Yajurveda · Adhyāya 18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.1
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१ ॥
For me, strength and impulse; for me, effort and skill; for me, insight and resolve; for me, tone and praise; for me, renown and learning; for me, light and heaven. May all these be fulfilled through the sacrifice.
18.2
प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम् ॥ १८.२ ॥
For me, prāṇa and apāna; for me, vyāna and asu; for me, mind and what has been learned; for me, speech and thought; for me, eye and ear; for me, skill and strength. May all these be fulfilled through the sacrifice.
18.3
ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूꣳषि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम् ॥ १८.३ ॥
For me, vigour and endurance; for me, self and body; for me, shelter and armour; for me, limbs and bones; for me, joints and frame; for me, life and old age. May all these be fulfilled through the sacrifice.
18.4
ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम् ॥ १८.४ ॥
May supremacy and lordship be mine; may zeal and splendor be mine; may strength and vigor be mine; may greatness, breadth, width, height and length be mine; may growth and increase be mine; by the sacrifice let these be fitted for me.
18.5
सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥ १८.५ ॥
May truth and faith be mine; may the moving world and wealth be mine; may the all and greatness be mine; may play and joy be mine; may what has been born and what is to be born be mine; may the well-spoken hymn and the well-done deed be mine; by the sacrifice let these be fitted for me.
18.6
ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥ १८.६ ॥
May cosmic order and immortality be mine; may freedom from disease and from sickness be mine; may the life-giving remedy and long life be mine; may freedom from enemies and fearlessness be mine; may happiness and rest be mine; may the good dawn and the good day be mine; by the sacrifice let these be fitted for me.
18.7
यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम् ॥ १८.७ ॥
For me, the controller and the bearer; for me, security and steadfastness; for me, all and greatness; for me, understanding and acquired wealth; for me, impulse and forward impulse; for me, the plough and rest — may these be fulfilled by the sacrifice.
18.8
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम् ॥ १८.८ ॥
For me, well-being and joy; for me, the dear and the fulfilment of desire; for me, desire and good mind; for me, fortune and wealth; for me, good fortune and excellence; for me, greater abundance and fame — may these be fulfilled by the sacrifice.
18.9
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥ १८.९ ॥
For me, nourishment and pleasant speech; for me, milk and sap; for me, clarified butter and honey; for me, sharing and drinking together; for me, tillage and rain; for me, victory and what sprouts from the earth — may these be fulfilled by the sacrifice.
18.10
रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम् ॥ १८.१० ॥
Wealth and riches for me; nourishment and growth for me; abundance and power for me; fullness and greater fullness for me; wild barley and imperishable food for me; the state of being unhungry for me. Let these be accomplished through the sacrifice.
18.11
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम् ॥ १८.११ ॥
Property and knowledge for me; what is to be known, what has been and what will be, for me; an easy path and a good road for me; prosperity and success for me; what is ordained and its ordering for me; thought and good thought for me. Let these be accomplished through the sacrifice.
18.12
व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१२ ॥
Rice and barley for me; black gram and sesame for me; green gram and chickpeas for me; foxtail millet and small millet for me; millet and wild rice for me; wheat and lentils for me. Let these be accomplished through the sacrifice.
18.13
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥ १८.१३ ॥
For me, stone and earth; for me, mountains and hills; for me, sands and trees; for me, gold and iron; for me, dark metal and copper; for me, lead and tin. May all these be made to serve through the sacrifice.
18.14
अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१४ ॥
For me, fire and water; for me, creepers and herbs; for me, crops ripened by ploughing and crops ripened without ploughing; for me, village animals and forest animals; for me, wealth and its gaining; for me, prosperity and welfare. May all these be made to serve through the sacrifice.
18.15
वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१५ ॥
For me, wealth and dwelling; for me, action and power; for me, aim and course; for me, approach and such progress. May all these be made to serve through the sacrifice.
18.16
अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१६ ॥
Let Agni be mine, Indra be mine, Soma be mine, Indra be mine, Savitṛ be mine, Indra be mine, Sarasvatī be mine, Indra be mine, Pūṣan be mine, Indra be mine, Bṛhaspati be mine, Indra be mine; through the sacrifice may they be made fit for me.
