薄伽梵歌 · 章 11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.1
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११.१ ॥
阿周那说:你为恩待我而宣说了名为“内我”的至高奥秘,凭这番话,我的这种迷惑已经消除。
11.2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११.२ ॥
莲花眼者啊,我已从你那里详细听闻众生的生起与消亡,也听闻了你不朽的伟大。
11.3
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११.३ ॥
至高之主啊,正如你对自身的描述,事实正是如此。至上之人啊,我渴望看到你作为主宰的形相。
11.4
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम् ॥ ११.४ ॥
主啊,如果你认为我能够见到它,那么瑜伽之主啊,请向我显示你不朽的自我。
11.5
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११.५ ॥
薄伽梵说:普利塔之子啊,看我成百上千的形相,种类繁多,神圣非凡,色彩与形状各异。
11.6
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ॥ ११.६ ॥
婆罗多子孙啊,看那众阿底提耶、众婆薮、众楼陀罗、双马童和众摩录多;看那许多前所未见的奇迹。
11.7
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ११.७ ॥
古达克舍啊,今天就在这里,看我身中聚于一处的整个宇宙,包括动与不动之物,以及你想看的其他一切。
11.8
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११.८ ॥
但你用自己的这双眼睛无法看见我。我赐你天眼;看我自在主的瑜伽神力吧。
11.9
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११.९ ॥
全胜说:国王啊,说完这些,伟大的瑜伽之主诃利便向普利塔之子显示了他至高的自在主之相。
11.10
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११.१० ॥
有无数的口和眼,无数奇妙的景象,无数神圣的饰物,高举着无数神圣的兵器;
11.11
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११.११ ॥
佩戴神圣的花环与衣裳,涂抹神圣的香膏,充满一切奇迹,这位神无边无际,面向四面八方。
11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११.१२ ॥
倘若天空中千个太阳的光芒同时升起,或许才能与那位伟大者的光辉相似。
11.13
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११.१३ ॥
那时,般度之子在众神之神的身体中,看到整个宇宙以种种方式分化,却汇聚于一处。
11.14
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११.१४ ॥
于是,胜财充满惊奇,汗毛竖立,向神低头敬礼,合掌而言。
11.15
पश्यामि देवांस्तव देव देहे ।
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ ।
मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११.१५ ॥
阿周那说:神啊,我在你的身体中看见一切天神和各类众生,看见坐于莲花座上的主宰梵天,一切仙人和神圣的蛇。
11.16
अनेकबाहूदरवक्त्रनेत्रं ।
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं ।
पश्यामि विश्वेश्वर विश्वरूप ॥ ११.१६ ॥
宇宙之主啊,宇宙之相啊,我看见你遍及各处,形相无穷,有无数手臂、腹部、口和眼睛。我看不到你的终点、中间,也看不到你的起点。
11.17
किरीटिनं गदिनं चक्रिणं च ।
तेजोराशिं सर्वतोदीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता ।
द्दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११.१७ ॥
我看见你头戴宝冠,手持铁杵和圆盘,是一团四处闪耀的光辉,难以直视,周遭如烈火与太阳般炽亮,不可测量。
11.18
त्वमक्षरं परमं वेदितव्यं ।
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता ।
सनातनस्त्वं पुरुषो मतो मे ॥ ११.१८ ॥
你是不灭者,是应当了知的至上者;你是这宇宙的至上归宿。你是永恒不变者,是永恒正法的守护者;我认为你就是太古的原人。
11.19
अनादिमध्यान्तमनन्तवीर्य ।
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रम् ।
स्वतेजसा विश्वमिदं तपन्तम् ॥ ११.१९ ॥
我看见你无始、无中、无终,具有无限的威力,有无数的手臂,以日月为眼,口如燃烧的烈火,以自身的光辉灼热这个宇宙。
11.20
द्यावापृथिव्योरिदमन्तरं हि ।
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं ।
लोकत्रयं प्रव्यथितं महात्मन् ॥ ११.२० ॥
天地之间的这片空间和一切方向,都唯独由你遍满。伟大的灵魂啊,见到你这奇妙而可怖的形相,三界都在战栗。
11.21
अमी हि त्वां सुरसङ्घाः विशन्ति ।
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः ।
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११.२१ ॥
这些天神的群众进入你之中;有些人心怀恐惧,合掌赞颂你。大仙人和成就者的群众口称“吉祥”,以丰富的颂歌赞美你。
11.22
रुद्रादित्या वसवो ये च साध्या ।
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा ।
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११.२२ ॥
楼陀罗们、阿底提耶们、婆苏们、娑提耶们、众天神、双马童、摩录多们、食热气者,以及乾闼婆、夜叉、阿修罗和成就者的群众,全都惊奇地凝视着你。
11.23
रूपं महत्ते बहुवक्त्रनेत्रं ।
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं ।
दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥ ११.२३ ॥
大臂者啊,见到你这巨大的形相,有许多口和眼,许多手臂、大腿和脚,许多腹部,因许多獠牙而可怖,诸世界都惊恐不安,我也是如此。
11.24
नभःस्पृशं दीप्तमनेकवर्णं ।
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा ।
धृतिं न विन्दामि शमं च विष्णो ॥ ११.२४ ॥
毗湿奴啊,见到你高触天际,光焰闪耀,色彩繁多,张开大口,巨眼炽燃,我内心战栗,既找不到坚定,也找不到平静。
11.25
दंष्ट्राकरालानि च ते मुखानि ।
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म ।
प्रसीद देवेश जगन्निवास ॥ ११.२५ ॥
一见你那獠牙狰狞、如劫末之火般的众口,我便迷失方向,得不到安宁。众神之主啊,宇宙的居所啊,请垂怜!
