Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

34.1

यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥ ३४.१ ॥

那神圣之心在醒时远行,睡者之处亦如此往来;那远行者、诸光之一光——愿我之心具有吉祥的意念。

34.2

येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु ॥ ३४.२ ॥

智者与坚定者借之在祭祀与集会中行事;那无与伦比、奇妙、居于众生之内的——愿我之心具有吉祥的意念。

34.3

यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु ।
यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु ॥ ३४.३ ॥

那作为明辨、觉知与坚定的,众生之内不死之光,离之则任何行动都不能完成的——愿我之心具有吉祥的意念。

34.4

येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु ॥ ३४.४ ॥

此过去、世界与未来皆为不死所包容,借之七祭司之祭祀得以展开的——愿我之心具有吉祥的意念。

34.5

यस्मिन्न् ऋचः साम यजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः ।
यस्मिꣳश् चित्तꣳ सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु ॥ ३४.५ ॥

在其中,诸颂、诸歌与诸祭文得以确立,如车轮轴心中的辐条;在其中,众生的全部心念被织就——愿我之心具有吉祥的意念。

34.6

सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव ।
हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु ॥ ३४.६ ॥

如同良好的御者以缰绳驾驭马匹,愿那引导众人、安住于心、不老且最为迅疾的心,成为我的心,具有吉祥的意愿。

34.7

पितुं नु स्तोषं महो धर्माणं तविषीम् ।
यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥ ३४.७ ॥

现在我赞颂那伟大、支持万物、强大的食物,凭借它的力量,三多把弗栗多一节一节地击碎。

34.8

अन्व् इद् अनुमते त्वं मन्यासै शं च नस् कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण ऽ आयूꣳषि तारिषः ॥ ३४.८ ॥

阿奴玛提啊,请你应允,赐予我们安宁;促使我们坚定决心与力量;延长我们的寿命。

34.9

अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् ।
अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥ ३४.९ ॥

愿今日阿奴玛提在诸神之中认可我们的祭祀;愿担负供物的阿耆尼成为供养者的福祉。

34.10

सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥ ३४.१० ॥

辛尼瓦利啊,宽发之女,你是诸神的姐妹,请接受所献的供物;女神啊,请赐予我们子嗣。

34.11

पञ्च नद्यः सरस्वतीम् अपि यन्ति सस्रोतसः ।
सरस्वती तु पञ्चधा सो देशे ऽभवत् सरित् ॥ ३४.११ ॥

五条河流带着各自的水流汇入萨拉斯瓦蒂;萨拉斯瓦蒂以五重之身,在那片土地上成为河流。

34.12

त्वम् अग्ने प्रथमो ऽ अङ्गिरा ऽ ऋषिर् देवो देवानाम् अभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥ ३४.१२ ॥

阿耆尼啊,你是最初的安吉罗娑仙人;你在诸神中成为神,成为吉祥的朋友。在你的誓愿中,诞生了智者、善于行事者和目光明亮的风神们。

34.13

त्वं नो ऽ अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य ।
त्राता तोकस्य तनये गवाम् अस्य् अनिमेषꣳ रक्षणस् तव व्रते ॥ ३४.१३ ॥

阿耆尼啊,以你的护佑守护我们这些慷慨者的身体;可敬的神啊,你是子嗣与牛群后代的保护者。在你的誓愿中,你的守护永不止息。

34.14

उत्तानायाम् अव भरा चिकित्वान्त् सद्यः प्रवीता वृषणं जजान ।
अरुषस्तूपो रुशद् अस्य पाज ऽ इडायास् पुत्रो वयुने ऽजनिष्ट ॥ ३४.१४ ॥

智者啊,把它带到朝上的那一位身边;善于推动者立即生下了雄牛。赤红的火焰、其闪耀的力量,伊达之子在智慧中诞生。

34.15

इडायास् त्वा पदे वयं नाभा पृथिव्या ऽ अधि ।
जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥ ३४.१५ ॥

在伊达之位,大地的脐上,我们安置你。生知者阿耆尼啊,我们将你安放,以承载供物。

34.16

प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे ऽ अङ्गिरस्वत् ।
सुवृक्तिभिः स्तुवत ऽ ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ ३४.१६ ॥