18.17
मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१७ ॥
Let Mitra be mine, Indra be mine, Varuṇa be mine, Indra be mine, Dhātṛ be mine, Indra be mine, Tvaṣṭṛ be mine, Indra be mine, the Maruts be mine, Indra be mine, and the Viśvedevas be mine, Indra be mine; through the sacrifice may they be made fit for me.
18.18
पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥ १८.१८ ॥
Let the earth be mine, Indra be mine, the atmosphere be mine, Indra be mine, heaven be mine, Indra be mine, the years be mine, Indra be mine, the constellations be mine, Indra be mine, the quarters be mine, Indra be mine; through the sacrifice may they be made fit for me.
18.19
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥ १८.१९ ॥
My aṃśu and raśmi, my adābhya and adhipati, my upāṃśu and antaryāma, my aindravāyava and maitrāvaruṇa, my āśvina and pratiprasthāna, my śukra and manthī — let them be made fit by the sacrifice.
18.20
आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम् ॥ १८.२० ॥
My āgrayaṇa and vaiśvadeva, my dhruva and vaiśvānara, my aindrāgna and mahāvaiśvadeva, my marutvatīya and niṣkevalya, my sāvitra and sārasvata, my patnīvata and hāriyojana — let them be made fit by the sacrifice.
18.21
स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम् ॥ १८.२१ ॥
My sruc and camasa, my vāyavya vessels and droṇakalaśa, my grāvāṇa and adhiṣavaṇa boards, my pūtabhṛt and āhavanīya, my vedi and barhis, my avabhṛtha and svargākāra — let them be made fit by the sacrifice.
18.22
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम् ॥ १८.२२ ॥
For me may Agni and Gharma, Arka and Sūrya, Prāṇa and the Aśvamedha, earth and Aditi, Diti and Dyauḥ, the fingers, the śakvarī verses and the directions be made ready by the sacrifice.
18.23
व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥ १८.२३ ॥
For me may the vow and the seasons, austerity and the year, day and night, the two thighs, and the Bṛhat and Rathantara chants be made ready by the sacrifice.
18.24
एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविꣳशतिश् च म ऽ एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च मे नवविꣳशतिश् च म ऽ एकत्रिꣳशच् च म ऽ एकत्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥ १८.२४ ॥
For me, one and three; for me, three and five; for me, five and seven; for me, seven and nine; for me, nine and eleven; for me, eleven and thirteen; for me, thirteen and fifteen; for me, fifteen and seventeen; for me, seventeen and nineteen; for me, nineteen and twenty-one; for me, twenty-one and twenty-three; for me, twenty-three and twenty-five; for me, twenty-five and twenty-seven; for me, twenty-seven and twenty-nine; for me, twenty-nine and thirty-one; for me, thirty-one and thirty-three. Let these be made fit by the sacrifice.
18.25
चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विꣳशतिश् च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥ १८.२५ ॥
For me four, and for me eight; for me eight, and for me twelve; for me twelve, and for me sixteen; for me sixteen, and for me twenty; for me twenty, and for me twenty-four; for me twenty-four, and for me twenty-eight; for me twenty-eight, and for me thirty-two; for me thirty-two, and for me thirty-six; for me thirty-six, and for me forty; for me forty, and for me forty-four; for me forty-four, and for me forty-eight. Let these be made fit by the sacrifice.
18.26
त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम् ॥ १८.२६ ॥
For me a three-year-old ram and for me a three-year-old ewe; for me a two-year-old ox and for me a two-year-old cow; for me a five-year-old ram and for me a five-year-old ewe; for me a three-year-old male calf and for me a three-year-old female calf; for me a four-year-old ox and for me a four-year-old cow. Let these be made fit by the sacrifice.
18.27
पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाꣳश् च मे धेनुश् च मे यज्ञेन कल्पन्ताम् ॥ १८.२७ ॥
For me may there be the six-year-old bull and the six-year-old cow, for me the bull and the barren cow, for me the ṛṣabha and the heifer, for me the draught ox and the milch cow; may these be made fit by the sacrifice.
