Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

21.1

इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।
त्वाम् अस्वस्युर् आ चके ॥ २१.१ ॥

啊,伐楼那,今日请听我这呼唤,并施恩于我。我无自有之财,因此渴望你。

21.2

तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः ॥ २१.२ ॥

因此我以梵咒赞颂而来到你面前;施主以供物所求的也正是此事。啊,伐楼那,请不带愤怒地在此垂念。啊,备受赞美者,不要夺走我们的寿命。

21.3

त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽ अव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत् ॥ २१.३ ॥

啊,阿耆尼,你知晓天神伐楼那的愤怒,请将它远远驱离我们。啊,最可敬者,最能承载供物者,光辉闪耀者,请使我们脱离一切怨敌。

21.4

स त्वं नो ऽ अग्ने ऽवमो भवोती नेदिष्ठो ऽ अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न ऽ एधि ॥ २१.४ ॥

啊,阿耆尼,请为了我们的护佑而最为亲近,在此晨曦破晓之时最为接近。请为我们以祭祀善礼敬拜伐楼那;赐予恩惠,受纳供物。愿你易于被我们召请。

21.5

महीमू षु मातरꣳ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम ।
तुविक्षत्राम् अजरन्तीम् उरूचीꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् ॥ २१.५ ॥

为求护佑,我们恭请伟大的众誓之母、天道之妻阿底提:她力量充沛、永不衰老、广大无边,赐予良好庇护与善导。

21.6

सुत्रामाणं पृथिवीं द्याम् अनेहसꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् ।
दैवीं नावꣳ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥ २१.६ ॥

我们赞颂善良的守护者大地与天空,以及无过失、庇护并善于引导的阿底提。让我们为了吉祥登上神圣之船,它有良好的桨,无过失,不漏水。

21.7

सुनावम् आ रुहेयम् अस्रवन्तीम् अनागसम् ।
शतारित्राꣳ स्वस्तये ॥ २१.७ ॥

愿我登上这艘好船,它不漏水,无过失,有一百支桨,为了吉祥。

21.8

आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।
मध्वा रजाꣳसि सुक्रतू ॥ २१.८ ॥

密特拉与伐楼那啊,请以酥油浇灌我们的牧场;以甘甜浇灌诸世界,善行的诸神啊。

21.9

प्र बाहवा सिसृतं जीवसे न ऽ आ नो गव्यूतिम् उक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥ २१.९ ॥

请伸出你们的双臂,为了我们的生命;以酥油浇灌我们的牧场。让你们的名声在我们的人民中传扬,年轻的密特拉与伐楼那啊;请听我的呼唤,我们祈请你们。

21.10

शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो ऽहिं वृकꣳ रक्षाꣳसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥ २१.१० ॥

愿那些迅捷的马在我们的呼唤中给予我们安宁,在诸神之间有节律地奔驰,备受赞颂;踩碎蛇、狼与罗刹,使一切疾病远离我们。

21.11

वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ २१.११ ॥

在每一次竞争与财富之中,啊迅捷者,请护佑我们;啊不死的、知晓秩序的智者们,请饮这甘美的汁液而欢喜;满足之后,沿着诸神之道前行。

21.12

समिद्धो ऽ अग्निः समिधा सुसमिद्धो वरेण्यः ।
गायत्री छन्द ऽ इन्द्रियं त्र्यविर् गौर् वयो दधुः ॥ २१.१२ ॥

以柴薪点燃的阿耆尼,燃烧得很旺,殊胜。伽耶特里韵律、力量、三岁母羊与母牛,已安置了活力。

21.13

तनूनपाच्छुचिव्रतस् तनूपाश् च सरस्वती ।
उष्णिहा छन्द ऽ इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥ २१.१३ ॥

身之子(Tanūnapāt)、持纯洁誓愿者、护身者与萨罗室伐蒂。乌什尼诃韵律、力量、两岁公牛与母牛,已安置了活力。

21.14

इडाभिर् अग्निर् ईड्यः सोमो देवो ऽ अमर्त्यः ।
अनुष्टुप् छन्द ऽइन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥ २१.१४ ॥

