汁浸润作为太阳的胎藏,环绕千形万相的毗首罗波之像。不要以炽热来伤害我;在成长中赐予我百年寿命。

13.42

वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये ।
शिशुं नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिꣳसीः परमे व्योमन् ॥ १३.४२ ॥

啊,阿耆尼,你是风的速疾,是伐楼那之脐,是生于水中的骏马,是河流之子,是赤褐色的,立于山根之上。请在至高的天空中不要伤害我们。

13.43

अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर् ऋतुशः कल्पमानो गां मा हिꣳसीर् अदितिं विराजम् ॥ १३.४३ ॥

我以礼敬赞颂不息、光明、赤红、迅疾的阿耆尼,那先觉者。他随季节以关节塑造万物,愿他不伤害母牛(大地),也不伤害光耀的阿底提。

13.44

वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् ।
महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन् ॥ १३.४४ ॥

这是特瓦湿陀与伐楼那之脐,从远方之界所生的守护之羊(或作衣饰之形),是拥有千种力量的阿修罗之大幻术。啊,阿耆尼,请在至高的天空中不要伤害我们。

13.45

यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि ।
येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥ १३.४५ ॥

那从阿耆尼而生的阿耆尼,从大地或天空之火焰而生,毗首羯摩借之而产生众生——啊,阿耆尼,愿你的愤怒远离他。

13.46

चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥ १३.४६ ॥

诸神的奇妙光辉升起,是弥special、伐楼那与阿耆尼的眼睛。阿耆尼啊,你充满了天、地与虚空;太阳是动与不动世界的灵魂。

13.47

इमं मा हिꣳसीर् द्विपादं पशुꣳ सहस्राक्षो मेधाय चीयमानः ।
मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।
मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥ १३.४७ ॥

请勿为我伤害这两足之兽,千眼的阿耆尼啊,你正被堆积以供祭祀。阿耆尼啊,接受马尤兽与祭祀;借此堆积,安坐于你的身体中。愿马尤之忧临于我们所憎恨的人;愿你的忧临于他。

13.48

इमं मा हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥ १३.४८ ॥

请勿为我伤害这独蹄之兽,嘶鸣的骏马,群马中的良驹。我为你指定那林中的白色之兽;借此堆积,安坐于你的身体中。愿白兽之忧临于我们所憎恨的人;愿你的忧临于他。

13.49

इमꣳ साहस्रꣳ शतधारम् उत्सं व्यच्यमानꣳ सरिरस्य मध्ये ।
घृतं दुहानाम् अदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन् ।
गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥ १३.४९ ॥

这千流百道的泉源,在湖中央扩展,挤出酥油的阿底提,为了人民,阿耆尼啊,不要在至高的天空中伤害它。我将野生的伽瓦耶分配给你;以此装饰身体,坐下。愿伽瓦耶的灼痛到达你;愿它到达我们所憎恨的人。

13.50

इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् ।
उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥ १३.५० ॥

这身披羊毛者,婆楼那的肚脐,兽类、两足与四足动物的皮,特瓦斯特里众生的第一个诞生处,阿耆尼啊,不要在至高的天空中伤害它。我将野生骆驼分配给你;以此装饰身体,坐下。愿骆驼的灼痛到达你;愿它到达我们所憎恨的人。

13.51

अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।
तेन देवा देवताम् अग्रम् आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः ।
शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥ १३.५१ ॥

阿遮实为从阿耆尼之热而生。他在起初见到了生育者。借由他,诸神获得了至高的神性;借由他,洁净者抵达了升举。我把你指派于林中的鹿之后;借它而营造,坐于你的身中。愿你的忧愁抵达鹿;愿你的忧愁抵达我们所憎恨的人。

13.52

त्वं यविष्ठ दाशुषो नॄꣳः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥ १३.५२ ॥

啊最年轻者,请保护献施的人们;聆听我们的颂歌。以你自身护佑子嗣。

13.53

अपां त्वेमन्त् सादयामि ।
अपां त्वोद्मन्त् सादयामि ।
अपां त्वा भस्मन्त् सादयामि ।
अपां त्वा ज्योतिषि सादयामि ।
अपां त्वायने सादयामि ।
अर्णवे त्वा सदने सादयामि ।
समुद्रे त्वा सदने सादयामि ।
सरिरे त्वा सदने सादयामि ।
अपां त्वा क्षये सादयामि ।
अपां त्वा सधिषि सादयामि ।
अपां त्वा सदने सादयामि ।
अपां त्वा सधस्थे सादयामि ।
अपां त्वा योनौ सादयामि ।
अपां त्वा पुरीषे सादयामि ।
अपां त्वा पाथसि सादयामि ।
गायत्रेण त्वा छन्दसा सादयामि ।
त्रैष्टुभेन त्वा छन्दसा सादयामि ।
जागतेन त्वा छन्दसा सादयामि ।
आनुष्टुभेन त्वा छन्दसा सादयामि ।
पाश्रून त्वा छन्दसा सादयामि ॥ १३.५३ ॥

