夜柔吠陀 · 章(Adhyāya) 8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.1
उपयामगृहीतो ऽसि ।
आदित्येभ्यस् त्वा ।
विष्ण ऽ उरुगायैष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् ॥ ८.१ ॥
你已被取入升炉杯中。为阿底提耶们而取你。哦,毗湿奴,大步前行者,这是你的苏摩;守护它,愿无人伤害你。
8.2
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ऽ ।
आदित्येभ्यस् त्वा ॥ ८.२ ॥
你从不受束缚;哦,因陀罗,你前来就施主。哦,富有者,愈加靠近;你的布施由神赐予。为阿底提耶们而取你。
8.3
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी ।
तुरीयादित्य सवनं त ऽ इन्द्रियम् आ तस्थाव् अमृतं दिवि ।
आदित्येभ्यस् त्वा ॥ ८.३ ॥
你从不离去;你守护两生。哦,阿底提耶,第四次压榨属于你;你的力量作为不死安立于天上。为阿底提耶们而取你。
8.4
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वोऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् ।
आदित्येभ्यस् त्वा ॥ ८.४ ॥
祭祀走向诸神,走向恩惠。哦,阿底提耶们,请慈悲吧。愿来向你们的善念回转,并使财富即使从困厄中也能带来。为阿底提耶们而取你。
8.5
विवस्वन्न् आदित्यैष ते सोमपीथस् तस्मिन् मत्स्व ।
श्रद् अस्मै नरो वचसे दधातन यद् आशीर्दा दम्पती वामम् अश्नुतः ।
पुमान् पुत्रो जायते विन्दते वस्व् अधा विश्वाहार् अप ऽ एधते गृहे ॥ ८.५ ॥
啊,毗婆斯婆之子阿迪提耶,这是你饮苏摩之处;在其中欢喜吧。啊,诸人,为此人树立对言语的信心,使施福的夫妇获得所求的福祉。男子生子,获得财富,在家中日日兴盛。
8.6
वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यꣳ सावीः ।
वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ ८.६ ॥
啊,萨维特里,今日赐予福祉,明日亦然;日复一日赐予我们福祉。啊,神,凭借这广大庇护的福祉,凭借此明智,愿我们成为福祉的分享者。
8.7
उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश् चनोधा ऽ असि चनो मयि धेहि ।
जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे ॥ ८.७ ॥
你已被以优帕雅摩之器取出;你属于萨维特里。你是给予养料者,给予养料者;你即是养料,请将养料置于我身。激发祭祀,激发祭主;为了兴旺,为了神萨维特里,将你(奉献)。
8.8
उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः ।
विश्वेभ्यस् त्वा देवेभ्यः ऽ ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥ ८.८ ॥
你已被以优帕雅摩之器取出;你是善好的庇护,坚固的基础;向大公牛致敬。为一切天神,将你(奉献)。这是你的座位;为一切天神,将你(奉献)。
8.9
उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम त ऽ इन्दोर् इन्द्रियावतं पत्नीवतो ग्रहाँ२ ऽ ऋध्यासम् ।
अहं परस्ताद् अहम् अवस्ताद् यद् अन्तरिक्षं तद् उ मे पिताभूत् ।
अहꣳ सूर्यम् उभयतो ददर्शाहं देवानां परमं गुहा यत् ॥ ८.९ ॥
你被上阿耶摩器皿所取。神啊苏摩,为布利哈斯帕蒂而榨出,充满滴液的生命力,愿我与妻子们一同成就诸杯。我在上,我在下;虚空成为了我的父亲。我从两侧看见了太阳;我看见了隐秘处中诸神的至高之所。
8.10
अग्ना३इ पत्नीवन्त् सजूर् देवेन त्वष्ट्रा सोमं पिब स्वाहा ।
प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस् त वृष्णो रेतोधसो रेतोधाम् अशीय ॥ ८.१० ॥
啊阿耆尼,与你的妻子一同,与神特瓦什特利相会,饮用苏摩,斯瓦哈。你是生主,公牛,授精者;将精液放入我之中。愿我获得那公牛、生主、授精者的授精之位。
8.11
उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिभ्यां त्वा ।
