Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

23.1

हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ २३.१ ॥

金胎在起初显现。他作为万物唯一的主宰而生,支撑着大地与这天空。我们应当以献祭礼敬哪一位神?

23.2

उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
एष ते योनिः सूर्यस् ते महिमा ।
यस् ते ऽहन्त् संवत्सरे महिमा संबभूव यस् ते वायाव् अन्तरिक्षे महिमा संबभूव यस् ते दिवि सूर्ये महिमा संबभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः ॥ २३.२ ॥

你以upayāma器皿取得。我为生主取你作为所爱。这是你的源头;太阳是你的威德。在日与年中、风与虚空中、天与太阳中显现的威德,归于你的这威德:向生主娑婆诃,向诸神娑婆诃。

23.3

यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ २३.३ ॥

凭其威德独自成为呼吸与眨眼之世界之王者;主宰此二足与四足众生者。我们应当以献祭礼敬哪一位神?

23.4

उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
एष ते योनिश् चन्द्रस् ते महिमा ।
यस् ते रात्रौ संवत्सरे महिमा संबभूव यस् ते पृथिव्याम् अग्नौ महिमा संबभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥ २३.४ ॥

你被上阳摩器皿所取;我取你,令生主喜悦。此为你的位置,月亮是你的光辉。在夜与岁中生起的光辉,在地与火中生起的光辉,在星宿与月中生起的光辉——愿此光辉、生主与诸神得享斯瓦哈。

23.5

युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥ २३.५ ॥

他们驾起那明亮赤红、绕行于静立者之周的(太阳)。天上的光明之光闪耀。

23.6

युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥ २३.६ ॥

他们将他那两匹可爱的枣红马、羽翼斑斓者套上车:赤红、勇猛、载人。

23.7

यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।
एतꣳ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः ॥ २३.७ ॥

当风在诸水之间抵达因陀罗可爱的身躯时,啊赞颂者,请沿此路为我们将马再引回。

23.8

वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा ।
रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा ।
भूर् भुवः स्वर् लाजी३ञ् छाची३न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते ॥ २३.८ ॥

愿婆苏以伽耶特利韵律为你涂油。愿楼陀罗以特里斯图普韵律为你涂油。愿阿提提耶以耆伽提韵律为你涂油。Bhūḥ, bhuvaḥ, svaḥ。在大麦与牛乳制品中,诸神啊,食用此食;生主啊,食用此食。

23.9

कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥ २३.९ ॥

谁独自行走?谁又再次诞生?寒冷的药是什么?伟大的播种之地又是什么?

23.10

सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥ २३.१० ॥

太阳独自运行,月亮再次诞生。阿耆尼是霜冻的良药,大地是广大的播种之地。

23.11

का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥ २३.११ ॥

什么是最初的觉知?什么是伟大的生命力?什么是皮利皮拉?什么是皮尚吉拉?

23.12

द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥ २३.१२ ॥

天空是最初的觉知,马是伟大的生命力。母羊是皮利皮拉,夜晚是皮尚吉拉。

23.13

वायुष् ट्वा पचतैर् अवतु ।
असितग्रीवश् छागैः ।
न्यग्रोधश् चमसैः ।
शल्मलिर् वृद्ध्या ।
एष स्य राथ्यो वृषा ।
पड्भिश् चतुर्भिर् एद् अगन् ।
ब्रह्माकृष्णश् च नो ऽवतु ।
नमो ऽग्नये ॥ २३.१३ ॥

愿风神烹煮你并护佑你。黑颈者随山羊而来;榕树随勺杯而来;木棉随增长而来。这便是车上的公牛,与六和四同来。愿明亮的梵天护佑我们。敬礼阿耆尼。

23.14

सꣳशितो रश्मिना रथः सꣳशितो रश्मिना हयः ।
सꣳशितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः ॥ २३.१४ ॥

车以缰绳磨砺,马以缰绳磨砺。生于水中的梵天在水中磨砺,以苏摩为前导。

23.15

स्वयं वाजिꣳस् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व ।
महिमा ते ऽन्येन न संनशे ॥ २३.१५ ॥

骏马啊,你自己装扮你的身体;你自己献祭;你自己享用(祭品)。愿你的威严不被他人毁坏。

23.16

न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः ।
यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥ २३.१६ ॥

