夜柔吠陀 · 章(Adhyāya) 15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.1
अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः ।
अधि नो ब्रूहि सुमना ऽ अहेडꣳस् तव स्याम शर्मꣳस् त्रिवरूथ ऽ उद्भौ ॥ १५.१ ॥
阿耆尼啊,驱逐我们已生的敌人;生知者啊,也把未生的敌人推回去。以友善之心对我们说话;让我们无怒地居于你的三重庇护之中,在上方的两界。
15.2
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयꣳ स्याम प्र णुदा नः सपत्नान् ॥ १५.२ ॥
以你的力量驱逐我们已生的敌人;生知者啊,把未生的敌人推回去。以友善之心对我们说话;愿我们存在;驱逐我们的敌人。
15.3
षोडशी स्तोम ऽ ओजो द्रविणम् ।
चतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् ।
अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ॥ १५.३ ॥
十六段颂是活力的财富;四十四段颂是光辉的财富。阿耆尼的这团火塊名为阿普萨斯,愿诸神都赞颂它。以赞歌为脊、富于酥油的你,请坐于此;赐予我们伴随子嗣的财富。
15.4
एवश् छन्दः ।
वरिवश् छन्दः ।
शंभूश् छन्दः ।
परिभूश् छन्दः ।
ऽ आच्छच् छन्दः ।
मनश् छन्दः ।
व्यचश् छन्दः ।
सिन्धुश् छन्दः ।
समुद्रश् छन्दः ।
सरिरं छन्दः ।
ककुप् छन्दः ।
त्रिककुप् छन्दः ।
काव्यं छन्दः ।
ऽ अङ्कुपं छन्दः ।
अक्षरपङ्क्तिश् छन्दः ।
पदपङ्क्तिश् छन्दः ।
विष्टारपङ्क्तिश् छन्दः ।
क्षुरो भ्राजश् छन्दः ॥ १५.४ ॥
如是诸韵律:Varivas韵律。Śambhū韵律。Paribhū韵律。Āchchhat韵律。Manas韵律。Vyachas韵律。Sindhu韵律。Samudra韵律。Sarirам韵律。Kakup韵律。Trikakup韵律。Kāvya韵律。Aṅkupa韵律。Akṣarapaṅkti韵律。Padapaṅkti韵律。Viṣṭārapaṅkti韵律。Kṣura与Bhrāj韵律。
15.5
आच्छच् छन्दः ।
प्रच्छच् छन्दः ।
संयच् छन्दः ।
वियच् छन्दः ।
बृहच् छन्दः ।
रथन्तरं छन्दः ।
निकायश् छन्दः ।
विवधश् छन्दः ।
गिरश् छन्दः ।
भ्रजश् छन्दः ।
सꣳस्तुप् छन्दः ।
ऽ अनुष्टुप् छन्दः ।
ऽ एवश् छन्दः ।
वरिवश् छन्दः ।
वयश् छन्दः ।
वयस्कृच् छन्दः ।
विष्पर्धाश् छन्दः ।
विशालं छन्दः ।
छदिश् छन्दः ।
दूरोहणं छन्दः ।
तन्द्रं छन्दः ।
ऽ अङ्काङ्कं छन्दः ॥ १५.५ ॥
韵律Āccha。韵律Pracchac。韵律Saṃyac。韵律Viyac。韵律Bṛhac。韵律Rathantara。韵律Nikāya。韵律Vivadha。韵律Giras。韵律Bhraja。韵律Saṃstup。韵律Anuṣṭubh。韵律Eva。韵律Varivas。韵律Vaya。韵律Vayaskṛt。韵律Viṣparddhā。韵律Viśāla。韵律Chadis。韵律Dūrohaṇa。韵律Tandra。韵律Aṅkāṅka。
15.6
रश्मिना सत्याय सत्यं जिन्व ।
प्रेतिना धर्मणा धर्मं जिन्व ।
अन्वित्या दिवा दिवं जिन्व ।
संधिनान्तरिक्षेणान्तरिक्षं जिन्व ।
प्रतिधिना पृथिव्या पृथिवीं जिन्व ।
विष्टम्भेन वृष्ट्या वृष्टिं जिन्व ।
प्रवया ऽह्नाहर् जिन्व ।
अनुया रात्र्या रात्रीं जिन्व ।
उशिजा वसुभ्यो वसून् जिन्व ।
प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व ॥ १५.६ ॥
为真实,以光线激发真实。为法,以前行激发法。以相随者,以天激发白昼。以连接,以中界激发中界。以支撑,以大地激发大地。以支柱,以雨激发雨。以流动,以昼激发昼。以相随者,以夜激发夜。为诸婆苏,以渴望者激发诸婆苏。为诸阿提迭,以标记激发诸阿提迭。
15.7
तन्तुना रायस्पोषेण रायस्पोषं जिन्व ।
सꣳसर्पेण श्रुताय श्रुतं जिन्व ।
ऐडेनौषधीभिर् ओषधीर् जिन्व ।
उत्तमेन तनूभिस् तनूर् जिन्व ।
वयोधसाधीतेनाधीतं जिन्व ।
अभिजिता तेजसा तेजो जिन्व ॥ १५.७ ॥
以线,以财富的滋养激发财富的滋养。以共同蔓延,为名声以名声激发。以伊达,以草木激发草木。以至上者,以身体激发身体。以赐予寿命者,以所学激发所学。以所征服的光辉激发光辉。
15.8
प्रतिपद् असि प्रतिपदे त्वा ।