हर्योर् धाना स्थ सहसोमा ऽ इन्द्राय ॥ ८.११ ॥
你被上阿耶摩器皿所取。你是黄褐马,套于黄褐马之上;我以两匹黄褐马与你相连。你们二者是黄褐马的谷粒,与苏摩同在,献给因陀罗。
8.12
यस् ते ऽ अश्वसनिर् भक्षो यो गोसनिस् तस्य त ऽ इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतस्योपहूतो भक्षयामि ॥ ८.१२ ॥
你那获得马匹的分享,与获得牛群的分享,即你的祭仪祷文、赞颂的苏摩、诵出的颂歌、被召请者的被召请之份:我享用此份。
8.13
देवकृतस्यैनसो ऽवयजनम् असि ।
मनुष्यकृतस्यैनसो ऽवयजनम् असि ।
पितृकृतस्यैनसो ऽवयजनम् असि ।
आत्मकृतस्यैनसो ऽवयजनम् असि ।
एनसऽ-एनसो ऽवयजनम् असि ।
यच् चाहम् एनो विद्वाꣳश् चकार यच् चाविद्वाꣳस् तस्य सर्वस्यैनसो ऽवयजनम् असि ॥ ८.१३ ॥
你是诸天神所造之罪的解除。你是世人所造之罪的解除。你是祖先所造之罪的解除。你是自己所造之罪的解除。你是一切罪的解除。无论我明知或不知所犯的一切罪,你都是其解除。
8.14
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।
त्वष्टा सुदत्रो वि दधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥ ८.१४ ॥
愿我们与光辉和滋养相合,与身体相合;与心意和吉祥相合。愿慷慨的特瓦湿陀(Tvaṣṭṛ)分配财富,并抹去身体中受损的部分,使其复原。
8.15
सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति सं देवाना सुमतौ यज्ञियाना स्वाहा ॥ ८.१५ ॥
因陀罗啊,以心意引导我们;使我们与牛群和智慧的护佑者相合;慷慨者啊,使我们与吉祥相合。使我们与神圣的咒语相合,与诸神所成就的一切相合;使我们在值得祭祀的诸神的恩惠中相合。斯瓦哈。
8.16
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।
त्वष्टा सुदत्रो विदधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥ ८.१६ ॥
愿我们与光辉和滋养相合,与身体相合;与心意和吉祥相合。愿慷慨的特瓦湿陀(Tvaṣṭṛ)安排财富,并抹去身体中受损的部分,使其复原。
8.17
धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपा देवो ऽ अग्निः ।
त्वष्टा विष्णुः प्रजया सꣳरराणा यजमानाय द्रविणं दधात स्वाहा ॥ ८.१७ ॥
愿授予者(Dhātṛ)、施予(rāti)与Savitṛ接受此祭。愿Prajāpati、宝藏守护神Agni、Tvaṣṭṛ与Viṣṇu与子嗣一同施予,将财富赐予祭主。Svāhā。
8.18
सुगा वो देवाः सदना ऽ अकर्म य ऽ आजग्मेदꣳ सवनं जुषाणाः ।
भरमाणा वहमाना हवीꣳष्य् अस्मे धत्त वसवो वसूनि स्वाहा ॥ ८.१८ ॥
诸神啊,我们为你们准备了易于到达的座位。你们接受此次压榨前来,承载并运送供品,诸婆苏啊,请将财宝置于我们之中。Svāhā。
8.19
याँ२ ऽ आवह ऽ उशतो देव देवाँस् तान् प्रेरय स्वे ऽ अग्ने सधस्थे ।
जक्षिवासः पपिवासश् च विश्वे ऽसुं घर्मꣳ स्वरातिष्ठतानु स्वाहा ॥ ८.१९ ॥
神Agni啊,请将你带来的渴望的诸神送回他们自己的住所。愿所有饮食饱足的诸神带着生气,在天上善意地立于热祭(gharma)之上。Svāhā。
8.20
वयꣳ हि त्वा प्रयति ऽ यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।
ऋधग् अया ऽ ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान्त् स्वाहा ॥ ८.२० ॥
Agni啊,在此勤奋的祭祀中,我们在此选你为祭司(hotṛ)。你以各自的方式、最迅捷地到达,作为知晓祭祀的智者,来到祭祀之处吧。Svāhā。
8.21
देवा गातुविदो गातुं वित्त्वा गातुम् इत ।
मनसस्पत ऽ इमं देव यज्ञꣳ स्वाहा वाते धाः ॥ ८.२१ ॥
知道道路的诸神啊,寻得道路后,循着道路而来。心灵之主啊,神啊,请以Svāhā将此祭祀安置于风中。
8.22
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा ॥ ८.२२ ॥