你实在不会死亡,也不会毁灭;你沿着顺利的道路前往诸神之处。愿善行者所居之处、他们所去之处,神萨维特里将你安置在那里。

23.17

अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ॥ २३.१७ ॥

火神曾是祭牲;他们以他献祭,他赢得了火神所在的这个世界。那个世界将属于你;你将赢得它。饮这些水吧。风神曾是祭牲;他们以他献祭,他赢得了风神所在的这个世界。那个世界将属于你;你将赢得它。饮这些水吧。太阳曾是祭牲;他们以他献祭,他赢得了太阳所在的这个世界。那个世界将属于你;你将赢得它。饮这些水吧。

23.18

प्राणाय स्वाहा ।
अपानाय स्वाहा ।
व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन ।
ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ २३.१८ ॥

献给上气(prāṇa),svāhā。献给下气(apāna),svāhā。献给遍气(vyāna),svāhā。母亲啊,安比卡啊,安巴利卡啊,无人引领我。骑马者使住在坎毗罗的苏跋德里卡入睡。

23.19

गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम ।
आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥ २३.१९ ॥

众群之主(Gaṇapati),我们召请你;众爱之主,我们召请你;众宝之主,我们召请你,我的婆苏啊。我已认识那赐予胎的主;你作为赐予胎者而生。

23.20

ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु ॥ २३.२० ॥

让我们二者伸展四足。在天界,让我们二者互相覆盖。愿公牛、勇健者、持精者播撒精液。

23.21

उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् ।
य स्त्रीणां जीवभोजनः ॥ २३.२१ ॥

公牛啊,将后孔与大腿一同放低;好好地移动那涂油,你是以女人之生命为食者。

23.22

यकासकौ शकुन्तिकाहलग् इति वञ्चति ।
आ हन्ति गभे पसो निगल्गलीति धारका ॥ २३.२२ ॥

亚迦、彼、沙昆提卡、阿哈拉格——如是他欺骗。在胎中他击打肉——尼迦尔迦利,如是;持者。

23.23

यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति ।
विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः ॥ २३.२३ ॥

亚可、彼、沙昆塔卡、阿哈拉格——如是他欺骗。啊,祭司,仿佛你的口想要说话;不要对我们说话。

23.24

माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।
प्रतिलामीति ते पिता गभे मुष्टिम् अतꣳसयत् ॥ २३.२४ ॥

你的母亲和父亲如同生长中的树梢。你的父亲说“我收回这个”,并在胎中放入一拳。

23.25

माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः ।
विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु ॥ २३.२५ ॥

你的母亲和父亲在树梢嬉戏。你的口似乎想要说话;婆罗门啊,你不要对我们多说。

23.26

ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव ।
अथास्यै मध्यम् एधताꣳ शीते वाते पुनन्न् इव ॥ २३.२६ ॥

将她高高举起,如同在山上负重。然后愿她的中部生长,如同在寒风中净化。

23.27

ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव ।
अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव ॥ २३.२७ ॥

将他高高举起,如同在山上负重。然后愿他的中部移动,如同在寒风中净化。

23.28

यद् अस्या ऽ अꣳहुभेद्याः कृधु स्थूलम् उपातसत् ।
मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव ॥ २३.२८ ॥

她那坚硬难断的粗大部分靠近了。她的两个睾丸颤动着,如同牛蹄上的两根筋。

23.29

यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः ।
सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥ २३.२९ ॥

当诸神使有标记者进入太阳时,女子以大腿被标记,如同从真理之眼所生的视力。

23.30

यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते ।
शूद्रा यद् अर्यजारा न पोषाय धनायति ॥ २३.३० ॥

如羚羊食大麦而不顾肥壮之畜,首陀罗作主人之妻的情人时,也不为生计求财。

23.31

यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते ।
शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते ॥ २३.३१ ॥

如羚羊食大麦而不顾众多肥壮之畜,首陀罗作主人之妻的情人时,只想着自己的生计。

23.32

दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
सुरभि नो मुखा करत् प्र ण ऽ आयूꣳषि तारिषत् ॥ २३.३२ ॥

我向胜利而迅捷的骏马达提克罗文献祭。愿它使我们的口中芬芳,延长我们的寿命。

23.33

गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।
बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा ॥ २३.३३ ॥

与伽耶特里、特里什图普、耆迦提、阿奴什图普、般克提诸韵律同在;愿布利哈提、乌什尼诃、迦恭普诸韵律以针缝合你。

23.34

द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः ।
विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥ २३.३४ ॥