18.28
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनꣳशिनाय स्वाहा विनꣳशिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय ॥ १८.२८ ॥
Hail to strength; hail to impulsion; hail to the one born together; hail to resolve; hail to the Vasu; hail to the lord of the day; hail to the day; hail to the bewildered one; hail to the bewildered one, descendant of Vaiṃśina; hail to the destroyer; hail to the one of the end; hail to the last; hail to the one of the world; hail to the lord of the world; hail to the overlord; hail to Prajāpati. This is your sovereignty; you are the controller of Mitra, the restrainer of Yama; I establish you for food and strength, for rain, for the people, for overlordship.
18.29
आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताꣳ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा ॥ १८.२९ ॥
Let life be fulfilled through the sacrifice; let breath be fulfilled through the sacrifice; let sight be fulfilled through the sacrifice; let hearing be fulfilled through the sacrifice; let speech be fulfilled through the sacrifice; let mind be fulfilled through the sacrifice; let the self be fulfilled through the sacrifice; let the brahmā be fulfilled through the sacrifice; let light be fulfilled through the sacrifice; let heaven be fulfilled through the sacrifice; let the back be fulfilled through the sacrifice; let the sacrifice be fulfilled through the sacrifice. Let the stoma, the yajus, the ṛc, the sāman, the bṛhat and the rathantara be fulfilled. We gods have gone to heaven, we have become immortal; we have become the offspring of Prajāpati. Veṭ, svāhā.
18.30
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥ १८.३० ॥
In the generating of the strength of the sacrificial food, we invoke by word the great mother Aditi, into whom this whole world has entered. In her may the god Savitṛ impel the law for us.
18.31
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥ १८.३१ ॥
Today may all the Maruts be with their protection; may all the fires be kindled. May all the gods come to us with their favour; may there be all wealth and nourishment for us.
18.32
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः ।
वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥ १८.३२ ॥
May Vāja protect us in the seven directions, in the four directions, or from afar. May Vāja, with all the gods, protect us here in the gaining of wealth.
18.33
वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाꣳऽ ऋतुभिः कल्पयाति ।
वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम् ॥ १८.३३ ॥
May Vāja today bestow gifts upon us; may Vāja prepare the gods in their seasons. Vāja himself has begotten me with all heroic sons; may I, as lord of strength, conquer all the quarters.
18.34
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति ।
वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम् ॥ १८.३४ ॥
May Vāja protect us from before and from the middle; may Vāja nourish the gods with oblation. Vāja himself has made me possessed of all heroic sons; may I, as lord of strength, become lord of all the quarters.
18.35
सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः ।
सो ऽहं वाजꣳ सनेयम् अग्ने ॥ १८.३५ ॥
I join myself with the milk (essence) of the earth; I join myself with waters and herbs. O Agni, may I obtain that strength (vāja).
18.36
पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ १८.३६ ॥
You have placed nourishment on the earth, nourishment in the herbs, nourishment in the sky and the atmosphere. May the quarters be rich in nourishment for me.
18.37
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि ॥ १८.३७ ॥
At the impulsion of the god Savitṛ, with the arms of the Aśvins, with the hands of Pūṣan, with the control of Sarasvatī, the controller of speech, with the sovereignty of Agni, I anoint you.
18.38
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयोप्सरसो मुदो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ १८.३८ ॥
Agni, the Gandharva who conquers order and has order as his abode, whose Apsarases are the herbs, named Joys: may he protect this our sacred power and ruling power. To him, svāhā, vāṭ. To them, svāhā.
18.39
सꣳहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ १८.३९ ॥
Saṃhita, the Sun, who has all the chants, is the Gandharva; his Apsarases are the rays, named Āyuva: may he protect this our sacred power and ruling power. To him, svāhā, vāṭ. To them, svāhā.
18.40
सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ १८.४० ॥
Suṣumṇa, the sun's ray, the Moon, is the Gandharva; his Apsarases are the stars, named Bhekurayas: may he protect this our sacred power and ruling power. To him, svāhā, vāṭ. To them, svāhā.
18.41
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम ।
स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ १८.४१ ॥
Iṣira is the Gandharva, Viśvavyacā the wind is his, the waters are his apsarases named Ūrjā. May he protect this brahman and kṣatra of ours. Hail to him, vaṣaṭ; hail to them.