祭祀啊,去向祭祀;去向祭主;去向你自己的本源之处。斯瓦哈。祭主啊,这是你的祭祀,伴随着颂诗的吟诵与所有英雄;请欣然接受它。斯瓦哈。
8.23
माहिर् भूर् मा पृदाकुः ।
उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ ।
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ।
नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥ ८.२३ ॥
愿我不成为蛇,也不成为毒蛇。国王伐楼那为太阳开辟了宽阔的道路以供其行进。他赐予无足者以足以便返回;甚至赐予说谎者与刺心者。敬礼伐楼那;愿伐楼那之索套于[恶人]之上。
8.24
अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् ।
दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा ॥ ८.२४ ॥
阿耆尼之军进入水中,水之子守护以抵御阿修罗之力。在每户家中以薪柴祭祀吧,阿耆尼啊;愿酥油向你的舌头升起。斯瓦哈。
8.25
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा ॥ ८.२५ ॥
你的心在大海中,在水的深处。愿草木与水流将你纳入其中。祭祀之主啊,我们在颂诗的吟诵与致敬的言辞中奉事你,无论那是什么。斯瓦哈。
8.26
देवीर् आप ऽ एष वो गर्भस् तꣳ सुप्रीतꣳ सुभृतं बिभृत ।
देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व ॥ ८.२६ ॥
神圣的水啊,这是你们的胎;请欢喜而妥善地承载他。天神苏摩啊,这是你的世界;使安康在其中流动,并使其遍及四周。
8.27
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि ।
देवाना समिद् असि ॥ ८.२७ ॥
阿婆哩陀啊,你是尼崇浦那;你以尼崇浦那之姿降下。我已远离诸神所造之罪;我也已远离凡人所造之罪。多被赞颂的天神啊,请护我免于伤害。你是诸神的薪柴。
8.28
एजतु दशमास्यो गर्भो जरायुणा सह ।
यथायं वायुर् एजति यथा समुद्र ऽ एजति ।
एवायं दशमास्यो ऽ अस्रज् जरायुणा सह ॥ ८.२८ ॥
愿十月胎儿与胎衣一同动起来。如这风在动,如大海在动,愿这十月之胎也与胎衣一同出来。
8.29
यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी ।
अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमꣳ स्वाहा ॥ ८.२९ ॥
你那可供祭祀的胎儿所属的,那金色之胞宫所属的,肢体无损的,我已将他与母亲相合。斯瓦哈。
8.30
पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः ।
एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ता स्वाहा ॥ ८.३० ॥
极为奇妙、形态多样的苏摩滴,坚定地在内里庄严了他的伟大。愿一足、二足、三足、四足、八足的诗律,沿着诸世界展开。斯瓦哈。
8.31
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥ ८.३१ ॥
诸位风神啊,在谁的居所里你们从天之大光中护佑,那人便是最受守护的。
8.32
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥ ८.३२ ॥
愿广大的天与地滋润我们的此祭,以其养育之财充盈我们。
8.33
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥ ८.३३ ॥
诛杀弗栗多者啊,登上你的战车;你的两匹栗色马已由祷词驾好。愿你的心转向我们;愿压榨石以其声使之如此。你被优帕雅玛杯所取;为因陀罗,为十六数之祭,我们取你。此为你的座位;为因陀罗,为十六数之祭,我们取你。
8.34
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न ऽ इन्द्र सोमपा गिराम् उपश्रुतिं चर ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥ ८.३४ ॥
是的,套上那两匹长鬃、强健、充满肚带的栗色马。饮苏摩的因陀罗啊,请来到我们这里,倾听我们的颂歌。你被优帕雅玛杯所取;为因陀罗,为十六数之祭,我们取你。此为你的座位;为因陀罗,为十六数之祭,我们取你。
8.35
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥ ८.३५ ॥
