夜柔吠陀 · 章(Adhyāya) 29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
29.1
समिद्धो ऽ अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥ २९.१ ॥
燃起的火以祷词之力涂抹酥油。啊阿耆尼,充满甘美的酥油,强健,承载强者,啊遍知者,将他送到诸神可爱的共同座位。
29.2
घृतेनाञ्जन्त् सं पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्ताꣳ स्वधाम् अस्मै यजमानाय धेहि ॥ २९.२ ॥
以酥油涂抹,熟知诸神所行的道路,愿强者也前往诸神。啊马,愿四方跟随你;将你自身的滋养赐给这位祭祀者。
29.3
ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते ।
अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥ २९.३ ॥
你值得赞美与礼敬;啊强者,你迅捷而适于祭祀。啊马,愿与诸神和婆苏同心的阿耆尼欣然承载你这位携带供品者,啊遍知者。
29.4
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वान सुविते दधातु ॥ २९.४ ॥
铺展于大地之上,铺陈妥善,宽广而广大,最先铺设的这圣草与诸神相连。愿欣然并赐予安乐的阿底提将其安置于福祉之中。
29.5
एता ऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा ऽ उदातैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥ २९.५ ॥
这些对你们吉祥,形态多样,展开双翼,依托于升起的系带。愿这些高耸、装饰、闪耀的神圣之门易于通行。
29.6
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।
उषासा वाꣳ सुहिरण्ये सुशिल्पे ऽ ऋतस्य योनाव् इह सादयामि ॥ २९.६ ॥
你们二位黎明行于弥陀罗与伐楼那之间,同心面向诸祭祀之面,佩戴金饰、工艺精巧,我在此将你们安放于真理(ṛta)的胎藏之中。
29.7
प्रथमा वाꣳ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥ २९.७ ॥
你们二位先行,同乘一车,金色的神明,观照一切世界;以令人满足的激励相催,你们作为呼唤者(hotṛ)指示光明之道。
29.8
आदित्यैर् नो भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर् न ऽ आवीत् ।
इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥ २९.८ ॥
愿婆罗提与诸阿提提亚同愿此祭;愿萨罗室伐底与楼陀罗们一同护佑我们。伊达与诸婆苏同被召请,同享欢喜,诸女神啊,请将我们的祭祀安置于不死者之中。
29.9
त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत ऽ आशुर् अश्वः ।
त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥ २९.९ ॥
特瓦什陀生出渴望诸神的英雄;特瓦什陀的马诞生了,是迅捷的骏马。特瓦什陀创造了这整个世界。啊,呼唤者,请在此祭拜那众多之创造者。
29.10
अश्वो घृतेन त्मन्या समक्त ऽ उप देवाꣳ२ऽ ऋतुशः पाथ ऽ एतु ।
वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥ २९.१० ॥
愿以酥油涂身的马依时节走向诸神之路;愿知晓天界的植物神(Vanaspati)借阿耆尼运送甘美的供物。
29.11
प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥ २९.११ ॥
啊阿耆尼,你因生主之苦行而增长,瞬间诞生并承载祭祀。以斯婆诃所献的供品引路前行;愿萨提亚诸神享用祭品。
29.12
यद् अक्रन्दः प्रथमं जायमान ऽ उद्यन्त् समुद्राद् उत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू ऽ उपस्तुत्यं महि जातं ते ऽ अर्वन् ॥ २९.१२ ॥
当你初生时嘶鸣,从海洋或洪流中升起,你伟大的诞生,有着鹰的翅膀和羚羊的手臂,啊骏马,值得赞颂。
29.13
यमेन दत्तं त्रित ऽ एनम् आयुनग् इन्द्र ऽ एणं प्रथमो ऽ अध्य् अतिष्ठत् ।
गन्धर्वो ऽ अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥ २९.१३ ॥
阎摩所赐,特利多套上了它;因陀罗最先骑上了这疾驰之物。乾达婆握住了它的缰绳;诸婆苏从太阳中引出了这匹马。
29.14
असि यमो ऽ अस्य् आदित्यो ऽ अर्वन्न् असि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्त ऽ आहुस् ते त्रीणि दिवि बन्धनानि ॥ २९.१४ ॥
你是阎摩,你是阿底提耶,啊骏马;凭借秘密的誓愿,你是特利多。虽与苏摩相连,却称为已解脱;你的三道束缚在天界。
29.15
त्रीणि त ऽ आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे ।
उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त ऽ आहुः परमं जनित्रम् ॥ २९.१५ ॥