18.42
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ १८.४२ ॥
Bhujyu, Suparṇa, the sacrifice is the Gandharva; the sacrificial fee is his apsaras named Stāvā. May he protect this brahman and kṣatra of ours. Hail to him, vaṣaṭ; hail to them.
18.43
प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ १८.४३ ॥
Prajāpati Viśvakarman, mind is the Gandharva; the Ṛc and Sāman verses are his apsarases named Eṣṭayaḥ. May he protect this brahman and kṣatra of ours. Hail to him, vaṣaṭ; hail to them.
18.44
स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह ।
अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥ १८.४४ ॥
O lord of the world, O Prajāpati, you whose abodes are above you and who is here: grant great shelter to this brahman and to this kṣatra. Hail.
18.45
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥ १८.४५ ॥
You are the ocean, wind-bearing, giver of moisture; bringer of welfare and happiness, blow toward me. Svāhā. You are the host of the Maruts; bringer of welfare and happiness, blow toward me. Svāhā. You are the seeker of help, reverent and giving; bringer of welfare and happiness, blow toward me. Svāhā.
18.46
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥ १८.४६ ॥
O Agni, those lights of yours in the sun which stretch out heaven with their rays, with all those lights make us radiant today; make us shine for the people.
18.47
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ १८.४७ ॥
O gods, those lights of yours in the sun, in cows, and in horses, and those lights of Indra and Agni; with all those lights, place brilliance in us, O Bṛhaspati.
18.48
रुचं नो धेहि ब्राह्मणेषु रुचꣳ राजसु नस् कृधि ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥ १८.४८ ॥
Place brilliance in us among the brahmins; make us brilliant among the kings. Place brilliance among the commoners and among the servants; place brilliance in me, brilliance with brilliance.
18.49
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः ॥ १८.४९ ॥
For that I come to you, praising with the sacred word; the sacrificer with oblations asks for just that. O Varuṇa, free from anger, be watchful here, O much-praised one; do not steal away our life.
18.50
स्वर्ण घर्मः स्वाहा ।
स्वर्णार्कः स्वाहा ।
स्वर्ण शुक्रः स्वाहा ।
स्वर्ण ज्योतिः स्वाहा ।
स्वर्ण सूर्यः स्वाहा ॥ १८.५० ॥
Golden heat, svāhā. Golden radiance, svāhā. Golden brightness, svāhā. Golden light, svāhā. Golden sun.
18.51
अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् ।
तेन वयं गमेम ब्रध्नस्य विष्टपꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥ १८.५१ ॥
I yoke Agni with strength and ghee, the heavenly, well-winged, mighty bird. By him may we go, ascending to the highest realm of heaven, the supreme sky.
18.52
इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याꣳ रक्षाꣳस्य् अपहꣳस्य् अग्ने ।
ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥ १८.५२ ॥
Agni, these are your two unaging wings, by which you drive away the demons. By them may we fly to the world of the righteous, where the ancient, first-born seers went.
18.53
इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिꣳसीः ॥ १८.५३ ॥
Indu, the skillful, keeper of order, a golden-winged hawk, swift-moving bird — you are great, firmly seated in your place. Homage to you; do not harm me.
18.54
दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् ।
विश्वायुः शर्म सप्रथा नमस् पथे ॥ १८.५४ ॥
You are the summit of heaven, the navel of the earth, the strength of the waters and the essence of plants. You give full life, a wide-spreading shelter of bliss. Homage to the path.
18.55
विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त ।
दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव ॥ १८.५५ ॥
You stand upon the head of all; your heart rests in the ocean, life is in the waters. Give waters, break open the ocean; bring them down to us with rain from the sky, the cloud, the atmosphere and the earth.
18.56
इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः ।
तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः ॥ १८.५६ ॥
The sacrifice offered by the Bhṛgus and the Vasus is a giver of blessings. By that offered, pleased sacrifice, may wealth come to us here.
18.57
इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टꣳ हविः ।
स्वगेदं देवेभ्यो नमः ॥ १८.५७ ॥
May Agni, offered and poured as oblation, fulfil our desired oblation. Go to heaven; this is homage to the gods.
18.58
यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा ।
तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥ १८.५८ ॥
Whatever has flowed together from intention, from the heart, from the mind, or from the eye, follow that to the world of the well-doers, where the ancient first-born seers went.