两匹栗色马只载着力量无可抵挡的因陀罗,向着先知的赞颂与人类的祭祀而去。你被优帕雅玛杯所取;为因陀罗,为十六数之祭,我们取你。此为你的座位;为因陀罗,为十六数之祭,我们取你。
8.36
यस्मान् न जातः परो ऽ अन्यो ऽ अस्ति य ऽ आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीषि सचते स षोडशी ॥ ८.३६ ॥
在他之后没有别的生者;他进入了一切世界。生主与众生同乐,与三光相连;他即是第十六者(Ṣoḍaśī)。
8.37
इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं चक्रतुर् अग्र् ऽ एतम् ।
तयोर् अहम् अनु भक्षं भक्षयामि वाग् देवी जुषाणा सोमस्य तृप्यतु ।
सह प्राणेन स्वाहा ॥ ८.३७ ॥
君王因陀罗与国王伐如那先为你准备了这一份。在他们二者的份之后,我取食此份。愿因苏摩而欢喜的女神语(Vāc)得到满足。与气息同在,svāhā。
8.38
अग्ने पवस्व स्वपा ऽ अस्मे वर्चः सुवीर्यम् ।
दधद् रयिं मयि पोषम् ।
उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
ऽ एष ते योनिर् अग्नये त्वा वर्चसे ।
अग्ने वर्चस्विन् वर्चस्वाꣳस् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥ ८.३८ ॥
阿耆尼啊,净化自身,行善之人。赐予我们光辉与英勇之力,在我之中确立财富与滋养。你已被优帕亚玛杯取出;为光辉而将你献给阿耆尼。这是你的座位;为光辉而将你献给阿耆尼。光辉的阿耆尼啊,你在诸神中光辉;愿我在人中成为光辉者。
8.39
उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे ऽ अवेपयः ।
सोमम् इन्द्र चमू सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वौजसे ।
ऽ एष ते योनिर् इन्द्राय त्वौजसे ।
इन्द्रौजिष्ठौजिष्ठस् त्वं देवेष्व् अस्य् ओजिष्ठो ऽहं मनुष्येषु भूयासम् ॥ ८.३९ ॥
你振奋有力地起身,饮用之后,摇动了你的两颚。因陀罗啊,压榨于两器中的苏摩!你被上夜摩杯所取,为因陀罗、为力量、为你。此即你的位置,为因陀罗、为力量、为你。因陀罗啊,你是有力者中最有力的;在诸神之中你最有力;愿我在人类之中最有力。
8.40
अदृश्रम् अस्य केतवो वि रश्मयो जनाꣳ ऽ अनु ।
भ्राजन्तो अग्नयो यथा ।
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।
एष ते योनिः सूर्याय त्वा भ्राजाय ।
सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् ॥ ८.४० ॥
他的光芒已经显现,他的光线广泛地照耀着众人,如同闪耀的火焰。你被上夜摩杯所取,为太阳、为光辉、为你。此即你的位置,为太阳、为光辉、为你。太阳啊,最光明者,你在诸神之中最为光明;愿我在人类之中最为光明。
8.41
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।
एष ते योनिः सूर्याय त्वा भ्राजाय ॥ ८.४१ ॥
光线将那位全知之神太阳高高托起,使众人得以看见。你被上夜摩杯所取,为太阳、为光辉、为你。此即你的位置,为太阳、为光辉、为你。
8.42
आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः ।
पुनरूर्जा निवर्त्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः ॥ ८.४२ ॥
嗅闻此壶。愿苏摩之滴进入你内,伟大者。以力量重新回来;愿她为我们挤出千倍的乳,流量宽广、富含乳汁。愿财富再次进入我内。
8.43
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति ।
एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥ ८.४३ ॥
伊达、兰塔、哈维亚、卡米亚、旃陀罗、光明、阿底提、萨罗室伐蒂、摩诃、毗首鲁蒂——这些是你的名字,不可伤害者啊。请向诸神宣告我的善行。
8.44
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः ।
उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे ।
ऽ एष ते योनिर् इन्द्राय त्वा विमृधे ॥ ८.४४ ॥
