Vedyatra वेदयात्रा
搜索

薄伽梵歌 · 章 2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.1

तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २.१ ॥

桑佳亚说:阿周那心生怜悯,泪水盈眶,双目迷乱,陷入沮丧;黑天对他说了这些话。

2.2

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २.२ ॥

薄伽梵说:阿周那,在这危急关头,你怎会生出这般怯懦?这不配高尚之人,既不通往天界,也不带来荣誉。

2.3

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २.३ ॥

普利塔之子,不要屈服于这怯懦;它与你不相称。抛开这卑微的心之软弱,站起来吧,克敌者。

2.4

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २.४ ॥

阿周那说:摩图苏陀那,毗湿摩与德罗纳都值得我敬拜,我怎能在战场上用箭与他们交锋?

2.5

गुरूनहत्वा हि महानुभावान् ।
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव ।
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २.५ ॥

与其杀害这些高尚的师长,不如在世上乞食为生。若杀了他们,我在此享受的一切欢乐都将沾满鲜血。

2.6

न चैतद्विद्मः कतरन्नो गरीयो ।
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम ।
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २.६ ॥

我们甚至不知道哪样更好:是我们战胜他们,还是他们战胜我们。站在面前的正是持国之子,杀了他们,我们自己也不愿再活。

2.7

कार्पण्यदोषोपहतस्वभावः ।
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे ।
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २.७ ॥

软弱压倒了我的本性,我的心对正法所求感到迷惑。我请问你:请明确告诉我什么对我更好。我是你的弟子,已皈依于你,请教导我。

2.8

न हि प्रपश्यामि ममापनुद्या ।
द्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धम् ।
राज्यं सुराणामपि चाधिपत्यम् ॥ २.८ ॥

即使得到地上无敌而富饶的王国,乃至统御诸神的权位,我也看不到有什么能消除这使我感官枯竭的悲伤。

2.9

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २.९ ॥

桑佳亚说:克服睡眠的阿周那对黑天说完这些,又对牧童之主说:“我不战。”便沉默了。

2.10

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २.१० ॥

婆罗多啊,于是在两军之间,黑天仿佛含笑,对沮丧的阿周那说了这些话。

2.11

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २.११ ॥

薄伽梵说:你为不必悲伤的人悲伤,却又说着听似智慧的话。智者既不为死者悲伤,也不为生者悲伤。

2.12

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २.१२ ॥

从未有过我不存在的时候,你和这些君王也是如此;今后我们也永远不会不存在。

2.13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २.१३ ॥

正如具身的自我在此身中经历童年、青年和老年,它也同样进入另一个身体。坚定的人不为此迷惑。

2.14

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २.१४ ॥

贡蒂之子,感官与对象相触,带来冷热、苦乐。它们来来去去,并不长久。婆罗多啊,耐心承受它们吧。

2.15

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २.१५ ॥

人中俊杰,不为这些所扰、在苦与乐中保持如一的坚定之人,才配得上不朽。

2.16

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २.१६ ॥

非真实者从未存在;真实者从不消失。见到真理的人已看清二者的究竟。

2.17

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ २.१७ ॥

要知道,遍布这一切的那个是不可毁灭的。没有人能毁灭这不朽者。

2.18

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २.१८ ॥

据说,这永恒、不灭、不可测度的具身自我,其身体终有尽头。因此,婆罗多啊,战斗吧。

2.19

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २.१९ ॥

认为自我是杀者的人,和认为自我被杀的人,二者都不明白。它既不杀,也不被杀。

2.20

न जायते म्रियते वा कदाचि ।
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो ।
न हन्यते हन्यमाने शरीरे ॥ २.२० ॥

它从不出生,也从不死亡;既已存在,就永不停止存在。它无生、永恒、常住、古老;身体被杀时,它并不被杀。

2.21

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २.२१ ॥

普利塔之子,知道它不灭、永恒、无生、不朽的人,怎么会杀人,或使人去杀?