以伊达(iḍā)供品受赞颂的阿耆尼;神圣不死的苏摩。阿努湿图布韵律、力量、五岁母羊与母牛,已安置了活力。

21.15

सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः ।
बृहती छन्द ऽ इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥ २१.१५ ॥

具善祭草的阿耆尼,与补善同在;铺开祭草的不死者。布里诃蒂韵律、力量、三岁小牛与母牛,已安置了活力。

21.16

दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।
पङ्क्तिश् छन्द ऽ इहेन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥ २१.१६ ॥

神圣的门户、广大的方位、祭司神布里哈斯帕蒂。盘克提韵律、此处的力量、四岁公牛与母牛,已安置了活力。

21.17

उषे यह्वी सुपेशसा विश्वे देवा ऽ अमर्त्याः ।
त्रिष्टुप् छन्द ऽ इहेन्द्रियं पष्ठवाड् गौर् वयो दधुः ॥ २१.१७ ॥

啊黎明,伟大而盛装美丽;一切不死的众神(Viśve Devāḥ)。特里什图布韵律、此处的力量、五岁公牛与母牛,已安置了活力。

21.18

दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।
जगती छन्द ऽ इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥ २१.१८ ॥

两位神圣的呼唤者(hotṛ),医者,与因陀罗相伴的同伴。耆迦提格律;公牛与母牛安置了活力与生命力。

21.19

तिस्र ऽ इडा सरस्वती भारती मरुतो विशः ।
विराट् छन्द ऽ इहेन्द्रियं धेनुर् गौर् न वयो दधुः ॥ २१.१९ ॥

三位伊达、萨罗室伐蒂、婆罗蒂与风神众(马鲁特)之族。毗罗吉格律;母牛如挤奶之牛,安置了活力与生命力。

21.20

त्वष्टा तुरीपो ऽ अद्भुत ऽ इन्द्राग्नी पुष्टिवर्धना ।
द्विपदा छन्द ऽ इन्द्रियम् उक्षा गौर् न वयो दधुः ॥ २१.२० ॥

特瓦什特利,迅捷成形者、奇妙者;因陀罗与阿耆尼,增益滋养者。双足格律;公牛与母牛安置了活力与生命力。

21.21

शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।
ककुप् छन्द ऽ इहेन्द्रियं वशा वेहद् वयो दधुः ॥ २१.२१ ॥

为我们,宰杀者植物之主;萨维特利激发福运。卡库普格律;不育母牛承载之,安置了活力与生命力。

21.22

स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।
अतिच्छन्दा ऽइन्द्रियं बृहद् ऋषभो गौर् वयो दधुः ॥ २१.२२ ॥

斯瓦哈!愿善统治的婆罗那使祭祀成为良药。超韵格律;公牛与母牛安置了巨大的活力与生命力。

21.23

वसन्तेन ऽ ऋतुना देवा वसवस् त्रिवृता स्तुताः ।
रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः ॥ २१.२३ ॥

随春季与时节,以三重颂歌赞美的诸婆薮神;以罗他安塔罗之光,愿供物在因陀罗中安置生命力。

21.24

ग्रीष्मेण ऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः ।
बृहता यशसा बलꣳ हविर् इन्द्रे वयो दधुः ॥ २१.२४ ॥

在夏季,于第十五赞歌中被赞颂的楼陀罗诸神,以布利哈特之荣耀,将力量与祭品置于因陀罗之中,成为其活力。

21.25

वर्षाभिर् ऋतुनादित्या स्तोमे सप्तदशे स्तुताः ।
वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः ॥ २१.२५ ॥

在雨季,于第十七赞歌中被赞颂的阿ditya诸神,以维卢帕之歌与民众之活力,将祭品置于因陀罗之中,成为其活力。

21.26

शारदेन ऽ ऋतुना देवा ऽ एकविꣳश ऽ ऋभव स्तुताः ।
वैराजेन श्रिया श्रियꣳ हविर् इन्द्रे वयो दधुः ॥ २१.२६ ॥

在秋季,于第二十一赞歌中被赞颂的诸神利布胡,以维拉贾之歌与光辉,将光辉与祭品置于因陀罗之中,成为其活力。

21.27

हेमन्तेन ऽ ऋतुना देवास् त्रिणवे मरुत स्तुताः ।
बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः ॥ २१.२७ ॥