अनुपद् अस्य् अनुपदे त्वा ।
सम्पद् असि सम्पदे त्वा ।
तेजो ऽसि तेजसे त्वा ॥ १५.८ ॥
你是立足之处;为立足之处,为你。你是随后之步;为随后之步,为你。你是圆满;为圆满,为你。你是光辉;为光辉,为你。
15.9
त्रिवृद् असि त्रिवृते त्वा ।
प्रवृद् असि प्रवृते त्वा ।
विवृद् असि विवृते त्वा ।
सवृद् असि सवृते त्वा ।
ऽऽआक्रमो ऽस्य् आक्रमाय त्वा ।
संक्रमो ऽसि संक्रमाय त्वा ।
उत्क्रमो ऽस्य् उत्क्रमाय त्वा ।
उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा ।
अधिपतिनोर्जोर्जं जिन्व ॥ १५.९ ॥
你是三重(砖);为了三重,我取你。你是前进者;为了前进,我取你。你是展开者;为了展开,我取你。你是共同增长者;为了共同增长,我取你。你是进步;为了进步,我取你。你是跨越;为了跨越,我取你。你是上升之步;为了上升,我取你。你是升腾;为了升腾,我取你。与主者一起,以力激发力。
15.10
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याꣳ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरꣳ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥ १५.१० ॥
你是王后,东方;婆苏神是你的主宰;阿耆尼是持武器者;愿三重颂支撑你。愿酥油与诵词在大地上安住,以求无忧;愿罗陀檀多罗歌咏支撑你,以求安立。愿在虚空中的先生诸仙以尺度与广度扩展你;愿持立者与这位主宰也扩展你。众人同心,也让祭主坐于天穹之背、天界之中。
15.11
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥ १५.११ ॥
你是王者之南方。楼陀罗是你的神和主宰,因陀罗是持武器者。愿十五重赞歌将你安立于大地;愿普罗伽乌克特支撑你得稳固,愿布利哈特歌使你坚固确立。愿在虚空中,诸神中的初生仙人以天空的尺度与广大使你展开。愿持者与此主宰护持你。愿众人同心,也让施祭者坐于天界,在天之背上。
15.12
सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥ १५.१२ ॥
你是君王,你是西方。阿底提亚是你的神和主宰,伐楼那是抵御兵器的持守者。愿十七部赞颂安住于大地之上。愿摩禄多婆提耶诵文支持你,使你坚固不移。愿毗卢波歌在虚空中稳住你,使你确立。愿初生的仙人们以天的尺度与广度,在诸神之中使你展开。愿这持守者与主宰也承载你。愿众人同心,使你与祭主安坐于天之脊背、天界之中。
15.13
स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविꣳशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥ १५.१३ ॥
你是自主之王,你是北方。摩录多是你的主宰,苏摩是持雷电者。愿第二十一赞颂使你在大地上安立。愿尼什克瓦利雅诵文以不动摇之力支撑你,愿韦罗阇歌以稳固的立足支撑你。在虚空中,愿众神中的长子诸仙以天之尺度与广大使你展开。愿持护者与此主宰也承载你。愿众人同心,将你与祭主安置在天界之脊,于天界之中。
15.14
अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिꣳशौ त्वा स्तोमौ पृथिव्याꣳ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताꣳ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥ १५.१४ ॥
你是王国的女主,布利哈提方位。诸神都是你的主人;布里哈斯帕蒂是持兵器者。愿特里纳瓦与特拉耶斯特林沙赞颂使你安立于大地。愿毗湿伐提婆与阿耆尼摩卢塔的诵文支撑你,使你不动摇。愿沙克伐罗与莱瓦塔的歌咏扶持你,使你稳固。愿初生的圣者在虚空中,于诸神之间,以天空的尺度与广度使你伸展。愿维达尔塔与此主亦托持你。愿众人一心,使你与施祭者一同坐于天之脊背、天界之中。
15.15
अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ ।
पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १५.१५ ॥
在前的是光线如日的哈里刹(Hari-keśa);他的车夫(Ratha-gṛtsa)与车力(Ratha-ojas),统帅与村长;两位阿普萨拉斯,普贾吉卡斯塔拉与克拉图斯塔拉;咬人的野兽、武器、人为的击打、投射物。向它们致敬。愿它们保护我们,愿它们慈悲于我们。我们憎恨的人,以及憎恨我们的人,我们都放入它们的口中。
15.16
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ ।
मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाꣳसि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १५.१६ ॥
这是南方的维什瓦卡尔玛(Viśvakarmā);他的车声(Ratha-svana)与车饰(Ratha-citra),统帅与村长;两位阿普萨拉斯,梅纳卡与萨哈简亚;施咒者、武器、罗刹、投射物。向它们致敬。愿它们保护我们,愿它们慈悲于我们。我们憎恨的人,以及憎恨我们的人,我们都放入它们的口中。
