夜柔吠陀 · 章(Adhyāya) 3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.1
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥ ३.१ ॥
以薪柴供奉阿耆尼,以酥油唤醒这位客人。在其中献上祭品。
3.2
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
अग्नये जातवेदसे ॥ ३.२ ॥
为炽燃明亮的阿耆尼倾注浓烈的酥油——献给知生者阿耆尼。
3.3
तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि ।
बृहच्छोचा यविष्ठ्य ॥ ३.३ ॥
啊,安吉罗斯!我们以薪柴与酥油使你增长。啊,最年轻者,请大大地放光。
3.4
उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत ।
जुषस्व समिधो मम ॥ ३.४ ॥
啊,阿耆尼!愿携带祭品、趋向酥油的供物来到你身边。啊,可爱者,请接受我的薪柴。
3.5
भूर् भुवः स्वः ।
द्यौर् इव भूम्ना पृथिवीव वरिम्णा ।
तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे ॥ ३.५ ॥
地、空界、天。如天空般广大,如大地般宽阔。啊,大地,诸神祭祀之所,我将食物的享用者阿耆尼安置于你的表面,供其享用食物。
3.6
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥ ३.६ ॥
这只斑点的母牛来了,向前走去;它先坐在母亲(大地)之前,也走向正升往天界的父亲(天空)。
3.7
अन्तश् चरति रोचनास्य प्राणाद् अपानती ।
व्यख्यन् महिषो दिवम् ॥ ३.७ ॥
他在自身的光辉之中运行,从气息中呼出下行气。伟大者照亮天空。
3.8
त्रिꣳशद् धाम वि राजति वाक् पतङ्गाय धीयते ।
प्रति वस्तोर् अह द्युभिः ॥ ३.८ ॥
三十处居所照耀;言语为飞鸟(太阳)而置。向着黎明,与众日同在。
3.9
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ।
सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ।
अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा ।
सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा ।
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ ३.९ ॥
阿耆尼即光明,光明即阿耆尼——娑哈。苏利耶即光明,光明即苏利耶——娑哈。阿耆尼即光辉,光明即光辉——娑哈。苏利耶即光辉,光明即光辉——娑哈。光明即苏利耶,苏利耶即光明——娑哈。
3.10
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या ।
जुषाणो ऽअग्निर् वेतु स्वाहा ।
सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या ।
जुषाणः सूर्यो वेतु स्वाहा ॥ ३.१० ॥
与天神萨维德里、黑夜、因陀罗婆提相会;愿喜悦的阿耆尼受纳——娑哈。与天神萨维德里、黎明、因陀罗婆提相会;愿喜悦的苏利耶受纳——娑哈。
3.11
उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये ।
आरे ऽ अस्मे च शृण्वते ॥ ३.११ ॥
靠近祭祀,让我们向阿耆尼诵出神圣的咒语——向那从远方和近处都能听见的神。
3.12
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाᳬं रेताᳬंसि जिन्वति ॥ ३.१२ ॥
阿耆尼是天之首,地之顶与主宰;他激发水中的种子。
3.13
उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै ।
उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥ ३.१३ ॥
你们二位,因陀罗与阿耆尼,值得被召唤;愿二者以赠礼使人欢喜。二者皆是食物与财富的施予者。为获得力量,我召唤你们二位。
3.14
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥ ३.१४ ॥
此乃你按时令的出生之所,你由此而生并放光。阿耆尼啊,知晓此处后,请升起,为我们增添财富。
3.15
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ ३.१५ ॥
此第一位祭司(hotṛ),于此由安立者安置,在祭祀中最受尊崇、最值得赞颂。阿普那瓦纳与婆利古使他在林中放光——奇妙、遍在,为每一族而设。
3.16
अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे ऽ अह्रयः ।
पयः सहस्रसाम् ऋषिम् ॥ ३.१६ ॥
循其古老之光辉,不知疲倦者挤出了明亮的乳汁——赐予千倍之物者,为了先知。
3.17
तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि ।
आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि ।
वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि ।
अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण ॥ ३.१७ ॥
阿耆尼啊,你是身体的守护者;请守护我的身体。阿耆尼啊,你是赐予寿命者;请赐我寿命。阿耆尼啊,你是赐予光辉者;请赐我光辉。阿耆尼啊,我身体所缺之处,请为我重新补足。
3.18
इन्धानास् त्वा शतꣳ हिमा द्युमन्तꣳ सम् इधीमहि ।
वयस्वन्तो वयस्कृतꣳ सहस्वन्तः सहस्कृतम् ।
अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् ।
चित्रावसो स्वस्ति ते पारम् अशीय ॥ ३.१८ ॥
在百个冬天里点燃你,我们共同点燃你这光辉者。赐予寿命、赐予力量的阿耆尼,摧毁敌人者,不朽者,不可征服者。啊,拥有奇妙财富者,愿你平安吉祥;愿我们抵达彼岸。
3.19
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाᳬं स्तुतेन ।
सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सꣳ रायस् पोषेण ग्मिषीय ॥ ३.१९ ॥
啊阿耆尼,愿你与太阳的光辉相结合,与仙人的赞颂相结合。与可爱的居所相结合;愿我与寿命、光辉、子嗣、财富与滋养相结合。
3.20
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय ॥ ३.२० ॥
你们是食物;愿我食用你们的食物。你们是伟大;愿我食用你们的伟大。你们是活力;愿我食用你们的活力。你们是财富的滋养;愿我食用你们财富的滋养。
3.21
रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये ।
इहैव स्त मापगात ॥ ३.२१ ॥
啊,富有牛群的母牛们,愿你们在此胎中、此牛栏、此世界、此居所中欢喜。就留在这里;不要离去。
3.22
सꣳहितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन ।
उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।
नमो भरन्त ऽएमसि ॥ ३.२२ ॥
你是结合者,具一切形相;愿你以活力、以牛群之主的权能进入我身。啊阿耆尼,日复一日,夜间与黎明,以心念并奉上敬礼,我们来到你的面前。
3.23
राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
वर्धमाणꣳ स्वे दमे ॥ ३.२३ ॥
致诸祭祀的光明之主、天则的守护者、光辉的阿耆尼,他在自己的居所中增长。
3.24
स नः पितेव सूनवे ऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥ ३.२४ ॥
阿耆尼啊,你对我们如父对子;请做易于亲近的慈善者;为了我们的安康与我们同在。
3.25
अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः ।
वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमꣳ रयिं दाः ॥ ३.२५ ॥
阿耆尼啊,愿你成为我们最亲近的保护者,吉祥而庇护我们;赐予财富、以财富闻名的阿耆尼,请来到我们这里,赐予最光明的财富。
3.26
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ।
स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात् ॥ ३.२६ ॥
最光明、辉煌的主啊,我们现在为朋友们祈求你的恩惠;愿你知晓并听闻我们的呼唤,使我们免受恶人的伤害。
3.27
इडऽ एह्य् अदित ऽ एहि ।
काम्या ऽ एत ।
मयि वः कामधरणं भूयात् ॥ ३.२७ ॥
伊达啊,请到这里来;阿底提啊,请到这里来;诸位可爱的女神,请来吧;愿你们的心愿在我身上得以成就。
3.28
सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य ऽ औशिजः ॥ ३.२८ ॥
梵主啊,请为苏摩作“斯瓦兰纳”(召请),正如为乌希贾之子迦克沙凡所做的那样。
3.29
यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः ।
स नः सिषक्तु यस् तुरः ॥ ३.२९ ॥
富有者、除病者、得财者、增益滋养者,愿他赐予我们,那迅速者。
3.30
मा नः शꣳसोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य ।
रक्षा णो ब्रह्मणस्पते ॥ ३.३० ॥
愿吝啬者的诅咒与欺诈不要降临我们;愿它为凡人而灭。梵主啊,请护佑我们。
3.31
महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥ ३.३१ ॥
愿三者之大庇护存在;米特拉与阿利耶曼的光明庇护。愿婆罗那的庇护不可侵犯。