我们向有力者献上强劲的赞颂,如安吉罗娑一般向喜好赞美者献上洪亮的颂歌。以美好的言辞赞颂,让我们向那位著名的、拥有颂诗的领袖唱出赞歌。

34.17

प्र वो महे महि नमो भरध्वम् आङ्गूष्यꣳ शवसानाय साम ।
येना नः पूर्वे पितरः पदज्ञा ऽ अर्चन्तो ऽ अङ्गिरसो गा ऽ अविन्दन् ॥ ३४.१७ ॥

向伟大者献上伟大的敬礼;向有力者奉上颂歌与娑摩。借此,我们的古代祖先,识途者,如安吉罗斯那样赞颂,得到了牛群。

34.18

इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाꣳसि ।
तितिक्षन्ते ऽ अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥ ३४.१८ ॥

因陀罗啊,与苏摩相关的朋友渴慕你;他们压榨苏摩,奉献供品。他们忍受人们的非议;因为离开你,无人有真知。

34.19

न ते दूरे परमा चिद् रजाꣳस्य् अस्या तु प्र याहि हरिवो हरिभ्याम् ।
स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने ऽ अग्नौ ॥ ३४.१९ ॥

骅骝之主啊,即便最高的世界对你也不遥远;请向此祭前来。为坚定、有力者,这些压榨已备好;压榨石在点燃的火中被套上。

34.20

अषाढं युत्सु पृतनासु पप्रिꣳ स्वर्षाम् अप्सां वृजनस्य गोपाम् ।
भरेषुजाꣳ सुक्षितिꣳ सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥ ३४.२० ॥

苏摩啊,你在战斗与军队中不可战胜,是赢得光明者,是水与堡垒的守护者,是竞赛中的胜者,有好的居所与美好的声名,是胜利者——愿我们追随你而欢欣。

34.21

सोमो धेनुꣳ सोमो ऽ अर्वन्तम् आशुꣳ सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्यꣳ सभेयं पितृश्रवणं यो ददाशद् अस्मै ॥ ३४.२१ ॥

苏摩赐予乳牛,苏摩赐予迅捷的骏马;苏摩赐予勇敢能干的儿子。对于向他奉献的人,苏摩赐予一个熟练、适合集会、适合坐于厅堂、因祖先之名而著称的儿子。

34.22

त्वम् इमा ऽ ओषधीः सोम विश्वास् त्वम् अपो ऽ अजनयस् त्वं गाः ।
त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ ३४.२२ ॥

苏摩啊,这一切草药都是你所造;水和牛也是你所生。广阔的虚空是你所展开;你以光明驱散了黑暗。

34.23

देवेन नो मनसा देव सोम रायो भागꣳ सहसावन्न् अभि युध्य ।
मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥ ३४.२३ ॥

神苏摩啊,以我们神圣的心意,为我们争取财富的份额而战。啊,有力者,你是力量的主宰;在寻牛之中为二者显示力量。

34.24

अष्टौ व्यख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् ।
हिरण्याक्षः सविता देव ऽ आगाद् दधद् रत्ना दाशुषे वार्याणि ॥ ३४.२४ ॥

金眼的神萨维特里照亮了大地的八方,以及三片沙漠与七条河流。他携带宝石与所求之物而来,为施予者而来。

34.25

हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी ऽ अन्तर् ईयते ।
अपामीवां बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥ ३४.२५ ॥

金手、无所不见的萨维特里在天地之间运行。他驱除诸水的灾厄,走向太阳,以暗黑的虚空覆盖天空。

34.26

हिरण्यहस्तो ऽ असुरः सुनीथः सुमृडीकः स्ववाँ यात्व् अर्वाङ् ।
अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥ ३४.२६ ॥

愿金手、赐予生命、善于引导、慈悲而富有的萨维特里来到此处。驱逐罗刹与巫者,神站立着,每当黄昏都受到赞颂。

34.27

ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता ऽ अन्तरिक्षे ।
तेभिर् नो ऽ अद्य पथिभिः सुगेभी रक्षा च नो ऽ अधि च ब्रूहि देव ॥ ३४.२७ ॥