15.17
अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ ।
प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १५.१७ ॥
此神自西方而来,名为毗湿伐婆查;其御者“车束”与“无敌车”,乃将军与村长。普拉姆洛琴蒂与阿努姆洛琴蒂二天女;母虎、武器、蛇与投射物。敬礼于她们。愿她们护佑我们,愿她们慈悲于我们。我们将所憎恨者,以及憎恨我们者,置于她们的口中。
15.18
अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ ।
विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १५.१८ ॥
此神自北方而来,名为三聚财;其御者“金翅”与“无害轮”,乃将军与村长。毗舍伐奇与酥光二天女;水、武器、风与投射物。敬礼于她们。愿她们护佑我们,愿她们慈悲于我们。我们将所憎恨者,以及憎恨我们者,置于她们的口中。
15.19
अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ ।
उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १५.१९ ॥
上方的这位是阿尔瓦克-婆苏;他的塞那吉特与苏舍那是统帅与村长。乌尔瓦希与普尔瓦奇缔是两位天女;向轰鸣的赫提、闪电与普拉赫提致敬。愿他们保护我们,愿他们慈悲待我们。我们憎恨的人,以及憎恨我们的人,我们都置于他们的口中。
15.20
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाꣳ रेताꣳसि जिन्वति ॥ १५.२० ॥
此火是天之首与顶,地之主;他激发水之种子。
15.21
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
मूर्धा कवी रयीणाम् ॥ १५.२१ ॥
此火是千倍与百倍战利之主,财富之首,智慧的先知。
15.22
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥ १५.२२ ॥
啊,火神,阿闼婆自上方的莲花中搅出了你,自众人之首、祭司之中搅出了你。
15.23
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥ १५.२३ ॥
你是世界、祭祀与空界的引导者;在那里你与吉祥的骏马相会,在天空中承载头颅。啊,火神,赢得天光者,你以献祭的运载者为舌。
15.24
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥ १५.२४ ॥
阿耆尼以薪柴在众人之中被点燃,朝向如母牛般走来的乌莎。如大鸟般升起的光芒向前伸展,直达天界。
15.25
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥ १५.२५ ॥
我们向智慧、神圣、值得赞颂、降雨的公牛吟诵言辞。gaviṣṭhira 怀着敬礼将赞歌献给阿耆尼,它如天空中铺展的金饰般安居。
15.26
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ १५.२६ ॥
此最初者,即司祭 hotṛ,在祭祀中最值得崇敬与赞颂,由立者们安置于此。被婆利古族获得,他们使其在林中光耀——奇妙、遍在,为每一族而设。
15.27
जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥ १५.२७ ॥
守护民众、常醒、善巧的阿耆尼降生,为新来者的福祉而生。面如酥油,广大,触及天空,光明而纯洁,为奉持者而照耀。
15.28
त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने ।
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥ १५.२८ ॥
阿耆尼啊,安吉拉斯在每一片森林里找到了藏于洞穴中的你。被摩擦时,你以伟大的力量诞生;安吉罗啊,人们称你为力量之子。
15.29
सखायः सं वः सम्यञ्चम् इषꣳ स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥ १५.२९ ॥
朋友们啊,愿适宜的食物与赞颂献给阿耆尼——众民中最强大者、力量之孙、有力者。
15.30
सꣳ-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ ।
इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ १५.३० ॥
强大的阿耆尼啊,你与众主很好地相合;你在伊达之处被很好地点燃。请为我们带来财富。
15.31
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥ १५.३१ ॥
你,名声最为奇妙者,民众在聚落中呼唤你。火焰之发的阿耆尼啊,为众人所爱,他们呼唤你承载供物。
15.32
एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे ।
प्रियं चेतिष्ठम् अरतिꣳ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥ १५.३२ ॥