3.32
नहि तेषाम् अमा चन नाध्वसु वारणेषु ।
ईशे रिपुर् अघशꣳसः ॥ ३.३२ ॥
即便靠近他们,无论在道路上或阻碍中,敌人与恶语者都无权势。
3.33
ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर् यच्छन्त्य् अजस्रम् ॥ ३.३३ ॥
他们确是阿底提之子;为使凡人得生,他们永不停歇地赐予光明。
3.34
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ॥ ३.३४ ॥
因陀罗啊,你从不吝啬;你亲近施与者。慷慨者啊,愿你的恩赐如今由神更多地赐予。
3.35
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयत् ॥ ३.३५ ॥
我们冥想神圣萨维特尔的可敬光辉;愿他激发我们的思想。
3.36
परि ते दूडभो रथोऽस्माꣳ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥ ३.३६ ॥
愿你那不可战胜的战车从四面八方护卫我们,你借此消灭施主的罗刹。
3.37
भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याꣳ सुवीरो वीरैः सुपोषः पोषैः ।
नर्य प्रजां मे पाहि ।
शꣳस्य पशून् मे पाहि ।
अथर्य पितुं मे पाहि ॥ ३.३७ ॥
地、空、天:愿我拥有良好的子嗣,与子孙同在;拥有英勇的儿子,并获得充足的滋养。啊,那利耶,请护佑我的子嗣。啊,尚斯耶,请护佑我的牲畜。啊,阿塔利耶,请护佑我的食物。
3.38
आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् ।
अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥ ३.३८ ॥
我们来到拥有一切财富者面前,他为我们寻得最好的财富。啊,阿耆尼君主,请赐予我们光辉与力量。
3.39
अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः ।
अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥ ३.३९ ॥
这位阿耆尼是家主,家庭之火,为子嗣寻得最好的财富。啊,家主阿耆尼,请赐予我们光辉与力量。
3.40
अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः ।
अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥ ३.४० ॥
这位阿耆尼是普利施耶,富足多财,增益滋养。啊,普利施耶阿耆尼,请赐予我们光辉与力量。
3.41
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि ।
ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः ॥ ३.४१ ॥
诸屋啊,不要害怕,不要颤抖;我们怀着力量与养分而来。为你们承载力量,我心善意、智慧良好,怀着喜悦走进房屋。
3.42
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे ते नो जानन्तु जानतः ॥ ३.४२ ॥
凡家中之人,即使远行也仍习学,且多有善意者,我们呼唤其家。愿他们认识我们,如知者之识。
3.43
उपहूताऽ इह गावऽ उपहूताऽ अजावयः ।
अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः ।
क्षेमाय वः शान्त्यै प्र पद्ये शिवꣳ शग्मꣳ शंयोः शंयोः ॥ ३.४३ ॥
此处已召来牛群,已召来山羊绵羊;食物的精华也已召至我们的屋中。为你们的安稳与平安,我前行:愿其吉祥、福祐、带来喜乐,喜乐。
3.44
प्रघासिनो हवामहे मरुतश् च रिशादसः ।
करम्भेण सजोषसः ॥ ३.४४ ॥
我们呼唤享用祭馔的摩录多,以及摧毁敌人的摩录多;以炒麦粉(karambha)相供,同心欢喜。
3.45
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यद् एनश् चकृमा वयम् इदं तद् अव यजामहे स्वाहा ॥ ३.४५ ॥
无论我们在村庄、森林、集会、感官之力中所犯何过,我们以此供物将其献送远去。斯瓦哈。
3.46
मो षू ण ऽ इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः ।
महश् चिद् यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ ३.४६ ॥
因陀罗啊,在这些与诸神的争战中不要舍弃我们;因为你这强者本不应远离。为那伟大而慷慨者,此歌赞颂携带祭品的摩录多。
3.47
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः ॥ ३.४७ ॥
行祭者以带来幸福的言语完成了仪式。为诸神完成祭祀之后,伴侣们,回家去吧。
3.48
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो यासिषम् अव मर्त्यैर् मर्त्यकृतम् ।