萨维特里神啊,借助你在虚空中古老、无尘、修筑精良的道路,借助那些便捷的路途,今日保护我们,并指引我们。

34.28

उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् ।
अविद्रियाभिर् ऊतिभिः ॥ ३४.२८ ॥

双马童啊,你们二位请饮用,并以不衰的护佑赐予我们庇护。

34.29

अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥ ३४.२९ ॥

双马童啊,使我们的言语富有善果;奇妙而施雨的诸神,成就我们的智慧。为了在竞争中获得助力,我召唤你们二位;请为我们的增长,并在争取奖赏的竞赛中相助。

34.30

द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥ ३४.३० ॥

双马童啊,白昼黑夜守护我们,以无害的福祉。愿弥陀罗与伐楼那为我们成就此事;愿阿底提、河流、大地与天空也如此。

34.31

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ ३४.३१ ॥

萨维特里神穿过黑暗的虚空而来,使不死者与有死者各安其位,乘坐金色车驾,俯视诸世界而来。

34.32

आ रात्रि पर्थिवꣳ रजः पितुर् अप्रायि धामभिः ।
दिवः सदाꣳसि बृहती वि तिष्ठस ऽ आ त्वेषं वर्तते तमः ॥ ३४.३२ ॥

夜啊,大地的领域已被父亲的居所充满。你广阔地立于天空的宏大座位之上;闪耀的黑暗来到这里。

34.33

उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥ ३४.३३ ॥

啊乌莎斯,为我们带来那奇妙的财富,你富有食粮与力量!借此我们可获得子嗣与儿子。

34.34

प्रातर् अग्निं प्रातर् इन्द्रꣳ हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।
प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रꣳ हुवेम ॥ ३४.३४ ॥

黎明时我们呼唤阿耆尼,黎明时呼唤因陀罗;黎明时呼唤弥陀罗与伐楼那,黎明时呼唤双马童。黎明时我们呼唤婆伽、普萨൴、梵主,黎明时呼唤苏摩与楼陀罗。

34.35

प्रातर्जितं भगम् उग्रꣳ हुवेम वयं पुत्रम् अदितेर् यो विधर्ता ।
आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥ ३४.३५ ॥

黎明时我们呼唤胜利而威猛的婆伽,阿底提之子,承载万物者——连弱者也敬他,迅捷者与君王也称:“愿婆伽享用我。”

34.36

भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः ।
भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥ ३४.३६ ॥

啊婆伽,引导者,真实富足的婆伽!婆伽,赐予我们这份思虑与行为,使我们兴盛。啊婆伽,为我们以牛与马生育子孙;啊婆伽,愿我们以众人而富有众人。

34.37

उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् ।
उतोदिता मघवन् सूर्यस्य वयं देवानाꣳ सुमतौ स्याम ॥ ३४.३७ ॥

愿我们此刻蒙受吉祥,在上午、正午以及日出之时亦然。慷慨的主啊,在太阳升起时,愿我们处于诸神的恩宠之中。

34.38

भग ऽ एव भगवाꣳ२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह ॥ ३४.३८ ॥

愿薄伽本身便是那位蒙福之神;借由他,愿我们蒙受吉祥。薄伽啊,众人都呼唤你;愿他在此作我们的前导。

34.39

सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु ॥ ३४.३९ ॥

为了祭祀,愿黎明女神们一同俯身,如同马匹达提克罗为光明的步伐而行。愿疾驰的骏马把寻得财富的薄伽带到我们这里,如同拉着战车一般。

34.40

अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ३४.४० ॥

愿富有马匹、富有牛群、富有英勇子嗣的黎明女神,为我们永远吉祥地升起。你们流淌酥油,从四面被饮用,愿你们以吉祥永远护佑我们。

34.41

पूषन् तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस् त ऽ इह स्मसि ॥ ३४.४१ ॥

噢普善啊,在你的誓愿之下,愿我们永不受损。我们在此是你的赞颂者。

34.42

पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् ।
स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियꣳ सीषधाति प्र पूषा ॥ ३४.४२ ॥

向每条道路的主宰普善,那出于渴望而作的赞歌已经抵达。愿他迅速赐予我们;愿额头光明的普善成就每一个念头。

34.43

त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः ।
अतो धर्माणि धारयन् ॥ ३४.४३ ॥

