夜柔吠陀 · 章(Adhyāya) 16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥ १६.१ ॥
向你的愤怒致敬,罗陀罗;也向你的箭致敬。向你的双臂致敬。
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥ १६.२ ॥
罗陀罗啊,以你那吉祥、不可怖、不显罪恶的形体,最为慈善的形体,请垂看我们,山之主啊。
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥ १६.३ ॥
啊,山中之主(Giriśanta),你手中持握用以射出的箭,啊,山之守护者(Giritra),请使它吉祥(Śiva);不要伤害人与世界。
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥ १६.४ ॥
啊,山主(Giriśa),我们以吉祥的言语向你说话,愿我们整个世界无病、心意善良。
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥ १६.५ ॥
第一位神圣的医者、首席导师说道:碾碎一切蛇,将一切食人鬼女(yātudhānī)向下驱逐远离。
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥ १६.६ ॥
那位铜红、赤色、棕色、极为吉祥者;以及围绕在他周围、遍布四方、成千上万的楼陀罗(Rudra),我们祈求消除他们的愤怒。
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥ १६.७ ॥
那位蓝颈、深红而降临者;牧人们看见了他,看见了;他是应当被举起的。愿他显现,对我们施以慈悲。
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥ १६.८ ॥
向蓝颈、千眼、慷慨者致敬;向他的随从们,我也致敬。
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥ १६.९ ॥
楼陀罗啊,从弓上和双臂上解开弦吧。你手中的箭,啊世尊,把它们远远抛开。
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥ १६.१० ॥
愿卡帕尔丁(结发者)的弓无弦,箭无镞。愿他的箭不要射中他;愿他的箭袋仍属于他自己。
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥ १६.११ ॥
啊最慷慨者,以你手中与弓上的那件武器,你,无病无痛,从四面八方护卫我们。
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मिन् नि धेहि तम् ॥ १६.१२ ॥
愿你弓上的箭器从四面八方使我们远离。你的箭袋,就在这里,把它放到远处,就放在此处吧。
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १६.१३ ॥
啊千眼者,啊百箭袋者,既卸下弓弦,磨钝箭镞,愿你对我们吉祥而心意和善。
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥ १६.१४ ॥
向你致敬,向未张的武器致敬,向你这勇猛者致敬。也向你的双臂、你的弓致敬。
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥ १६.१५ ॥
啊,楼陀罗!不要伤害我们的年长者,不要伤害我们的幼小者,不要伤害我们的成年者,不要伤害我们的胎儿。不要杀害我们的父亲和母亲;不要损伤我们亲爱的身体。
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥ १६.१६ ॥
不要伤害我们的子孙和后代,不要伤害我们的寿命,不要伤害我们的牛群,不要伤害我们的马匹。愤怒的楼陀罗啊,不要击杀我们的勇士;我们手持供品,永远呼唤你。
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥ १६.१७ ॥
敬礼金臂的军帅,敬礼诸方的主宰;敬礼,敬礼诸树、绿发者,敬礼牲畜的主宰;敬礼,敬礼如草黄色的光耀者,敬礼诸道路的主宰;敬礼,敬礼佩戴圣线的绿发者,敬礼诸兴旺者的主宰;敬礼。
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥ १६.१८ ॥
敬礼黄褐色的猎人,敬礼食物的主宰;敬礼婆婆(Bhava)的武器,敬礼动物世界的主宰;敬礼张弓的楼陀罗,敬礼田野的主宰;敬礼御者、不杀者,敬礼,敬礼森林的主宰;敬礼。
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥ १६.१९ ॥
敬礼红色者、建造者,树木之主。敬礼,敬礼,敬礼布凡提、水的开辟者,草药之主。敬礼,敬礼,敬礼谋士、商人,丛林之主。敬礼高声者、使人呼号者,步兵之主。敬礼。
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥ १६.२० ॥
敬礼全力奔跑者,众生之主。敬礼,敬礼萨哈曼、尼维亚丁,射手之主。敬礼,敬礼携箭袋者、ककुभ,盗贼之主。敬礼,敬礼尼恰罗、帕里恰罗,森林之主。
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥ १६.२१ ॥
敬礼欺骗者、四面欺骗者,盗贼之主。敬礼,敬礼携箭袋者、持箭者,强盗之主。敬礼,敬礼持矛者、欲杀者,掠夺者之主。敬礼,敬礼持剑者、夜行者,斩割者之主。敬礼。
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥ १६.२२ ॥
敬礼那戴头巾、游行于山间者;敬礼库伦昌人之主。敬礼持箭者、射手,以及你们。敬礼拉弓上弦者。敬礼拉箭发射者,以及你们。