因陀罗啊,从我们这里驱逐敌对者;打倒进攻者。把欲害我们的人送入下方的黑暗。你是以优婆耶摩杯所取的;为了因陀罗,为了摆脱敌人,我取你。这是你的座位;为了因陀罗,为了摆脱敌人,为了你。
8.45
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ।
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।
ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥ ८.४५ ॥
今日于战中,为求保护,我们呼唤言语之主、一切造作者毗首羯摩,其速如意。愿他接受我们所有的祈请;他是一切吉祥、善行者,为求助佑。你是以优婆耶摩杯所取的;为了因陀罗毗首羯摩,我取你。这是你的座位;为了因陀罗毗首羯摩,为了你。
8.46
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ।
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।
ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥ ८.४६ ॥
啊,一切之造者!以祭物与增长,你使因陀罗成为保护者、不可被杀。古老的部族向他俯首,使这位猛烈者值得被呼唤。你被盛入杯中;我为因陀罗和一切之造者取你。这是你的位置;为因陀罗和一切之造者,取你。
8.47
उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि ।
इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि ।
विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि ।
अनुष्टुप् ते ऽभिगरः ॥ ८.४७ ॥
你被盛入杯中;为阿耆尼取你,用伽耶特里格律。为因陀罗取你,用特里斯图巴格律。为一切天神取你,用耆伽提格律。阿努什图婆是你的伴唱。
8.48
व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥ ८.४८ ॥
我在伏雷柿茎的器中摇动你;在库库纳那的器中摇动你;在班丹那的器中摇动你;在最令人陶醉者的器中摇动你;在最甘甜者的器中摇动你。光明的你,光明的我,以白昼之形、以太阳之光线摇动你。
8.49
ककुभꣳ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा ॥ ८.४९ ॥
牛的形貌如峰般闪耀;广大、光明,光明之先行者是苏摩,苏摩之先行者。你那名为“降苏摩”、常醒的名号,为此我取你。啊苏摩,为那苏摩,svāhā。
8.50
उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि ।
वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि ।
अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि ॥ ८.५० ॥
啊天神苏摩,你是乐从者;请来到阿耆尼所爱的饮品。啊天神苏摩,你是自制者;请来到因陀罗所爱的饮品。啊天神苏摩,你是我们的朋友;请来到诸神所爱的饮品。
8.51
इह रतिर् इह रमध्वम् इह धृतिर् इह स्वधृतिः स्वाहा ।
उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।
रायस्पोषम् अस्मासु दीधरत् स्वाहा ॥ ८.५१ ॥
此处是喜悦,此处欢乐,此处是坚定,此处是自持,svāhā。送那支持者至母亲处,支持者吮吸着母亲;愿他在我们中维持财富的滋养,svāhā。
8.52
सत्रस्य ऽ ऋद्धिर् अस्य् अगन्म ज्योतिर् अमृता ऽ अभूम दिवं पृथिव्या ऽ अध्य् आरुहामाविदाम देवान्त् स्वर् ज्योतिः ॥ ८.५२ ॥
你是萨特拉的兴旺。我们抵达光明,成为不死者。我们从大地攀升至天界,寻得诸神;天界,光明。
8.53
युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् ।
दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् ।
अस्माकꣳ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ।
भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥ ८.५३ ॥
你们二位,因陀罗与山岳,在前作战者,把攻击我们、率军来犯者驱逐开;用金刚杵击打他,用金刚杵击打。让倒下者远远坠入深渊,直到它所能及之处。在四面八方驱散我们的敌人,啊英雄,在四面八方撕裂他们。Bhūḥ、bhuvaḥ、svaḥ;愿我们拥有良好的子嗣、子嗣,拥有良好的英雄、英雄,得到良好的滋养、滋养。
8.54
परमेष्ठ्य् अभिधीतः ।
प्रजापतिर् वाचि व्याहृतायाम् ।