以此为你们,以敬礼,我呼唤力量之孙阿耆尼——可爱、最有智慧、迅捷、善行祭祀、众人的使者、不死者。
15.33
विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् ।
स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ॥ १५.३३ ॥
众人的使者,不死者;众人的使者,不死者。他驾驭那赤红、吞食一切的(马匹);受到良好供奉后,迅速奔驰。
15.34
स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥ १५.३४ ॥
他善献而前奔;他善献而前奔。祭祀具有善的梵力与善的舍弥;诸婆苏之神,众人之财富。
15.35
अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥ १५.३५ ॥
阿耆尼啊,富有牲畜的食物之主,力量之子;全知者啊,赐予我们伟大的名声。
15.36
स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा ।
रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥ १५.३६ ॥
彼,被点燃的光明智慧的阿耆尼,以歌声值得赞美;为我们富足,多面者啊,请放光明。
15.37
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥ १५.३७ ॥
国王阿耆尼啊,以夜晚及你自身,也以白昼与黎明;利齿者啊,请焚烧罗刹。
15.38
भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः ।
भद्राऽ उत प्रशस्तयः ॥ १५.३८ ॥
阿耆尼被献祭,对我们吉祥;布施吉祥,善福者啊;祭祀吉祥,赞颂也吉祥。
15.39
भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
येना समत्सु सासहः ॥ १५.३९ ॥
赞颂吉祥;在与弗栗多的战斗中使心意吉祥,借此你在争斗中获胜。
15.40
येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् ।
वनेमा ते ऽ अभिष्टिभिः ॥ १५.४० ॥
凭借你在战斗中获胜的力量,稳稳地击倒敌人的巨大力量。愿我们借你的恩惠而获胜。
15.41
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥ १५.४१ ॥
我认为阿耆尼是赐予财富者,牛群走向他的家。迅捷的马匹、强健的常驻骏马走向家中。为赞颂者带来食物。
15.42
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।
सम् अर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥ १५.४२ ॥
我赞颂那位赐予财富的阿耆尼,牛群聚集于他身边。迅捷的马匹与出身高贵的护持者聚集。为赞颂者带来食物。
15.43
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि ।
उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥ १५.४३ ॥
啊,光辉殊胜者,你口中衔着两把酥油勺。也在诵歌中以力量充实我们吧,力量之主啊。为赞颂者带来食物。
15.44
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् ।
ऋध्यामा त ऽ ओहैः ॥ १५.४४ ॥
啊,阿耆尼,愿我们今日以颂歌成就你,如同成就一匹骏马,又如成就一个触动心灵的善念。愿我们借对你的颂歌而兴旺。
15.45
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥ १५.४५ ॥
啊,阿耆尼,你确实已成为吉祥意图、技能、善美以及伟大宇宙秩序的御者。
15.46
एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना ऽ अनीकैः ॥ १५.४६ ॥
以这些赞歌,为我们来到此处;成为天堂之光。阿耆尼啊,怀着善意,与你所有的火焰同在。
15.47
अग्निꣳ होतारं मन्ये दास्वन्तं वसुꣳ सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः ॥ १५.४७ ॥
我尊崇阿耆尼——祭司、施予者、富有者、力量之子、吠陀智者,如同有智慧的遍知者。他向上而行,是善祭之神,以诸神所爱的恩典,借火焰渴望酥油的光辉;酥油被奉献。
15.48
अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः ।
वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ १५.४८ ॥
阿耆尼啊,愿你成为我们最亲近的,守护者,吉祥的庇护。富有的阿耆尼,以财富闻名,请来到我们这里,赐予最光明的财富。最炽烈的光耀者,我们现在为朋友们的福祉恳求你。
15.49
येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निꣳ स्वर् आभरन्तः ।
तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम् ॥ १५.४९ ॥
凭借仙人们以苦行抵达祭会的力量,点燃阿耆尼并带来天界,我在那天界中安置那阿耆尼——摩奴称他为铺设了圣草的。