我将你安置于水的流动之中。我将你安置于水的上升之中。我将你安置于水的灰烬般的状态之中。我将你安置于水的光明之中。我将你安置于水的道路之中。我将你安置于大洋的座位上。我将你安置于大海的座位上。我将你安置于流动者的座位上。我将你安置于水的居所之中。我将你安置于水的共同座位上。我将你安置于水的座位上。我将你安置于水的共享之处。我将你安置于水的胎藏之中。我将你安置于水的充盈之中。我将你安置于水中。我以伽耶特里韵律安置你。我以特里斯图普韵律安置你。我以耆伽提韵律安置你。我以阿努什图普韵律安置你。我安置你,帕什鲁砖,以此韵律。

13.54

अयं पुरो भुवः ।
तस्य प्राणो भौवनायः ।
वसन्तः प्राणायनः ।
गायत्री वासन्ती ।
गायत्र्यै गायत्रम् ।
गायत्राद् उपाꣳशुः ।
उपाꣳशोस् त्रिवृत् ।
त्रिवृतो रथन्तरम् ।
वसिष्ठ ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ॥ १३.५४ ॥

此为东方,属于虚空界(bhuvaḥ)。其气息为婆婆那耶(Bhauvanāya)。春为导气者(Prāṇāyana)。伽耶特里属春。伽耶特里属伽耶特罗(Gāyatra)。由伽耶特罗出优婆昙舒(Upāṃśu)。由优婆昙舒出三重(Trivṛt)。三重属罗陀扬多罗(Rathantara)。婆私吒为仙人。被生主所执之你,我为众生取气息。

13.55

अयं दक्षिणा विश्वकर्मा ।
तस्य मनो वैश्वकर्मणम् ।
ग्रीष्मो मानसः ।
त्रिष्टुब् ग्रैष्मी ।
त्रिष्टुभः स्वारम् ।
स्वाराद् अन्तर्यामः ।
ऽअन्तर्यामात् पञ्चदशः ।
पञ्चदशाद् बृहत् ।
भरद्वाज ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥ १३.५५ ॥

此为南方,毗湿伐迦尔玛(Viśvakarmā)。其心为毗湿伐迦尔摩那(Vaiśvakarmaṇa)。夏为意之夏(mānasa)。特里什图普属夏。由特里什图普出娑罗(Svāra)。由娑罗出安多雅摩(Antaryāma)。由安多雅摩出五十五(Pañcadaśa)。由五十五出布里哈特(Bṛhat)。婆罗堕遮为仙人。被生主所执之你,我为众生取心意。

13.56

अयं पश्चाद् विश्वव्यचाः ।
तस्य चक्षुर् वैश्वव्यचसम् ।
वर्षाश् चाक्षुष्यः ।
जगती वार्षी ।
जगत्या ऽ ऋक्समम् ।
ऋक्समाच् छुक्रः ।
शुक्रात् सप्तदशः ।
सप्तदशाद् वैरूपम् ।
जमदग्निर् ऋषिः ।
प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः ॥ १३.५६ ॥

此为后方,遍及一切。其眼属于遍及一切者。雨与属于眼者。耆迦提韵律,属于雨。由耆迦提出ṛk-sāman。由ṛk-sāman出śukra。由śukra出十七。由十七出vairūpa。仙人为Jamadagni。被生主所执的你,我为众生取眼。

13.57

इदं उत्तरात् स्वः ।
तस्य श्रोत्रꣳ सौवम् ।
शरच् छ्रौत्री ।
अनुष्टुप् शारदी ।
अनुष्टुभ ऽ ऐडम् ।
ऐडान् मन्थी ।
मन्थिन ऽ एकविꣳशः ऽ ।
एकविꣳशाद् वैराजम् ।
विश्वामित्र ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥ १३.५७ ॥

此为北方之天。其耳属于Savitṛ。秋与属于听者。阿努什图卜韵律,属于秋。由阿努什图卜出aiḍa。由aiḍa出manthin。由manthin出二十一。由二十一出vairāja。仙人为Viśvāmitra。被生主所执的你,我为众生取耳。

13.58

इयं उपरि मतिः ।
तस्यै वाङ् मात्या ।
हेमन्तो वाच्यः ।
पङ्क्तिर् हैमन्ती ।
पङ्क्त्यै निधनवत् ।
निधनवत ऽ आग्रयणः ।
आग्रयणात् त्रिणवत्रयस्त्रिꣳशौ ।
त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते ।
विश्वकर्म ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ॥ १३.५८ ॥

此为上位之度。其度为言。冬当被言说。Paṅkti属冬。为Paṅkti,配以终句。由终句而有始获祭。由始获祭而有三九与三十三赞歌。以三九与三十三,有Śākvara与Raivata。Viśvakarman为仙人。由被Prajāpati所执之你,我为众生取言语。