11.26
अमी च त्वां धृतराष्ट्रस्य पुत्राः ।
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ ।
सहास्मदीयैरपि योधमुख्यैः ॥ ११.२६ ॥
持国的这些儿子们,连同众多国王,毗湿摩、德罗纳,还有那车夫之子,以及我方的主要战士们——
11.27
वक्त्राणि ते त्वरमाणा विशन्ति ।
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु ।
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११.२७ ॥
都急速涌入你那獠牙狰狞、令人恐怖的口中。有些人被夹在齿缝之间,头颅已被碾碎。
11.28
यथा नदीनां बहवोऽम्बुवेगाः ।
समुद्रमेवाभिमुखाः द्रवन्ति ।
तथा तवामी नरलोकवीरा ।
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११.२८ ॥
如同江河的众多激流奔向大海,人间的这些英雄也涌入你那烈焰熊熊的口中。
11.29
यथा प्रदीप्तं ज्वलनं पतङ्गा ।
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका ।
स्तवापि वक्त्राणि समृद्धवेगाः ॥ ११.२९ ॥
如同飞蛾以极速扑入熊熊烈火而自取毁灭,众生世界也以极速涌入你的口中走向毁灭。
11.30
लेलिह्यसे ग्रसमानः समन्ता ।
ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं ।
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११.३० ॥
毗湿奴啊,你以烈焰之口从四面八方吞噬一切世界,不断舔舐。你那猛烈的光芒以光辉充满整个宇宙,炙烤着它。
11.31
आख्याहि मे को भवानुग्ररूपो ।
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं ।
न हि प्रजानामि तव प्रवृत्तिम् ॥ ११.३१ ॥
请告诉我,形相如此可怖的你是谁。向你致敬,众神之中最殊胜者,请你慈悲。我想了解你这位本初者,因为我不明白你的作为。
11.32
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो ।
लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे ।
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११.३२ ॥
薄伽梵说:我是时间,强盛的世界毁灭者,在此正要收摄诸世界。即使没有你,对面军阵中列队的所有战士也都将不复存在。
11.33
तस्मात्त्वमुत्तिष्ठ यशो लभस्व ।
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव ।
निमित्तमात्रं भव सव्यसाचिन् ॥ ११.३३ ॥
因此你起来,赢取荣耀吧;战胜敌人,享受繁荣的王国。他们早已被我所杀;左右开弓者啊,你只需作为工具。
11.34
द्रोणं च भीष्मं च जयद्रथं च ।
कर्णं तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा ।
युध्यस्व जेतासि रणे सपत्नान् ॥ ११.३४ ॥
德罗纳、毗湿摩、胜车、迦尔纳以及其他英勇的战士,都已被我所杀,你去杀他们吧;不要苦恼。战斗吧,你将在战场上战胜对手。
11.35
एतच्छ्रुत्वा वचनं केशवस्य ।
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं ।
सगद्गदं भीतभीतः प्रणम्य ॥ ११.३५ ॥
全胜说:听了盖舍婆的这番话,戴冠者双手合十,颤抖着行礼致敬,满怀恐惧,再次俯首,以哽咽的声音又对黑天说道。
11.36
स्थाने हृषीकेश तव प्रकीर्त्या ।
जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति ।
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११.३६ ॥
阿周那说:感官之主啊,世界因赞颂你而欢喜、心生爱慕,这是理所当然的;罗刹们惊恐地向四方逃散,所有成就者的群众都向你顶礼。
11.37
कस्माच्च ते न नमेरन्महात्मन् ।
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास ।
त्वमक्षरं सदसत्तत्परं यत् ॥ ११.३७ ॥
伟大的灵魂啊,你甚至比梵天更伟大,是最初的创造者,他们怎能不向你敬拜?无限者啊,众神之主,宇宙的居所,你是不灭者,是有与非有,也是超越二者的那至高者。
11.38
त्वमादिदेवः पुरुषः पुराण ।
स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम ।
त्वया ततं विश्वमनन्तरूप ॥ ११.३८ ॥
你是太初之神、古老的原人;你是这宇宙的至高归宿。你是知者,是所知,也是至高的居所。无限形相者啊,宇宙为你所遍满。
11.39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः ।
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः ।
पुनश्च भूयोऽपि नमो नमस्ते ॥ ११.३९ ॥
你是风神伐由、阎摩、火神阿耆尼、伐楼那、月亮、生主,以及曾祖。向你敬礼,敬礼,千遍敬礼;再一次,又一次,向你敬礼,敬礼!