在冬季,于三九赞歌中被赞颂的摩录多诸神,以力量、沙克瓦里诗句与威力,将祭品置于因陀罗之中,成为其活力。

21.28

शैशिरेण ऽ ऋतुना देवास् त्रयस्त्रिꣳशे ऽमृता स्तुताः ।
सत्येन रेवतीः क्षत्रꣳ हविर् इन्द्रे वयो दधुः ॥ २१.२८ ॥

在凉季,于三十三赞歌中被赞颂的不死诸神,以真理、列瓦蒂诗句与王权,将祭品置于因陀罗之中,成为其活力。

21.29

होता यक्षत् समिधाग्निम् इडस् पदे ऽश्विनेन्द्रꣳ सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधु शष्पैर् न तेज ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.२९ ॥

在伊达之位上,祭司应以薪柴礼敬阿耆尼、双阿输昕、因陀罗与萨罗室伐蒂。愿他们接受山羊、烟色者、小麦与枣果作为药,蜂蜜、以嫩芽为辅的活力与精力、乳汁、苏摩,以及与溢流祭酒一同的酥油与蜂蜜。祭司啊,为澄清酥油而献祭!

21.30

होता यक्षत् तनूनपात् सरस्वती अविर् मेषो न भेषजं पथा मधुमता भरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३० ॥

祭司应礼敬坦努那帕特与萨罗室伐蒂。如羊与公羊般,沿蜜流之路带来药物,愿他们为双阿输昕与因陀罗接受以枣果及上瓦卡颂诗所献的活力,以嫩芽为辅的药,乳汁、苏摩,以及与溢流祭酒一同的酥油与蜂蜜。祭司啊,为澄清酥油而献祭!

21.31

होता यक्षन्नराशꣳसं न नग्नहुं पतिꣳ सुरया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा ऽ इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३१ ॥

祭司应礼敬那罗珊莎与那恭呼之主。以酒为药:公羊、萨罗室伐蒂、医者、如月光般明亮的车、双阿输昕的脂肪与因陀罗的活力。以枣果及上瓦卡颂诗,以嫩芽为辅的药,乳汁、苏摩,以及与溢流祭酒一同的酥油与蜂蜜。愿他们接受。祭司啊,为澄清酥油而献祭!

21.32

होता यक्षद् इडेडित ऽ आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैर् कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३२ ॥

愿荷塔(hotṛ)敬拜伊达(Iḍā),召请萨罗斯瓦蒂(Sarasvatī)。以力量增益因陀罗,以公牛与母牛赐予活力。为双马童与因陀罗,供奉药剂:大麦、卡勒康杜果、蜂蜜、炒米、马萨罗、牛奶。愿苏摩、倾注的酥油与蜂蜜被享用。啊荷塔,以澄清酥油献祭。

21.33

होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् नासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् दुह ऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३३ ॥

愿荷塔敬拜如羊毛般柔软的巴尔希(barhis)。愿那萨蒂亚双马童(Nāsatya Aśvin)——二位医者——与马匹及带犊之牛一同受供奉。愿医者萨罗斯瓦蒂(Sarasvatī)之牛献出乳汁。为因陀罗供奉药剂与乳。愿苏摩、倾注的酥油与蜂蜜被享用。啊荷塔,以澄清酥油献祭。

21.34

होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिश ऽ इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वत्य् अश्विनेन्द्राय भेषजꣳ शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३४ ॥

愿荷塔敬拜门户与方位,宽广如卡瓦沙(Kavaṣa)。为双马童,设门户与方位;如因陀罗般,愿其挤取天地。愿萨罗斯瓦蒂之牛为双马童与因陀罗献乳:药剂、如光明般的光辉、活力与乳汁。愿苏摩、倾注的酥油与蜂蜜被享用。啊荷塔,以澄清酥油献祭。

21.35

होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना समञ्जति सरस्वत्या त्विषिम् इन्द्रे न भेषजꣳ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३५ ॥

愿呼唤者敬拜美容的黎明女神,以及夜间与白昼的双阿输二神。愿他与萨罗室伐蒂一同涂抹光辉。如因陀罗中的药,如鹰,与虚空、心与吉祥同在,如月祭,愿乳与苏摩流淌。愿他们享用流淌的酥与蜜。啊,呼唤者,以酥油祭祀。