毗湿奴跨出三步,他是守护者,不可战胜者。因此他承载诸法。

34.44

तद् विप्रासो विपन्यवो जागृवाꣳसः सम् इन्धते ।
विष्णोर् यत् परमं पदम् ॥ ३४.४४ ॥

毗湿奴的那至高之处,警醒的智者与赞颂者点燃它。

34.45

घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा ॥ ३४.४५ ॥

富含酥油、为众生所庄严的广阔大地与доящий甘露的美妙天空,以瓦鲁纳之法被分开支撑——不老,蕴含丰沛的种子。

34.46

ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् ।
वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ ३४.४६ ॥

愿我们的敌人远离;我们借因陀罗与阿耆尼将他们压下。诸婆苏、楼陀罗与阿底提耶造就了那位猛烈而明辨的超王,从上方触及。

34.47

आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना ।
प्रायुस् तारिष्टं नी रपाꣳसि मृक्षतꣳ सेधतं द्वेषो भवतꣳ सचाभुवा ॥ ३४.४७ ॥

无死的阿什维内啊,请偕同三十三位神来此饮甘露。延长寿命,拭去污垢,驱散仇恨,成为同伴。

34.48

एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ ३४.४८ ॥

诸摩鲁特啊,这是献给你们的赞歌;这首歌出自曼达里亚与诗人曼亚。愿它抵达我们的身体;愿我们知晓食物、力量与长寿。

34.49

सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः ।
पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन् ॥ ३४.४९ ॥

七位神圣的仙人,有相同的赞颂、相同的韵律与相同的尺度;看见古人的道路后,智者们紧握它,如御者握住缰绳。

34.50

आयुष्यं वर्चस्यꣳ रायस्पोषम् औद्भिदम् ।
इदꣳ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम् ॥ ३४.५० ॥

这赋予长寿、赋予活力、滋养财富,出自生长的草木。愿这充满活力的黄金为了胜利而进入我身。

34.51

न तद् रक्षाꣳसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजꣳ ह्य् एतत् ।
यो बिभर्ति दाक्षायणꣳ हिरण्यꣳ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः ॥ ३४.५१ ॥

罗刹与食肉鬼无法胜过它;它是诸神最初诞生的力量。佩戴达刹衍那金的人,在诸神之中得长寿,在人类之中也得长寿。

34.52

यद् आबध्नन् दाक्षायणा हिरण्यꣳ शतानीकाय सुमनस्यमानाः ।
तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम् ॥ ३४.५२ ॥

正如达刹衍那族人怀着喜悦之心为舍塔尼迦系上黄金,我也为自己系上它:愿活满一百个秋天,长寿直至老年。

34.53

उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः ।
विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु ॥ ३४.५३ ॥

愿蛇底神、独足不生者、大地与海洋听闻我们。愿所有增益秩序(ṛta)的诸天神,受到召请与赞颂,以及被诗人赞美的咒语守护我们。

34.54

इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअꣳशः ॥ ३४.५४ ॥

我以滴落酥油的勺,自古献上这些言语给阿迪提耶诸王。愿密多罗、阿利耶曼、婆伽、多生的伐楼那、达刹与阿姆until听闻我们。

34.55

सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् ।
सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ ॥ ३४.५५ ॥

身中安立七位仙人,七者恒常不放逸地守护。睡者的七水前往彼界;那里有两位醒着、无梦而生、坐于集会的神。

34.56

उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे ।
उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा ॥ ३४.५६ ॥

起来吧,祈祷之主!我们渴慕诸神,呼唤你。愿慷慨的摩录多近前;因陀罗啊,渴望饮用苏摩,请与我们同在。

34.57

प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाꣳसि चक्रिरे ॥ ३४.५७ ॥

如今祈祷之主宣说那值得诵念的咒语,其中因陀罗、伐楼那、密多罗、阿利耶曼与诸神安立了他们的居所。

34.58

ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ ३४.५८ ॥

梵主啊,你是此颂的主导者;请觉醒并增益我们的子孙。愿诸神守护一切吉祥之事;愿我们与善良勇敢的子嗣一同,在祭会上宣说宏大的言辞。