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥ १६.२३ ॥
敬礼放箭与射穿者,以及你们。敬礼睡眠者与醒寐者,以及你们。敬礼卧者与坐者,以及你们。敬礼立者与奔跑者,以及你们。
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥ १६.२४ ॥
敬礼诸集会与集会之主,以及你们。敬礼诸马与马之主,以及你们。敬礼击打之女与穿刺之女,以及你们。敬礼猛烈之群与强力者,以及你们。
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥ १६.२५ ॥
向众队致敬,向众队之主致敬;向你们致敬。致敬,致敬;向群体致敬,向群体之主致敬;向你们致敬。致敬,致敬;向格尔茨者致敬,向格尔茨者之主致敬;向你们致敬。致敬,致敬;向畸形者与一切形者致敬;向你们致敬。
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥ १६.२६ ॥
向军队致敬,向军长致敬;向你们致敬。致敬,致敬;向车兵致敬,向非车兵致敬;向你们致敬。致敬;向刹特里与桑格拉希特里致敬;向你们致敬。致敬,致敬;向伟大者致敬,向幼小者致敬;向你们致敬。
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥ १६.२७ ॥
向木匠致敬,向造车者致敬;向你们致敬。致敬,致敬;向陶工致敬,向铁匠致敬;向你们致敬。致敬,致敬;向尼沙达人致敬,向蓬吉斯塔人致敬;向你们致敬。致敬,致敬;向养狗者致敬,向猎人致敬;向你们致敬。
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥ १६.२८ ॥
向狗致敬,向狗之主致敬;向你们致敬。致敬,致敬;向婆婆(Bhava)致敬,向楼陀罗(Rudra)致敬。致敬;向沙尔瓦(Śarva)致敬,向帕苏帕蒂(Paśupati)致敬。致敬;向蓝颈者与白喉者致敬。
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥ १६.२९ ॥
敬礼结发者,敬礼剃发者。敬礼千眼者,敬礼百弓者。敬礼卧于山上者,敬礼始毗毗什陀。敬礼最慷慨者,敬礼持箭者。
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥ १६.३० ॥
敬礼矮小者,敬礼侏儒者。敬礼伟大者,敬礼最为卓越者。敬礼年长者,敬礼共同增长者。敬礼最前者,敬礼最初者。
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥ १६.३१ ॥
敬礼迅疾者,敬礼敏捷者。敬礼疾行者,敬礼速动者。敬礼具波浪者,敬礼具鸣水者。敬礼属河者,敬礼属岛者。
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥ १६.३२ ॥
敬礼长者,敬礼幼者。敬礼先生者,敬礼后生者。敬礼居中者,敬礼不怯者。敬礼最末者,敬礼居深者。
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥ १६.३३ ॥
敬礼居所护持者,敬礼逆行者。敬礼南行者,敬礼安稳者。敬礼有名声者,敬礼终息者。敬礼属田者,敬礼属场者。
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥ १६.३४ ॥
敬礼林中者与丛林者;敬礼名声与回响的名声;敬礼疾臂者与疾车者;敬礼英雄与劈裂者。
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥ १६.३५ ॥
敬礼戴盔者与披甲者;敬礼穿甲者与护持者;敬礼著名者与著名军队之主;敬礼持鼓者与不可杀者。
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥ १६.३६ ॥
敬礼勇猛者与摧击者;敬礼负箭袋者与具箭囊者;敬礼利箭者与持械者;敬礼善器者与善弓者。
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥ १६.३७ ॥
敬礼溪流与道路之主;敬礼沟壑与河岸之主;敬礼渠道与湖泊之主;敬礼河流与池塘之主。
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥ १६.३८ ॥
敬礼井泉与坑洼之主;敬礼沼泽与炎热之主;敬礼祭祀清净与闪电之主;敬礼降雨与无雨之主。
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥ १६.३९ ॥
敬礼风中之主,亦敬礼尘暴中之主。敬礼居所之主,亦敬礼宅地之主。敬礼苏摩,亦敬礼楼陀罗。敬礼铜色者,亦敬礼赤色者。
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥ १६.४० ॥
敬礼声音柔和者,亦敬礼畜群之主。敬礼猛烈者,亦敬礼可畏者。敬礼近处杀戮者,亦敬礼远处杀戮者。敬礼杀戮者,亦敬礼更致命者。敬礼树木,敬礼绿发者。敬礼摆渡者。
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ १६.४१ ॥
敬礼安乐之源,亦敬礼赐予幸福者。敬礼赐予吉祥者,亦敬礼使人欢喜者。敬礼吉祥者,亦敬礼更吉祥者。
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥ १६.४२ ॥
敬礼彼岸者,亦敬礼此岸者。敬礼助渡者,亦敬礼送达彼岸者。敬礼渡口者,亦敬礼岸边者。敬礼草中者,亦敬礼泡沫中者。
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥ १६.४३ ॥
敬礼沙中者,亦敬礼流水中者。敬礼砾石中者,亦敬礼居所中者。敬礼束发的迦波丁,亦敬礼补罗斯提耶。敬礼干涸沼泽中者,亦敬礼道路中者。