21.36

होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषꣳ सरस्वती भिषक् सीसेन दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३६ ॥

愿呼唤者敬拜两位神圣的呼唤者,以及如因陀罗般时刻警醒的两位医者双阿输二神,昼夜以药物供养。愿医者萨罗室伐蒂以铅挤出力量。愿生命力、乳与苏摩流淌。愿他们享用流淌的酥与蜜。啊,呼唤者,以酥油祭祀。

21.37

होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस्त्रिधातवो पसो रूपम् इन्द्रे हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती मह ऽ इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३७ ॥

愿呼唤者以药物之姿敬拜三位女神:因陀罗中形同一体、呈金色的三重本性之水,与双阿输二神一同,并敬拜如伊拉的婆罗提,以及以言语而伟大的萨罗室伐蒂。愿萨罗室伐蒂为因陀罗挤出生命力、乳与苏摩。愿他们享用流淌的酥与蜜。啊,呼唤者,以酥油祭祀。

21.38

होता यक्षत् सुरेरसम् ऋषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भेषजं न सरस्वतीम् ओजो न हूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुरया भेषजꣳ श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३८ ॥

愿祭司礼拜苏罗汁、公牛、纳里亚帕萨、特瓦什特、因陀罗与双马童。愿他礼拜如药的萨拉斯瓦蒂,以及活力、召请与生命之力,还有如狼般迅捷的医者荣耀。愿他礼拜与苏罗和吉祥并存的药用月祭。愿苏摩、乳、流动的澄清酥油与蜜遍布。阿夷耶之祭司,行献祭吧!

21.39

होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं भीमं न मन्युꣳ राजानं व्याघ्रं नमसाश्विना भामꣳ सरस्वती भिषग् इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.३९ ॥

愿祭司以敬礼礼拜伐纳斯帕蒂、沙弥多、百智者,即如可畏之怒者、王者与虎。愿他礼拜双马童、婆摩,以及医者萨拉斯瓦蒂。愿她为因陀罗挤出活力与乳汁。愿苏摩、乳、流动的澄清酥油与蜜遍布。阿夷耶之祭司,行献祭吧!

21.40

होता यक्षद् अग्निꣳ स्वाहाज्यस्य स्तोकानाꣳ स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्याꣳ स्वाहा मेषꣳ सरस्वत्यै स्वाह ऽ ऋषभम् इन्द्राय सिꣳहाय सहस ऽ इन्द्रियꣳ स्वाहाग्निं न भेषजꣳ स्वाहा सोमम् इन्द्रियꣳ स्वाहेन्द्रꣳ सुत्रामाणꣳ सवितारं वरुणं भिषजां पतिꣳ स्वाहा वनस्पतिं प्रियं पाथो न भेषजꣳ स्वाहा देवा ऽ आज्यपा जुषाणो ऽ अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥ २१.४० ॥

愿荷塔礼拜阿耆尼。向酥油滴献娑訶。向各个脂肪献娑訶。向山羊献给双马童娑訶。向公羊献给萨罗室伐蒂娑訶。向公牛献给因陀罗、向狮子、为力量之精力献娑訶。如阿耆尼为药,娑訶。向苏摩献为精力娑訶。向因陀罗、苏多罗摩、萨维德里、伐楼那、医者之主献娑訶。向可爱的植物之主作为食物之药献娑訶。诸神,饮酥油者,愿阿耆尼与药乳被享用;愿流动的苏摩以酥油与蜜见效。荷塔啊,以澄清酥油而献祭。

21.41

होता यक्षद् अश्विनौ छागस्य वपाया मेदसो जुषेताꣳ हविर् होतर् यज ।
होता यक्षत् सरस्वतीं मेषस्य वपाया मेदसो जुषताꣳ हविर् होतर् यज ।
होता यक्षद् इन्द्रम् ऋषभस्य वपाया मेदसो जुषताꣳ हविर् होतर् यज ॥ २१.४१ ॥