愿二足、四足、三足、六足之韵,以及无定韵与有定韵者,以针缝合你。

23.35

महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः ।
मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥ २३.३५ ॥

愿摩诃那弥与莱瓦提诸颂,一切甚为强盛的方位,以及云中闪电之声,以针缝合你。

23.36

नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया ।
देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥ २३.३६ ॥

愿你的女人以心念收集你的毛发。愿诸神之妻——诸方——以针为你修饰。

23.37

रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः ।
अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः ॥ २३.३७ ॥

银、金饰与铅随仪式而系缚。在迅捷骏马的皮肤上,那些标记——愿修饰者得以修饰。

23.38

कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ॥ २३.३८ ॥

亲爱的,如同有大麦者依次脱粒大麦,在此处那处为那些以敬礼与颂词在吉祥草上供奉者备好食物。

23.39

कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति ।
क ऽ उ ते शमिता कविः ॥ २३.३९ ॥

谁来切割你?谁将你分而训示?谁修饰你的肢体?那为你修饰的智者又是谁?

23.40

ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु ।
संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा ॥ २३.४० ॥

你的季节,依时依序,作为你关节的修饰者,分别训示。以年岁的光辉,以沙弥木棒,愿它们为你修饰。

23.41

अर्धमासाः परूꣳषि ते मासा ऽ आ च्छ्यन्तु शम्यन्तः ।
अहोरात्राणि मरुतो विलिष्टꣳ सूदयन्तु ते ॥ २३.४१ ॥

半月是你的关节;愿诸月切割修饰你。日与夜,众风神啊,愿你们备好你的结扣。

23.42

दैव्या ऽ अध्वर्यवस् त्वा छ्यन्तु वि च आसतु ।
गात्राणि पर्वशस् ते सिमाः कृण्वन्तु शम्यन्तीः ॥ २३.४२ ॥

愿神圣的祭司们切割你、分开你。愿他们逐节拆解你的肢体,使之适于祭祀。

23.43

द्यौस् ते पृथिव्यन्तरिक्षं वायुश् छिद्रं पृणातु ते ।
सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥ २३.४३ ॥

愿天、地与虚空填满你的孔隙;愿风填补你的空缺。愿太阳与星辰一起为你造就一个美好的世界。

23.44

शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः ।
शम् अस्थभ्यो मज्जभ्यः शम् व् अस्तु तन्वै तव ॥ २३.४४ ॥

愿你的前肢有福祉,愿你的后肢有福祉。愿骨头与骨髓有福祉;愿你的身体有福祉。

23.45

कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥ २३.४५ ॥

谁独自运行?谁再次诞生?寒冷的药是什么?伟大的播种之地是什么?

23.46

सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥ २३.४६ ॥

太阳独自运行;月亮再次诞生。火是寒冷的药,大地是伟大的播种之地。

23.47

किꣳ स्वित् सूर्यसमं ज्योतिः किꣳ समुद्रसमꣳ सरः ।
किꣳ स्वित् पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥ २३.४७ ॥

什么光明等同于太阳?什么湖泊等同于大海?什么比大地更广阔?谁的尺度无法找到?

23.48

ब्रह्म सूर्यसमं ज्योतिर् द्यौः समुद्रसमꣳ सरः ।
इन्द्रः पृथिव्यै वर्षीयान् गोस् तु मात्रा न विद्यते ॥ २३.४८ ॥

梵是如太阳般的光明,天空是如大海般的湖泊。因陀罗比大地更伟大;然而牛群的度量无从找到。

23.49

पृच्छामि त्वा चितये देवसख यदि त्वम् अत्र मनसा जगन्थ ।
येषु विष्णुस् त्रिषु पदेष्व् एष्टस् तेषु विश्वं भुवनम् आ विवेशाꣳ३ऽ ॥ २३.४९ ॥

诸神之友,我问你:若你以心意来到此处,那毗湿奴所量度的三步之中,已进入一切世界。

23.50

अपि तेषु त्रिषु पदेष्व् अस्मि येषु विश्वं भुवनम् आविवेश ।
सद्यः पर्य् एमि पृथिवीम् उत द्याम् एकेनाङ्गेन दिवो ऽ अस्य पृष्ठम् ॥ २३.५० ॥

我也在那一切世界都已进入的三步之中。以一肢,我即刻环绕大地与天空,于此天空的背脊之上。

23.51

केष्व् अन्तः पुरुष ऽ आ विवेश कान्य् अन्तः पुरुषे ऽ अर्पितानि ।
एतद् ब्रह्मन्न् उपवल्हामसि त्वा किꣳ स्विन् नः प्रति वोचास्य् अत्र ॥ २३.५१ ॥

补鲁沙入于何中?补鲁沙之内安置了哪些?梵啊,为此我们呼唤你——你在此将如何answer我们?