11.40
नमः पुरस्तादथ पृष्ठतस्ते ।
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं ।
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११.४० ॥
在你面前敬礼,在你背后敬礼;一切者啊,从四面八方向你敬礼。你具无限的勇力、无量的威能,遍及一切,所以你就是一切。
11.41
सखेति मत्वा प्रसभं यदुक्तं ।
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं ।
मया प्रमादात्प्रणयेन वापि ॥ ११.४१ ॥
我把你当作朋友,不知你这般伟大,出于疏忽或亲爱,轻率地说"喂,黑天!喂,雅度族人!喂,朋友!",
11.42
यच्चावहासार्थमसत्कृतोऽसि ।
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं ।
तत्क्षामये त्वामहमप्रमेयम् ॥ ११.४२ ॥
以及为了戏谑而对你不敬,无论在游戏、卧息、坐处或用餐之时,独处或在众人面前,不坠者啊,为此我恳求无量的你宽恕。
11.43
पितासि लोकस्य चराचरस्य ।
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो ।
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११.४३ ॥
你是这动与不动世界之父,是它所应崇敬者,是最尊贵的导师。威力无比者啊,三界之中无人与你相等,又怎会有他者胜过你?
11.44
तस्मात्प्रणम्य प्रणिधाय कायं ।
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः ।
प्रियः प्रियायार्हसि देव सोढुम् ॥ ११.४४ ॥
因此,我俯身礼拜,五体投地,祈求你这值得赞颂的主垂恩。神啊,如父亲容忍儿子,朋友容忍朋友,爱人容忍所爱,愿你也宽容我。
11.45
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा ।
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं ।
प्रसीद देवेश जगन्निवास ॥ ११.४५ ॥
见到前所未见之相,我欣喜万分,然而我的心也因恐惧而震颤。神啊,请向我显示你原来的那个形象;众神之主、宇宙的居所啊,请垂慈悲。
11.46
किरीटिनं गदिनं चक्रहस्त ।
मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन ।
सहस्रबाहो भव विश्वमूर्ते ॥ ११.४६ ॥
我愿如从前一样见到你头戴宝冠、手持铁杵与神轮。千臂者啊,宇宙之身啊,请现出那四臂之形。
11.47
मया प्रसन्नेन तवार्जुनेदं ।
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं ।
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११.४७ ॥
薄伽梵说:阿周那啊,我因喜悦,以自身的瑜伽力向你显示了这至高之形,光辉灿烂、遍及宇宙、无边无际、原初本始;除你之外,从未有人见过。
11.48
न वेदयज्ञाध्ययनैर्न दानै ।
र्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके ।
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११.४८ ॥
俱卢族的英雄啊,无论凭吠陀、祭祀与诵习,凭布施,凭仪轨,还是凭严酷的苦行,在人间除你之外,无人能见到我这般形象。
11.49
मा ते व्यथा मा च विमूढभावो ।
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं ।
तदेव मे रूपमिदं प्रपश्य ॥ ११.४९ ॥
见到我这样可怕的形相,你不要苦恼,也不要迷惑。去除恐惧,心生欢喜,再看我原来的这个形相吧。
11.50
इत्यर्जुनं वासुदेवस्तथोक्त्वा ।
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं ।
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११.५० ॥
全胜说:婆薮天对阿周那这样说罢,又显现了自己本来的形相;这位伟大的灵魂重现温和的身形,安慰了惊恐的阿周那。
11.51
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११.५१ ॥
阿周那说:遮那陀那啊,看到你这温和的人形,我现在已经镇定下来,心神恢复,回到了本来的状态。
11.52
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११.५२ ॥
薄伽梵说:你所见到的我的这个形相极难得见。即使众天神也常常渴望见到这个形相。
11.53
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११.५३ ॥
像你所见到的我这样,无论凭借吠陀、苦行、布施还是祭祀,都不能见到。
11.54
भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन ।
ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ११.५४ ॥
阿周那啊,唯有凭借专一的虔信,才能如实地认识、见到这样的我,并进入我之中,克敌者啊。
11.55
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११.५५ ॥
般度之子啊,为我而行事、以我为至上、虔信于我、远离执着、对一切众生无有敌意的人,他就会来到我这里。