18.59
एतꣳ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः ।
अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तꣳ स्म जानीत परमे व्योमन् ॥ १८.५९ ॥
In this common seat I give you the treasure that Jātavedas has brought. The lord of the sacrifice will follow you here; know him in the highest heavenly space.
18.60
एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य ।
यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै ॥ १८.६० ॥
O gods, know this in the highest firmament; recognize its form in the seat of assembly. When he comes by the paths of the gods, reveal sacrifice and good works for him.
18.61
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।
अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥ १८.६१ ॥
Awaken, Agni; be watchful. Unite the sacrifice and good works, and this one too. In this highest seat of assembly, let all the gods and sacrificers be seated.
18.62
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥ १८.६२ ॥
Agni, by the same path by which you carry a thousand and all wealth, lead this our sacrifice up to heaven, to go among the gods.
18.63
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा ।
ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥ १८.६३ ॥
By the strewn grass, the enclosing sticks, the ladle, the altar and the sacred grass, and by the verse, lead this our sacrifice up to heaven, to go among the gods.
18.64
यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः ।
तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥ १८.६४ ॥
Whatever was given, whatever was offered away, whatever was good work and whatever fees were paid—may Agni, Viśvakarman's, place that for us in heaven among the gods.
18.65
यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः ।
तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥ १८.६५ ॥
From where unbroken streams of honey and ghee flow, may Agni, Viśvakarman's, place that for us in heaven among the gods.
18.66
अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् ।
अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥ १८.६६ ॥
I am Agni by birth, Jātavedas. Ghee is my eye, and immortality is within me. I am Arka, the threefold-sustained, the measurer of the atmosphere, the unceasing heat, the oblation indeed.
18.67
ऋचो नामास्मि यजूꣳषि नामास्मि सामानि नामास्मि ।
ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि ।
तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव ॥ १८.६७ ॥
I am the verses, I am the sacrificial formulas, I am the chants. Among the fires born first upon this earth, you are the foremost; impel us forth for life.
18.68
वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
इन्द्र त्वा वर्तयामसि ॥ १८.६८ ॥
For the slaying of Vṛtra, for strength, and for overcoming armies, O Indra, we turn you toward us.
18.69
सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् ।
अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥ १८.६९ ॥
O much-invoked Indra, the handless, crippled, swollen, footless Vṛtra who was ruling — you completely crushed him and slew him with your might.
18.70
वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो ऽ अस्माꣳऽ अभिदासत्य् अधरं गमया तमः ॥ १८.७० ॥
O Indra, drive the enemies away from us; strike down and subdue the hostile armies. Him who seeks to harm us, send him down into darkness.
18.71
मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः ।
सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥ १८.७१ ॥
Like a deer, fearsome and prowling, dwelling on the mountain, you have come from afar. Indra, sharpen your spear; with your sharp thunderbolt strike the enemies and drive away the hostile foes.
18.72
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
अग्निर् नः सुष्टुतीर् उप ॥ १८.७२ ॥
May Vaiśvānara Agni come forth to us from afar for our protection; may Agni come near to our fine praises.
18.73
पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश ।
वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥ १८.७३ ॥
Invoked in heaven, invoked on earth, Agni has entered all plants. Vaiśvānara Agni, invoked with might, may he protect us from harm by day and by night.
18.74
अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिꣳ रयिवः सुवीरम् ।
अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥ १८.७४ ॥
Agni, by your protection may we attain that desire; wealthy one, may we attain wealth with good heroic sons. Striving for strength, may we attain strength; may we attain your undecaying, ever-new splendour.
18.75
वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने ॥ १८.७५ ॥
Today we offer you our desire, approaching you with upturned palms and reverence. Agni, with the most worshipful and faultless thoughtful mind, as an inspired seer, worship the gods.
18.76
धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः ।
सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे ॥ १८.७६ ॥
May Agni who reaches the abode, Indra, Brahmā, the god Bṛhaspati, and the All-gods of one mind protect our sacrifice at the auspicious time.
18.77
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥ १८.७७ ॥
You, youngest one, protect the men who give oblations; hear our songs; and protect offspring by your own power.