पुरुराव्णो देव रिषस् पाहि ॥ ३.४८ ॥
阿婆阏陀啊,你是洒水者,已降下来了。愿我除去诸神所造的过错与凡人所造的过错。众人赞颂的神啊,请保护免于伤害。
3.49
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत ।
वस्नेव वि क्रीणावहाऽ इषमूर्जꣳ शतक्रतो ॥ ३.४९ ॥
满满的勺啊,满满地去,再满满地回来。仿佛以价购买一般,让我们二者购买食物与精华,百祭者啊。
3.50
देहि मे ददामि ते नि मे धेहि नि ते दधे ।
निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥ ३.५० ॥
请给予我,我给予你。为我安放,我为你安放。你从我这里取得供物;我把供物还给你。斯瓦哈。
3.51
अक्षन्न् अमीमदन्त ह्य् अव प्रियाऽ अधूषत ।
अस्तोषत स्वभानवो विप्रा निविष्ठया मती योजा न्विन्द्र ते हरी ॥ ३.५१ ॥
他们已进食,欢喜;亲爱者们抖动了身体。自光明的智者以定心赞颂。因陀罗啊,现在套上你的两匹赤马吧。
3.52
सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि ।
प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाꣳ२ऽ अनु योजा न्विन्द्र ते हरी ॥ ३.५२ ॥
富有者啊,我们愿赞颂你这外貌美好的神。装备齐全、受到赞颂的你,确实奔向牛群。因陀罗啊,现在套上你的两匹赤马吧。
3.53
मनो न्व् आह्वामहे नाराशꣳसेन स्तोमेन ।
पितॄणां च मन्मभिः ॥ ३.५३ ॥
我们以心念,以纳拉输萨赞歌和祖先们的祷词,现在呼请。
3.54
आ न ऽएतु मनः पुनः क्रत्वे दक्षाय हविषे ।
ज्योक् च सूर्यं दृशे ॥ ३.५४ ॥
愿心念再回到我们这里,为了智慧、力量与供品,并使我们长久得见太阳。
3.55
पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातꣳ सचेमहि ॥ ३.५५ ॥
愿祖先们再赐予我们心念;愿神圣的人们赐予生命与伴侣;愿我们与他们相连。
3.56
वयꣳ सोम व्रते तव मनस् तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥ ३.५६ ॥
苏摩啊,在你的誓愿中,将心念承载于身体之内,愿我们与子嗣相连。
3.57
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा ।
एष ते रुद्र भागऽ आखुस् ते पशुः ॥ ३.५७ ॥
啊楼陀罗,这是你的份额,与你的姊妹安比卡一同;请接受它。斯瓦哈。啊楼陀罗,这是你的份额;老鼠是你的牲畜。
3.58
अव रुद्रमद् ईमह्य् अव देवं त्र्यम्बकम् ।
यथा नो वस्यसस् करद् यद् यथा नः श्रेयसस् करद् यद् यथा नो व्यवसाययात् ॥ ३.५८ ॥
我们恳求那三眼神楼陀罗,愿他使我们更加兴旺,更加吉祥,并使我们的事业成功。
3.59
भेषजम् असि भेषजं गवेऽश्वाय पुरुषाय भेषजम् ।
सुखं मेषाय मेष्यै ॥ ३.५९ ॥
你是良药;为牛、为马、为人的良药。为公羊带来安康,为母羊带来安康。
3.60
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय माऽमृतात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकम् इव बन्धनाद् इतो मुक्षीय मामुतः ॥ ३.६० ॥
我们崇敬三眼神(Tryambaka),他芬芳,增益滋养。如黄瓜脱离瓜蒂,愿我们脱离死亡;愿我们不离不死。我们崇敬三眼神,他芬芳,赐予丈夫。如黄瓜脱离瓜蒂,愿我从此处与彼处得解脱。
3.61
एतत् ते रुद्रावसं तेन परो मूजवतोऽ तीहि ।
अवततधन्वा पिनाकावसः कृत्तिवासाऽ अहिꣳसन् नः शिवोऽतीहि ॥ ३.६१ ॥
这是你从楼陀罗(Rudra)得来的护佑;凭此越过穆佳婆特山。你松开弓弦,受皮纳迦(Pinaka)护佑,身披兽皮,不伤害我们,以湿婆之身前行。
3.62
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
यद् देवेषु त्र्यायुषं तन् नो ऽअस्तु त्र्यायुषम् ॥ ३.६२ ॥
嘉玛达格尼的三重寿命,迦叶波的三重寿命。诸神所有的三重寿命,愿它属于我们;愿有三重寿命。
3.63
शिवो नामासि स्वधितिस् ते पिता नमस् ते ऽअस्तु मा मा हिꣳसीः ।
नि वर्तयाम्य् उषेऽन्नाद्याय प्रजननाय रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ ३.६३ ॥
你名为湿婆(Śiva);斯瓦提提(Svadhiti)是你的父亲。敬礼于你,不要伤害我。啊,黎明女神,我为食物、生育、财富与滋养、良好的子嗣与良好的力量,将它向下放回。