2.22

वासांसि जीर्णानि यथा विहाय ।
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा ।
न्यन्यानि संयाति नवानि देही ॥ २.२२ ॥

如同人脱下旧衣,换上新衣,具身的自我也舍弃衰朽的身体,进入新的身体。

2.23

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २.२३ ॥

兵器不能斩断它,火不能焚烧它,水不能浸湿它,风不能吹干它。

2.24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २.२४ ॥

它不可斩断、不可焚烧、不可浸湿、不可吹干。它永恒、遍在、稳固、不动、亘古。

2.25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २.२५ ॥

它被称为未显现、不可思议、不变易。既然如此了解它,你就不应悲伤。

2.26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २.२६ ॥

即使你认为它不断出生、不断死亡,臂力强大的人啊,你也不应悲伤。

2.27

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २.२७ ॥

生者必死,死者必生。对于无法避免的事,你不应悲伤。

2.28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २.२८ ॥

婆罗多啊,众生起初未显现,中间显现,最终又复归未显现。这有什么可哀叹的?

2.29

आश्चर्यवत्पश्यति कश्चिदेन ।
माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति ।
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २.२९ ॥

有人视它为奇迹,有人说它是奇迹,有人听它如听奇迹;然而即使听闻了,也无人真正了解它。

2.30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २.३० ॥

婆罗多啊,居于每个身体中的自我永远不可被杀。因此你不应为任何众生悲伤。

2.31

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २.३१ ॥

即使考虑到你自己的职责,你也不应动摇。对武士而言,没有什么比为正义而战更好。

2.32

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २.३२ ॥

普利塔之子,能遇到这样不求自来的战斗的武士是有福的:它是一扇敞开的天界之门。

2.33

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २.३३ ॥

但如果你不参加这场正义之战,放弃了自己的职责和荣誉,你将招致罪过。

2.34

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २.३४ ॥

人们将永远谈论你的耻辱;而对曾受尊崇的人来说,耻辱比死亡更糟。

2.35

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २.३५ ॥

伟大的车战武士们会认为你因恐惧而退出战斗,那些曾高度敬重你的人会轻视你。

2.36

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २.३६ ॥

你的敌人会说许多不堪之言,嘲笑你的本领。还有什么比这更痛苦?