人们说你在天上有三道束缚,在水中有三道,在海洋深处有三道。马啊,伐楼那仿佛会告诉我,你最高的诞生之处在何处。
29.16
इमा ते वाजिन्न् अवमार्जनानीमा शफानाꣳ सनितुर् निधाना ।
अत्रा ते भद्रा रशना ऽ अपश्यम् ऋतस्य या ऽ अभिरक्षन्ति गोपाः ॥ २९.१६ ॥
迅捷的马啊,这些是你的擦拭布,这些是给予马蹄者的宝库。在这里我看见了你吉祥的缰绳,宇宙秩序的守护者守护着它。
29.17
आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तं पतंगम् ।
शिरो ऽ अपश्यं पथिभिः सुगेभिर् अरेणुभिर् जेहमानं पतत्रि ॥ २९.१७ ॥
我从远方以心智认识了你的自我,如同从天空飞下的鸟。我看见你长着羽翼的头颅,在平坦无尘的道路上疾驰。
29.18
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष ऽ आ पदे गोः ।
यदा ते मर्तो ऽ अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ऽ ओषधीर् अजीगः ॥ २९.१८ ॥
在这里我看见了你最高的形相,你渴望在牛的位置上获得食物。当凡人获得你的享用时,你作为最贪食者吞食草药。
29.19
अनु त्वा रथो ऽ अनु मर्यो ऽ अर्वन्न् अनु गावो ऽनु भगः कनीनाम् ।
अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥ २९.१९ ॥
战车跟随你而行,马啊,凡人也跟随你;牛群跟随你,少女们的巴伽也跟随你。军队跟随你的友谊而去;众神因你的勇力而欢喜。
29.20
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा ऽ अवर इन्द्र ऽ आसीत् ।
देवा ऽ इद् अस्य हविरद्यम् आयन् यो ऽ अर्वन्तं प्रथमो ऽ अध्यतिष्ठत् ॥ २९.२० ॥
金角铁蹄,疾如意念;下方是因陀罗。诸神前来领受它可食的祭品;最先骑上马的人获得了它。
29.21
ईर्मान्तासः सिलिकमध्यमासः सꣳ शूरणासो दिव्यासो ऽ अत्याः ।
हꣳसा ऽ इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥ २९.२१ ॥
奋勇向前,中段闪耀,共同英勇,神圣而迅疾;当它们奔驰于天上的道路时,便如鹅群成行地努力前行。
29.22
तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् ।
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ २९.२२ ॥
马啊,你的身体善于飞驰,你的心意快如风。你的角各自挺立;它们在森林中的许多地方游荡。
29.23
उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥ २९.२३ ॥
强健的马来到赞颂诵唱之处,心念专注于诸神。未生之山羊被牵在前,即其脐;后面跟随着智者与歌者。
29.24
उप प्रागात् परमं यत् सधस्थम् अर्वाꣳ२ऽ अच्छा पितरं मातरं च ।
अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि ॥ २९.२४ ॥
马来到那至高的共同居所,朝向父与母。今日你最受诸神喜爱,堪为抵达诸神;随后它将可欲之物赐予慷慨的祭主。
29.25
समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥ २९.२५ ॥
今日在人的家中燃起,神啊,你祭祀诸神。你如同弥陀罗般伟大而有智慧,是使者,是智慧的先知;请把众神带到这里。(遍知者,阿耆尼)
29.26
तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥ २९.२६ ॥
身生之子,以蜜涂抹天理的道路与轨迹,你舌头甘美,以思想与智慧使祭祀兴盛,请在诸神之间为我们成就此祭。(身生者,阿耆尼)
29.27
नराशꣳसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा ऽ उभयानि हव्या ॥ २९.२७ ॥
我们以祭祀赞颂那纳拉驮沙与其中可敬者的伟大。善念、纯洁、怀有智慧的诸神,享用两类供品。(那罗赞沙)
29.28
आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान् ॥ २९.२८ ॥
受召请、值得赞颂与礼敬的阿耆尼啊,请与婆苏们欢聚而来。你是诸神的大祭司;受到激发,最值得祭祀的你,请祭祀这些神。(阿耆尼)
29.29
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् ।
व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम् ॥ २९.२९ ॥
面向东方的神圣草在大地的这一方向、黎明时、在白昼之始被割下。它广阔地铺展开来,极为宽广,使诸神与阿底提感到安适。(神草)
29.30
व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ २९.३० ॥
宽广延展的门啊,请为丈夫们而盛装的妻子那样广阔地敞开。神圣、广大、推动一切的门啊,为诸神成为顺畅的通道吧。
29.31
आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियꣳ शुक्रपिशं दधाने ॥ २९.३१ ॥