23.52

पञ्चस्व् अन्तः पुरुष ऽ आ विवेश तान्य् अन्तः पुरुषे ऽ अर्पितानि ।
एतत् त्वात्र प्रतिमन्वानो ऽ अस्मि न मायया भवस्य् उत्तरो मत् ॥ २३.५२ ॥

补鲁沙入于五者之内;在其中,补鲁沙之内安置着它们。此处我思而答你:非以幻术;你高于我。

23.53

का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥ २३.५३ ॥

谁是最初的觉知?什么是伟大的生命力?谁是毕利毕利拉?谁是毕尚吉拉?

23.54

द्यौर् आसीत् पूर्वचित्तिः अश्वऽ आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥ २३.५४ ॥

天空是最初的觉知;马是伟大的生命力;母羊是毕利毕利拉;夜是毕尚吉拉。

23.55

का ऽ ईमरे पिशंगिला का ऽ ईं कुरुपिशंगिला ।
क ऽ ईम् आस्कन्दम् अर्षति क ऽ ईं पन्थां वि सर्पति ॥ २३.५५ ॥

这里的毕尚吉拉是谁?库噜毕尚吉拉是谁?谁跳跃着奔跑?谁沿着道路爬行?

23.56

अजारे पिशंगिला श्वावित् कुरुपिशंगिला ।
शश आस्कन्दम् अर्षत्य् अहिः पन्थां वि सर्पति ॥ २३.५६ ॥

此处山羊是毕尚吉拉;似狗者是库噜毕尚吉拉。兔子跳跃奔跑;蛇沿着道路爬行。

23.57

कत्य् अस्य विष्ठाः कत्य् अक्षराणि कति होमासः कतिधा समिद्धः ।
यज्ञस्य त्वा विदथा पृच्छम् अत्र कति होतार ऽ ऋतुशो यजन्ति ॥ २३.५७ ॥

它有多少座位?多少音节?多少供奉?以多少方式点燃?关于祭祀的仪轨,我们在此问你:每个季节有多少位祭司(荷塔)行祭?

23.58

षड् अस्य विष्ठाः शतम् अक्षराण्य् अशीतिर् होमाः समिधो ह तिस्रः ।
यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतार ऋतुशो यजन्ति ॥ २३.५८ ॥

此祭有六座,百个音节,八十次献祭,三根薪柴。我向你宣说祭祀的仪轨;七位荷塔按季节行祭。

23.59

को ऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवी ऽ अन्तरिक्षम् ।
कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः ॥ २३.५९ ॥

谁知道这世界的脐?谁知道天、地与虚空?谁知道广大太阳的生处?谁知道月亮从何而生?

23.60

वेदाहम् अस्य भुवनस्य नाभिं वेद द्यावापृथिवी ऽ अन्तरिक्षम् ।
वेद सूर्यस्य बृहतो जनित्रं अथो वेद चन्द्रमसं यतोजाः ॥ २३.६० ॥

我知道这世界的脐。他知道天、地与虚空。他知道广大太阳的生处,也知道月亮从何而生。

23.61

पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ २३.६१ ॥

我问你大地的至高边际;我问世界的脐在何处。我问你强壮骏马的精液;我问言语的至高虚空。

23.62

इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः ।
अयꣳ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम ॥ २३.६२ ॥

此祭坛是大地的至高边际;此祭祀即世界脐所在之处。此苏摩即强壮骏马之精液;此梵即言语的至高虚空。

23.63

सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे ।
दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः ॥ २३.६३ ॥

善生者、自生者、第一者在大海之中怀孕;由此,适时诞生了生主(Prajāpati)。

23.64

होता यक्षत् प्रजापतिꣳ सोमस्य महिम्नः ।
जुषतां पिबतु सोमꣳ होतर् यज ॥ २३.६४ ॥

愿祭司以苏摩的伟大礼敬生主。愿他欢喜并饮苏摩;祭司啊,请行祭!

23.65

प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयꣳ स्याम पतयो रयीणाम् ॥ २३.६५ ॥

生主啊,除你之外无人成就此等;一切形相环绕于你。愿我们祭祀时所求的愿望得以成就。愿我们成为财富的主人。