愿荷塔使双马童享用山羊的脂肪部分与骨髓之祭物。荷塔啊,请献祭。愿荷塔使萨罗室伐蒂享用公羊的脂肪部分与骨髓之祭物。荷塔啊,请献祭。愿荷塔使因陀罗享用公牛的脂肪部分与骨髓之祭物。荷塔啊,请献祭。

21.42

होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रꣳ सुत्रामाणम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्चुतस् तान् अश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु पिबन्तु व्यन्तु होतर् यज ॥ २१.४२ ॥

愿求者(hotṛ)供奉双马童、萨罗私伐底、因陀罗——善护者。这些苏摩如山羊、公羊、公牛般被压榨,如草芽与炒米般;它们伟大、令人欢喜、以马萨罗装饰、光明、富含乳汁、不死,为你们滴落甘甜。双马童、萨罗私伐底、杀伐弗栗多的因陀罗、善护者,请接受它们;愿他们饮用甘美的苏摩而满足。啊,求者,献祭吧!

21.43

होता यक्षद् अश्विनौ छागस्य हविष ऽ आत्ताम् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ङ्गाद्-अङ्गाद् अवत्तानां करत एवाश्विना जुषेताꣳ हविर् होतर् यज ॥ २१.४३ ॥

愿求者供奉双马童。愿他们今日接受从山羊供物中部取出的脂肪,在敌人之前、在人为伤害之前;愿他们在草料中确实食用,那些在草中居首、滴落善意、属于百楼陀罗、被火所食、肥美且斋戒的山羊之物,取自其侧、其腰、其尖处、其股,以及逐肢割下的部分。双马童,愿你们享用这供物。啊,求者,献祭吧!

21.44

होता यक्षत् सरस्वतीं मेषस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवꣳ सरस्वती जुषताꣳ हविर् होतर् यज ॥ २१.४४ ॥

愿荷塔(hotṛ)敬奉萨罗室伐蒂(Sarasvatī)。今日从羊的祭品中部取出了脂肪,在仇恨者之前,在人为捕获之前。在吃草之时,确实在山羊的草料中——那些先吃草、滴落甘甜、属于百鲁陀罗(Rudra)、被阿耆尼(Agni)吞食、来自肥美牧场、从侧腹、从臀部、从尖处、从肢体、一肢一肢割下的——愿他同样行事。愿萨罗室伐蒂接受祭品。啊荷塔,供奉吧!

21.45

होता यक्षद् इन्द्रम् ऋषभस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम् इन्द्रो जुषताꣳ हविर् होतर् यज ॥ २१.४५ ॥

愿荐主为牛之供物祭祀因陀罗;今日已从中取出脂肪。在仇敌之前,在人为恶意之前,取自食草者、实在吃饲料的、草中领先的、流出好乳的、属于百鲁陀罗的、为火所食的、肥壮被切割的牲畜,从侧腹、腰部、白尖部分、被拔出的部分、一肢一肢切下的部分,亦应如此行之。愿因陀罗欣然接受此供物。啊荐主,行祭吧。

21.46

होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित ।
यत्राश्विनोश् छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्य ऽऋषभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्रेन्द्रस्य सुत्राम्णः प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाꣳसि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपाव स्रक्षद् रभीयस ऽइव कृत्वी करद् एवं देवो वनस्पतिर् जुषताꣳ हविर् होतर् यज ॥ २१.४६ ॥

愿祭司礼拜植物之主(Vanaspati);他们用极细碎、极迅疾的绳索将他缚住。阿濕二神山羊供物的可爱居所在何处,娑罗室伐底公羊供物的可爱居所在何处,因陀罗公牛供物的可爱居所在何处,阿耆尼的可爱居所在何处,苏摩的可爱居所在何处,善护者因陀罗的可爱居所在何处,萨维德里的可爱居所在何处,伐楼那的可爱居所在何处,植物之主的可爱之路在何处,饮酥诸神的可爱居所在何处,祭司阿耆尼的可爱居所在何处——在那里,先赞颂这些,赞颂之后,把它们迎近,仿佛更加渴望地去行事。愿神植物之主如此接受供物。祭司啊,献祭吧。