愿值得崇拜的黎明与夜晚靠近,各自就座于其位:那神圣伟大的女神们,佩戴精美的金饰,承载明亮的光辉。
29.32
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ २९.३२ ॥
两位神圣、最初、善言的祭司,衡量人类的祭祀以供奉之,在集会中加以推动,作为巧妙的诗人,借方位展示古老的光明。
29.33
आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् एदꣳ स्योनꣳ सरस्वती स्वपसः सदन्तु ॥ २९.३३ ॥
愿婆罗提迅速来到我们的祭祀,愿像摩奴一样在此谨慎关注的伊达也来。愿三位女神与萨罗室伐蒂一同坐在这舒适的圣草上,各擅其功。
29.34
य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिꣳशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥ २९.३४ ॥
诸祭司啊,今日受到激励,知晓神圣、最值得崇拜的特瓦什特里,他以形象装饰了这生育者天与地及一切世界,请在此供奉他。
29.35
उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीꣳषि ।
वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥ २९.३५ ॥
自主地涂油于诸神之路,依时节献上祭品。愿林木之主、祭司、神圣的火神以蜜与酥油享用供物。
29.36
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतꣳ हविर् अदन्तु देवाः ॥ २९.३६ ॥
刚一诞生,火神便度量了祭祀,成为诸神之首。依此祭司的指示,在真理之言中,愿诸神享用以斯瓦哈献上的供品。
29.37
केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे ।
सम् उषद्भिर् अजायथाः ॥ २९.३७ ॥
啊,凡人,为无知者造出光明的标记,为无形者造出形体,你与晨曦一同诞生。
29.38
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु ॥ २९.३८ ॥
披甲者进入战斗集会之中时,他便呈现雷云般的形象。愿你以无伤之身获胜;愿铠甲的威力护佑你。
29.39
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ २९.३९ ॥
凭借弓,我们赢得牛群与战场;凭借弓,我们赢得激烈的战斗集会。弓使敌人的愿望落空;凭借弓,我们赢得所有方位。
29.40
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियꣳ सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयꣳ समने पारयन्ती ॥ २९.४० ॥
仿佛要开口说话,她低声哼唱着走向亲爱朋友的耳边,拥抱着他。如同女子,弓上张开的这根弦发出鸣响,在战场上引导胜利。
29.41
ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।
अप शत्रून् विध्यताꣳ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान् ॥ २९.४१ ॥
愿它们在战场上如女子般行动,如母亲将儿子抱在膝上般承载。愿这两根弦齐心振动,从远方射穿敌人。
29.42
बह्वीनां पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ २९.४२ ॥
他是众多之父,其子也众多;在战场上靠近,准备箭矢。箭袋、箭(sanka)以及所有军队——背在背上,被发出,便能取胜。
29.43
रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥ २९.४३ ॥
站在车上,良好的御者将马匹向前引导,所向之处皆随其意。赞颂缰绳的伟大;缰绳跟随心念之后,将其约束。
29.44
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूꣳ१ऽ रनपव्ययन्तः ॥ २९.४४ ॥
马蹄如牛掌的骏马与战车并驰,发出猛烈的嘶鸣。以前蹄向前冲击,在战场上击退敌人,将敌人消灭。
29.45
रथवाहनꣳ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मꣳ सदेम विश्वाहा वयꣳ सुमनस्यमानाः ॥ २९.४५ ॥
这拉车的祭品便是其名;其武器与铠甲放置之处,愿我们每日心怀善意,坐在吉祥的车旁。
29.46
स्वादुषꣳसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना ऽ इषुबला ऽ अमृध्राः सतोवीरा ऽ उरवो व्रातसाहाः ॥ २९.४६ ॥
坐于甘美之处的祖先们,赐予生命力的,在艰难中得以依靠的,有力而深沉的,军队多样的,以箭为力的,不衰的,拥有英雄之子的,宽广的,战胜群众的诸祖先。
29.47
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी ऽ अनेहसा ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥ २९.४७ ॥
如婆罗门般、与苏摩相连的诸祖先,愿无过失的天与地对我们吉祥。愿增益天则的普善护我们脱离恶业;愿恶语者不得统治我们。
29.48
सुपर्णं वस्ते मृगो ऽ अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यꣳसन् ॥ २९.४८ ॥
羽箭以鹿牙般的装饰自饰;以绳索束紧而射出,便飞驰而去。人们或聚或散奔走之处,愿这些箭为我们赐予庇护。
29.49
ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः ।
सोमो ऽ अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥ २९.४९ ॥
哦,直行者,请环绕护佑我们;愿石头成为我们身体的甲胄。愿苏摩为我们进言,愿阿底提赐予庇护。
29.50
आ जङ्घन्ति सान्व् एषां जघनाꣳ२ऽ उप जिघ्नते ।
अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥ २९.५० ॥
他们击打这些的背部,击打大腿。生于马者,有智慧者,在战斗中驱策马匹。
29.51
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः ॥ २९.५१ ॥
如蛇以其环身缠绕,挡开弓弦射出的器械,他环绕手臂。那以手击敌、通晓一切智慧的男子,愿从四面守护男子。
29.52
वनस्पते वीड्वङ्गो हि भूया ऽ अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः संनद्धो ऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥ २९.५२ ॥
林中之主啊,愿你肢体坚强;愿你成为我们的朋友,引渡者,拥有善战勇士。你以牛光披甲;坚定吧。愿你那屹立的战士赢得胜利。
29.53
दिवः पृथिव्याः पर्य् ओज ऽ उद्भृतं वनस्पतिभ्यः पर्य् आभृतꣳ सहः ।
अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रꣳ हविषा रथं यज ॥ २९.५३ ॥
自天与地所升起的力量,自树木所取来的威能;水之精力,被光芒环绕的因陀罗之金刚杵。以供物祭祀车辆。
29.54
इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ २९.५४ ॥
因陀罗之金刚杵,摩录多之军,弥陀罗之胎,伐楼那之脐。神啊,车啊,欢喜地接受我们这份供物之施;接纳供物吧。
29.55
उप श्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो ऽ अप सेध शत्रून् ॥ २९.५५ ॥
鼓啊,让大地与天空回响;愿列阵的军队听见你。战鼓啊,与因陀罗及诸神一同,从远方驱散敌人。
29.56
आ क्रन्दय बलम् ओजो न ऽ आ धा नि ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना ऽ इत ऽ इन्द्रस्य मुष्टिर् असि वीडयस्व ॥ २९.५६ ॥
唤起力量与威势,发出咆哮;如雷鸣般轰响,驱逐灾难。鼓啊,把厄运从此处推开。你是因陀罗的拳头,使自己坚定。
29.57
आमूर् अज प्रत्या वर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।
सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥ २९.५७ ॥
驱使他们前进,再让他们回转;战鼓连同旗帜高声鸣响。马叶之旗并肩而行;愿我们的勇士与车战者为我们获胜,因陀罗啊。
29.58
आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऽ ऐन्द्रो ऽरुणो मारुतः कल्माष ऽ ऐन्द्राग्नः सꣳहितो ऽधोरामः सावित्रो वारुणः कृष्ण ऽ एकशितिपात् पेत्वः ॥ २९.५८ ॥
属阿耆尼,黑颈;属萨罗室伐蒂的母羊;褐色,属苏摩;属普善,暗色;白背;属布利哈斯帕蒂;斑点;属诸神;属因陀罗;赤红;属摩录多;斑驳;属因陀罗与阿耆尼;合并;下垂肋侧;属萨维特里;属伐楼那;黑色;一白足;疾飞者。
29.59
अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् अधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशंगौ तूपरु मारुतः कल्माष ऽ आग्नेयः कृष्णो ऽजः सारस्वती मेषी वारुणः पेत्वः ॥ २९.५९ ॥
献给阿耆尼·阿尼卡瓦特:红色标记的公牛;两头杆朝下者;属萨维特里;属普山;银脐者;属维śvā提婆;棕黄色者;图帕如;属摩禄多;斑点者;属阿耆尼;黑山羊;献给萨拉斯瓦蒂:母羊;属伐楼那;佩特瓦。
29.60
अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपाल ऽ इन्द्राय त्रैष्टुभाय पञ्चदशाय बर्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविꣳशाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र ऽ औष्णिहाय त्रयस्त्रिꣳशाय रैवताय द्वादशकपालः प्राजापत्यश् चरुर् अदित्यै विष्णुपत्न्यै चरुर् अग्नये वैश्वानराय द्वादशकपालो ऽनुमत्या ऽ अष्टाकपालः ॥ २९.६० ॥
献给阿耆尼,配伽耶特里、三重、罗塔坦塔拉:八陶片饼。献给因陀罗,配特里什图普、十五重、布利哈特:十一陶片饼。献给诸神,配阇keep提、十七重、维卢帕:十二陶片饼。献给密多罗与伐楼那,配阿奴什图普、二十一重、维罗遮:乳供。献给布利哈斯帕提,配般克提、三乘九重、紫羯罗:煮饭供。献给萨维特里,配乌什尼赫、三十三重、雷瓦塔:十二陶片饼。献给生主:煮饭供。献给阿底提与毗湿奴之妻:煮饭供。献给毗舍婆罗阿耆尼:十二陶片饼。献给阿奴玛蒂:八陶片饼。