अन्धो ऽ अच्छेतः ।
सविता सन्याम् ।
विश्वकर्मा दीक्षायाम् ।
पूषा सोमक्रयण्याम् ॥ ८.५४ ॥
称呼至上居者(Parameṣṭhin)。语言被说出时为生主(Prajāpati)。应接近安陀斯(苏摩汁)。在购买中为萨维德里(Savitṛ)。在入会礼中为毗湿伐卡尔曼(Viśvakarman)。在购买苏摩中为普善(Pūṣan)。
8.55
इन्द्रश् च मरुतश् च क्रयायोपोत्थितः ।
ऽ असुरः पण्यमानः ।
मित्रः क्रीतः ।
विष्णुः शिपिविष्ट ऽ ऊराव् आसन्नः ।
विष्णुर् नरन्धिषः प्रोह्यमाणः ॥ ८.५५ ॥
因陀罗与摩禄多为购买而起立。阿修罗是被议价者。密多罗是被买下者。毗湿奴·尸毗毗湿陀在大腿旁近处。毗湿奴·那兰提沙是被带往前去者。
8.56
सोम ऽ आगतः ।
वरुण ऽ आसन्द्याम् आसन्नः ।
ऽ अग्निर् आग्नीध्रे ।
ऽ इन्द्रो हविर्धाने ।
ऽ अथर्वोपावह्रियमाणः ॥ ८.५६ ॥
苏摩已至。伐楼那坐于阿参提上。阿耆尼在阿格尼陀罗中。因陀罗在哈维尔达那中。阿闼婆被引来作为供物。
8.57
विश्वे देवा ऽ अꣳशुषु न्युप्तः ।
विष्णुर् आप्रीतपा ऽ आप्याय्यमानः ।
यमः सूयमानः ।
विष्णुः संभ्रियमाणः ।
वायुः पूयमानः ।
शुक्रः पूतः ।
शुक्रं क्षीरश्रीः ।
मन्थी सक्तुश्रीः ॥ ८.५७ ॥
诸维首陀天置于苏摩茎中。毗湿奴饮足而得滋养。阎摩被压榨。毗湿奴被聚集。风神被净化。净者(苏摩)洁净。明亮者(苏摩)与乳相混。曼提与炒麦粉相混。
8.58
विश्वे देवाश् चमसेषून्नीतः ।
ऽ असुर् होमायोद्यतः ।
रुद्रो हूयमानः ।
वातो ऽभ्यावृत्तः ।
नृचक्षाः प्रतिख्यातः ।
भक्षो भक्ष्यमाणः ।
पितरो नाराशꣳसाः सन्नः ॥ ८.५८ ॥
诸维首陀天已在杯中捧上。阿修罗被举起以供献。楼陀罗被召请。风神转向我们。人眼者被宣告。分享(薄叉)正被食用。祖先与那罗舍桑萨坐定。
8.59
सिन्धुर् अवभृथायोद्यतः ।
समुद्रो ऽभ्यवह्रियमाणः ।
सलिलः प्रप्लुतः ।
ययोर् ओजसा स्कभिता रजाꣳसि वीर्येभिर् वीरतमा शविष्ठा ।
या पत्येते ऽ अप्रतीता सहोभिर् विष्णू ऽ अगन् वरुणा पूर्वहूतौ ॥ ८.५९ ॥
河流被举起用于阿婆里陀沐浴。大海被带来。它浸没于水中。愿毗湿奴与伐楼那应第一次召唤而来——二者以其威力支撑诸世界,以勇力最为英武、最为强大,无可抗拒地以力量统治。
8.60
देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु मनुष्यान् अन्तरिक्षम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु पितॄन् पृथिवीम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु यं कं च लोकम् अगन् यज्ञस् ततो मे भद्रं अभूत् ॥ ८.६० ॥
愿祭祀抵达诸神与天界;愿财富从彼处来到我这里。愿祭祀抵达人类与虚空;愿财富从彼处来到我这里。愿祭祀抵达祖先与大地;愿财富从彼处来到我这里。无论祭祀抵达何界;愿福祉从彼处来到我这里。
8.61
चतुस्त्रिꣳशत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञꣳ स्वधया ददन्ते ।
तेषां छिन्नꣳ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान् ॥ ८.६१ ॥
我将那些被拉伸的三十四根线中断裂之处重新接上,为那些以自我供奉(svadhā)献祭此祭的人。娑哈。愿热乳(Gharma)也抵达诸神。
8.62
यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान ।
स यज्ञ धुक्ष्व महि मे प्रजयाꣳ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा ॥ ८.६२ ॥
祭祀的挤奶遍布多处,以八种方式伸展至天空。啊,祭祀,为我丰沛地挤奶吧,愿我获得子嗣与财富的滋养,享尽百岁之寿。斯瓦哈。
8.63
आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् ।
वाजं गोमन्तम् आ भर स्वाहा ॥ ८.६३ ॥
啊,苏摩,携带黄金、良马与英勇的子嗣而流淌到此。为我们带来富有牛群的食物。斯瓦哈。