15.50
तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः ॥ १५.५० ॥
诸神啊,愿我们与妻子、儿子、兄弟或黄金一同追随他,在善行之界握住天界,在天空的第三背上,在光明之处。
15.51
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः ॥ १५.५१ ॥
此火神迅捷、善者之主、警觉,已升至言语之中;置于大地之背,光明闪耀;愿好战者在下方立足。
15.52
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् ।
विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम ॥ १५.५२ ॥
此火神最为英勇,赐予活力,具千般形态;愿他不断闪耀,在身体中央光辉照耀。火神啊,向天界的居所前行吧。
15.53
सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् ।
पुनः कृण्वाना पितरा युवानान्वा ताꣳसीत् त्वयि तन्तुम् एतम् ॥ १५.५३ ॥
一同前行,靠近后一同出发;火神啊,开辟诸神之道。再次造出年轻的父母,将此线织于你自身之中。
15.54
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।
अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत ॥ १५.५४ ॥
阿耆尼啊,醒来,起身,保持警觉。将祭祀与功德之事结合起来,也包括此人。愿众神与祭主坐于这至高的座位之上。
15.55
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥ १५.५५ ॥
以你所承载千份之力,以你阿耆尼所拥有的一切财富之力,将我们这祭祀引向天上的诸神。
15.56
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥ १५.५६ ॥
此乃你与时节相应的生处,你由此而生并放出光芒。阿耆尼啊,知晓此处,便升起吧,为我们增长财富。
15.57
तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १५.५७ ॥
愿苦行与修行、寒冷之季,成为阿耆尼内在的联结。愿天地相应,愿水与草木相应;愿诸火各自以敬礼,为至上而相应,持同一誓愿。那些在天地之间同心的诸火,与这些寒季相应,愿诸神如因陀罗般一同入内。与那神明一起,如阿因吉罗斯一般,坐于坚固之处。
15.58
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥ १५.५८ ॥
愿至尊者将你安放在天之背上,光明灿烂,为众生之气息、下行气、遍行气、上行气,为稳固与运行。太阳是你的主宰;与那神祇一起,如安吉罗斯一般,坚定地安坐。
15.59
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥ १५.५९ ॥
充满此处,填补缺口,然后坚定地安坐。因陀罗与阿耆尼,以及布里哈斯帕蒂,已将你安置于此胎座之中。
15.60
ता ऽ अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥ १५.६० ॥
那些斑纹之牛,挤出其甘美之汁,煮制苏摩;在诸神诞生之时,于天之三重光明界中。
15.61
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ १५.६१ ॥
一切颂歌都使因陀罗增大——他广大如海;他是车手中最优秀的车手,是财富与力量真正的主宰,是主。
15.62
प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् ।
आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥ १५.६२ ॥
如马嘶鸣而扑向草场,当他从大圈中升起时;风随其火焰而吹,而你的道路是幽暗的。
15.63
आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाꣳ समुद्रस्य हृदये ।
रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् ॥ १५.६३ ॥
我将你安置于座位之上,在阴影中,从井中取出,置于海洋之心。你充满光线、熠熠生辉,照亮天空、大地与广阔的虚空(antarikṣa)。
15.64
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृꣳह दिवं मा हिꣳसीः ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥ १५.६४ ॥
愿最高者(Parameṣṭhin)将你安置于天之背上,你广阔延展。托住天空,坚固天空,不要损害天空。为众生,为呼吸(prāṇa)、下行气(apāna)、遍行气(vyāna)、上行气(udāna),为稳定与运行。愿太阳以盛大的安康与最慈悲的庇护护佑你;与那位神祇一同,如安吉罗斯那样稳坐于恒定之处。
15.65
सहस्रस्य प्रमासि ।
सहस्रस्य प्रतिमासि ।
सहस्रस्योन्मासि ।
साहस्रो ऽसि ।
सहस्राय त्वा ॥ १५.६५ ॥
你是千之量度。你是千之相称。你是千之上量。你属于千。为了千,我将你安置(于此)。