2.37

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २.३७ ॥

战死,你将升入天界;获胜,你将享有大地。所以,贡蒂之子,下定决心,起来战斗吧。

2.38

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २.३८ ॥

将苦与乐、得与失、胜与败一视同仁,投入战斗吧。这样你就不会招致罪过。

2.39

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २.३९ ॥

这种领悟已按数论、即知识之道教给了你。现在请按瑜伽来听。普利塔之子,与这领悟相结合,你将摆脱行动的束缚。

2.40

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २.४० ॥

在这条路上,任何努力都不会白费,也不会带来损害。即使少许这样的修习,也能使人免于大恐惧。

2.41

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २.४१ ॥

俱卢族的喜悦啊,在这里,坚定的领悟是专一的;而犹豫不决者的思绪则枝蔓繁多、无穷无尽。

2.42

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २.४२ ॥

普利塔之子,不明智的人沉迷于吠陀的字句,说着华丽的言辞,声称此外别无他物。

2.43

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २.४३ ॥

他们满怀欲望、一心向往天界,讲述许多追求享乐与权势的特殊仪式,这些仪式作为行动的果报带来再生。

2.44

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २.४४ ॥

那些执着于享乐与权势、心被这些言辞带走的人,坚定的领悟无法安住于深定之中。

2.45

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २.४५ ॥

吠陀讲的是三德。阿周那,超越三德吧:摆脱对立的两端,常住于纯净,不为获取和保有而操心,安住于自我。

2.46

यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २.४६ ॥

当四面洪水泛滥时,一口小井有多少用处,对于真正认识梵的人,一切吠陀也就有多少用处。

2.47

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २.४७ ॥

你只有行动的权利,从无享受果实的权利。不要以行动的果实为动机,也不要执着于不行动。

2.48

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २.४८ ॥

胜财啊,安住于瑜伽,履行你的行动,舍弃执着,在成功与失败中保持平等。这种心的平等就叫瑜伽。

2.49

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २.४९ ॥

胜财啊,为果报而行的行动远远低于领悟的瑜伽。到领悟中寻求庇护吧。以果报为动机的人是可怜的。

2.50

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २.५० ॥

与领悟相结合的人,在此生就舍弃了善业与恶业。所以要投身于瑜伽:瑜伽就是行动中的善巧。

2.51

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २.५१ ॥

与领悟相结合的智者舍弃行动所生的果报,从出生的束缚中解脱,到达超越一切悲苦的境界。

2.52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २.५२ ॥

当你的领悟穿越迷妄的丛林时,你将对一切已听闻的和尚待听闻的都变得淡然。

2.53

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २.५३ ॥

当你那如今被相互矛盾的教导所困惑的领悟,在深定中不动而稳固时,你就会达到瑜伽。

2.54

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २.५४ ॥

阿周那说:盖瑟婆,智慧坚定、安住于深定的人有什么标志?这样的人如何说话,如何坐,如何行走?

2.55

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २.५५ ॥

薄伽梵说:普利塔之子,当一个人舍弃心中生起的一切欲望,仅凭自我而在自我中满足时,他就被称为智慧坚定的人。

2.56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २.५६ ॥

在痛苦中心不动摇,在快乐中无所渴求,远离执着、恐惧和愤怒的人,被称为心志坚定的圣者。

2.57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २.५७ ॥

处处无所执着,遇到好事或坏事既不欢喜也不厌恶的人,他的智慧牢牢确立。

2.58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २.५८ ॥

当一个人像乌龟缩回四肢那样,从各方面将感官从其对象收回时,他的智慧就牢牢确立。

2.59

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २.५९ ॥

对于克制的人,感官对象会远离,但对它们的滋味仍在。一旦见到至高者,连这滋味也会消失。

2.60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २.६० ॥

贡蒂之子,即使有辨识力的人在努力,躁动的感官也会强行把心夺走。

2.61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २.६१ ॥

约束一切感官,应专注于我,有纪律地安坐。感官受到控制的人,他的智慧牢牢确立。

2.62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते ॥ २.६२ ॥

当人思念感官对象时,对它们的执着便产生了。执着生出欲望,欲望生出愤怒。

2.63

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २.६३ ॥

愤怒生出迷妄,迷妄导致记忆混乱,记忆丧失导致领悟毁坏,领悟毁坏,人就迷失了。

2.64

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २.६४ ॥

而自律的人,以摆脱好恶、受自我掌控的感官行于对象之间,获得清明的平静。

2.65

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २.६५ ॥

在平静中,一切痛苦都会终结,因为心境平静者的领悟很快就会稳固。

2.66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २.६६ ॥

无纪律的人没有领悟,也没有冥想。没有冥想就没有安宁,没有安宁,哪里有幸福?

2.67

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २.६७ ॥

当心追随任何一个游荡的感官时,那感官就会带走人的智慧,就像风把水上的小船吹走。

2.68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २.६८ ॥

所以,臂力强大的人啊,感官完全从其对象收摄的人,他的智慧牢牢确立。

2.69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २.६९ ॥

众生的黑夜,正是自律者清醒之时;众生清醒之处,对真正明见的圣者而言却是黑夜。

2.70

आपूर्यमाणमचलप्रतिष्ठं ।
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे ।
स शान्तिमाप्नोति न कामकामी ॥ २.७० ॥

如同江河流入大海,大海不断被注满却在深处岿然不动;一切欲望流入其中的人得到安宁,而追逐欲望的人则不能。

2.71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शांतिमधिगच्छति ॥ २.७१ ॥

舍弃一切欲望、无所渴求、没有“我的”之感、没有我执而行于世间的人,得到安宁。

2.72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २.७२ ॥

普利塔之子,这就是梵的境界。达到它,人便不再迷惑。即使在临终之时安住于此,也能达到梵的寂灭。