21.47

होता यक्षद् अग्निꣳ स्विष्टकृतम् अयाड् अग्निर् अश्विनोश् छागस्य हविषः प्रिया धामान्य् अयाट् सरस्वत्या मेषस्य हविषः प्रिया धामान्य् अयाड् इन्द्रस्य ऽ ऋषभस्य हविषः प्रिया धामान्य् अयाड् अग्नेः प्रिया धामान्य् अयाट् सोमस्य प्रिया धामान्य् अयाड् इन्द्रस्य सुत्राम्णः प्रिया धामान्य् अयाट् सवितुः प्रिया धामान्य् अयाड् वरुणस्य प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथाꣳस्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आ यजताम् एज्या ऽ इषः कृणोतु सो ऽ अध्वरा जातवेदा जुषताꣳ हविर् होतर् यज ॥ २१.४७ ॥

愿祭司礼敬苏维斯陀克里特火神。火神礼敬了阿赫温二神之羊的供物所喜爱之居所。火神礼敬了娑罗私婆蒂之公羊的供物所喜爱之居所。火神礼敬了因陀罗之公牛的供物所喜爱之居所。火神礼敬了火神所喜爱之居所。火神礼敬了苏摩所喜爱之居所。火神礼敬了因陀罗·苏多罗曼所喜爱之居所。火神礼敬了萨维特里所喜爱之居所。火神礼敬了伐楼那所喜爱之居所。火神礼敬了婆娑帕蒂所喜爱之道路。火神礼敬了诸神与阿遮波所喜爱之居所。愿祭司礼敬祭司火神所喜爱之居所。愿他礼敬自己的伟大。愿他满足可敬者的愿望。愿他为生知火神而作不害之祭祀,并接受供物。啊,祭司,礼敬吧。

21.48

देवं बर्हिः सरस्वती सुदेवम् इन्द्रे ऽ अश्विना ।
तेजो न चक्षुर् अक्ष्योर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.४८ ॥

神巴尔希斯,萨罗室伐蒂,善神在因陀罗中,双马童。如光辉,如眼中的视力,他们以圣草安置了感官之力。为获得财富,愿他们享用财富的份额。献祭!

21.49

देवीर् द्वारो ऽ अश्विना भिषजेन्द्रे सरस्वती ।
प्राणं न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.४९ ॥

神圣之门,双马童为医者,萨罗室伐蒂在因陀罗中。如气息,如鼻中的活力,诸门安置了感官之力。为获得财富,愿他们享用财富的份额。献祭!

21.50

देवी ऽ उषासाव् अश्विना सुत्रामेन्द्रे सरस्वती ।
बलं न वाचम् आस्य ऽ उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५० ॥

女神,双晨曦,双马童,善护者,萨罗室伐蒂在因陀罗中。如力量,如口中的言语,二晨曦安置了感官之力。为获得财富,愿他们享用财富的份额。献祭!

21.51

देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवर्धयन् ।
श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५१ ॥

女神乔什特利,萨罗室伐蒂,双马童增强了因陀罗。如听觉,如耳中的名声,二乔什特利安置了感官之力。为获得财富,愿他们享用财富的份额。献祭!

21.52

देवी ऽ ऊर्जाहुती दुघे सुदुघेन्द्रे सरस्वत्य् अश्विना भिषजावतः ।
शुक्रं न ज्योति स्तनयोर् आहुती धत्त ऽ इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५२ ॥

两位女神,赋予力量的供奉,挤得很好,为因陀罗而挤出;萨罗私瓦蒂与医师阿输昆是守护者。如光明的光辉,两位雷鸣者的供奉承载力量。为获得财富,愿他们享用施予财富者的力量。献祭吧!

21.53

देवा देवानां भिषजा होताराव् इन्द्रम् अश्विना ।
वषट्कारैः सरस्वती त्विषिं न हृदये मतिꣳ होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५३ ॥

众神之神,两位医师,两位祭司,因陀罗与阿输昆;以瓦沙特之声,萨罗私瓦蒂如心中的光辉与思想,赋予两位祭司力量。为获得财富,愿他们享用施予财富者的力量。献祭吧!

21.54

देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती ।
शूषं न मध्ये नाभ्याम् इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५४ ॥

三三之女神,阿输昆、伊达与萨罗私瓦蒂;如中央肚脐的力量,她们为因陀罗安置了力量。为获得财富,愿他们享用施予财富者的力量。献祭吧!