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥ १६.४४ ॥
敬礼于在畜栏者与在牛棚者;敬礼于在床榻者与在屋舍者;敬礼于在心中者与在居所者;敬礼于在丛林者与立于深谷者。
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥ १६.४५ ॥
敬礼于在干燥处者与在青翠处者;敬礼于在尘土者与在尘雾中者;敬礼于在劫掠之地者与在乌拉跋之地者;敬礼于在波涛者与在大海者。
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥ १६.४६ ॥
敬礼于在叶中者与坐于叶间者;敬礼于举弓者与击打者;敬礼于啃咬者与彻底啃咬者;敬礼于制箭者与制弓者,敬礼于你们,敬礼;敬礼于驱散诸神者之心;敬礼于搜寻者;敬礼于毁灭者;敬礼于被击倒者。
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥ १६.४७ ॥
食物与饮料之主啊,披着披风者,贫穷者,暗红者!不要惧怕这些众生与这些牲畜,不要生病;愿我们的任何东西都不被你伤害。
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥ १६.४८ ॥
我们向强大、蓬发的罗陀,人类之主,献上这些颂歌。愿两足与四足众生得享安宁;愿此村中万物繁茂,无病无灾。
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥ १६.४९ ॥
啊,楼陀罗,你那吉祥的形相,恒常是良药,是治愈疾病的吉祥良药:愿你以此慈悯我们,使我们得以存活。
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥ १६.५० ॥
愿楼陀罗的武器远离我们,愿猛烈者与恶人的恶意远离我们。啊,慷慨者,为施主们伸展坚定的恩典;慈悯我们的子孙后代。
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥ १६.५१ ॥
最慷慨者,最吉祥者,愿你对我们吉祥而心怀善意。将武器置于高树之上,身披兽皮,持着弓箭“品那迦”,来到此处。
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥ १६.५२ ॥
啊,散布者,啊,赤色者,啊,尊贵者,向你致敬。愿你的千件武器落在别人身上,而不落在我们身上。
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥ १६.५३ ॥
你臂上的武器成千上万。啊,尊贵者,请你作它们的主宰,把它们的面孔转向远方。
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १६.५४ ॥
大地上无数千的楼陀罗,我们将他们的弓放到千由旬之外。
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १६.५५ ॥
在这大海与虚空中的婆婆们,我们将他们的弓放到千由旬之外。
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १६.५६ ॥
蓝颈白喉、依止于天界的楼陀罗,我们将他们的弓放到千由旬之外。
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.५७ ॥
蓝颈白喉、在下方大地上行走的舍尔瓦,我们将他们的弓放到千由旬之外。
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.५८ ॥
居于树木之中、如草般黄褐、蓝颈而略带红色者,我们将他们的弓放到千由旬之外。
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.५९ ॥
作为众生之主、发髻散开、戴着结发者,我们将他们的弓放到千由旬之外。
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.६० ॥
那些守护道路的、为生命而战的艾拉布利陀——我们将他们的弓放在千由旬之外。
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.६१ ॥
那些在渡口游走、手持长矛、背负箭囊的——我们将他们的弓放在千由旬之外。
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.६२ ॥
那些在饮食中、在人们用器皿饮水时伤害他们的——我们将他们的弓放在千由旬之外。
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ १६.६३ ॥
站立于这些方向乃至更多方向的楼陀罗——我们将他们的弓放在千由旬之外。
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १६.६४ ॥
向天上的楼陀罗致敬,其箭矢遍布四方。他们拥有东方十方、南方十方、西方十方、北方十方和上方十方。向他们致敬;愿他们守护我们,愿他们对我们慈悲。我们所憎恨的人,以及憎恨我们的人,我们都将其置于他们的齿颚之间。
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १६.६५ ॥
敬礼于居住在虚空中的楼陀罗们,他们的箭是风。为他们设有东方十方、南方十方、西方十方、北方十方和上方十方。敬礼于他们。愿他们保护我们,愿他们慈悲于我们。我们把所憎恨的人,以及憎恨我们的人,置于他们的颚中。
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥ १६.६६ ॥
敬礼于居住在大地上的楼陀罗们,他们的箭是食物。为他们设有东方十方、南方十方、西方十方、北方十方和上方十方。敬礼于他们。愿他们保护我们,愿他们慈悲于我们。我们把所憎恨的人,以及憎恨我们的人,置于他们的颚中。