21.55

देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथः ।
रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५५ ॥

神因陀罗与那罗阿输桑,受三重护佑;与萨罗私瓦蒂及阿输昆一起驾驭战车。如种子与形体,不死的生育者特瓦斯特里为因陀罗安置诸根之力。为获得财富,愿他们享用施予财富者的力量。献祭吧!

21.56

देवो देवैर् वनस्पतिर् हिरण्यपर्णो ऽ अश्विभ्याꣳ सरस्वत्या सुपिप्पल ऽ इन्द्राय पच्यते मधु ।
ओजो न जूतिर् ऋषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५६ ॥

神祇毗那斯帕蒂与诸神同在,金叶,美好的菩提果,为双马童、萨罗室伐蒂和因陀罗煮蜜。愿毗那斯帕蒂如活力、如迅捷、如公牛、如光辉,赐予我们诸根。为获得财富,愿他们享用施予财富的供品之分;行祭祀吧。

21.57

देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्यामूर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सदः ।
ईशायै मन्युꣳ राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५७ ॥

神祇巴尔希斯(圣草)在祭祀中铺设,属于那些持水者;为双马童铺设柔软的毛毡座位;因陀罗啊,你的舒适座位为萨罗室伐蒂而设。为获得统治之权,他们以圣草立起愤怒之王,赐予他诸根之力。为获得财富,愿他们享用施予财富的供品之分;行祭祀吧。

21.58

देवो ऽ अग्निः स्विष्टकृद् देवान् यक्षद् यथायथꣳ होताराव् इन्द्रम् अश्विना वाचा वाचꣳ सरस्वतीम् अग्निꣳ सोमꣳ स्विष्टकृत् स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवोवनस्पतिः स्विष्टा देवा ऽ आज्यपाः स्विष्टो ऽ अग्निर् अग्निना होता होत्रे स्विष्टकृद् यशो न दधद् इन्द्रियमूर्जम् अपचितिꣳ स्वधां वसुवने वसुधेयस्य व्यन्तु यज ॥ २१.५८ ॥

愿善行献祭的天神阿耆尼如法礼敬诸神。愿二祭司因陀罗与双马童以言语礼敬言语、萨罗室伐蒂、阿耆尼与苏摩;善行献祭者、善献的因陀罗、苏特拉玛、萨维特里、伐楼那、医者、可爱的天神植物神;善献的诸神、饮酥油者;善献的阿耆尼、借阿耆尼而为祭司、为祭司、善行献祭者。愿其赐予荣耀、精力、滋养、尊荣与斯瓦陀。为赢得财富,愿其享用赐予财富的分份;礼敬之。

21.59

अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्न् अश्विभ्यां छागꣳ सरस्वत्यै मेषम् इन्द्राय ऽ ऋषभꣳ सुन्वन्न् अश्विभ्याꣳ सरस्वत्या ऽइन्द्राय सुत्राम्णे सुरासोमान् ॥ २१.५९ ॥

今日此祭主选阿耆尼为祭司,煮熟食,结祭饼;为双马童献山羊,为萨罗室伐蒂献公羊,为因陀罗献公牛;榨苏摩,为双马童、萨罗室伐蒂及善护因陀罗献苏罗与苏摩。

21.60

सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् अश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऽऋषभेणाक्षꣳस् तान् मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैर् अपुर् अश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान् ॥ २१.६० ॥

今日神主树(祭柱)已成。为双马童煮山羊的轴与脂,为萨罗室伐蒂煮公羊的,为因陀罗煮公牛的。他们已接受,以祭饼得到增长。双马童、萨罗室伐蒂、善护因陀罗饮了苏罗与苏摩。

21.61

त्वाम् अद्य ऽ ऋष ऽ आर्षेय ऽ ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य ऽ आ संगतेभ्य ऽ एष मे देवेषु वसु वार्यायक्ष्यत ऽ इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा ऽ आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ २१.६१ ॥

今日,此祭主选你为仙人之裔、仙人之孙,为众人、为聚集者、也为我而选,使他行祭以得财富与诸神中最好的恩惠。把诸神所赐的神圣施与带来教导他。呼唱者啊,你受到激励,被人遣来为善言;为颂词之语诵读颂歌。