薄伽梵歌 · 章 18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.1
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८.१ ॥
阿周那说:大臂者啊,感官之主啊,诛灭凯西者啊,我想分别了解弃绝(桑尼亚萨)与舍离(提亚伽)的真义。
18.2
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८.२ ॥
薄伽梵说:智者认为舍弃出于欲望的行动是弃绝;明辨者说舍弃一切行动的果实是舍离。
18.3
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८.३ ॥
有些智者说,行动有过失,应当舍弃;另一些人则说,祭祀、布施和苦行的行动不应舍弃。
18.4
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ १८.४ ॥
婆罗多族的俊杰啊,请听我对舍离的定论;人中最胜者啊,舍离被宣说为三种。
18.5
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८.५ ॥
祭祀、布施和苦行的行动不应舍弃,而必须履行。祭祀、布施和苦行能净化智者。
18.6
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८.६ ॥
然而,普利塔之子啊,即使这些行动也应舍弃执着与果实而去履行;这是我确定的最高见解。
18.7
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८.७ ॥
舍弃规定的行动是不恰当的;出于愚痴而放弃它,被称为答磨性的舍弃。
18.8
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८.८ ॥
若人只因行动痛苦、畏惧身体劳苦而舍弃它,他所作的是罗阇性的舍弃,绝得不到舍弃的果报。
18.9
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८.९ ॥
阿周那啊,若人只因"这是应做的"而履行规定的行动,舍弃执着,也舍弃果报,这种舍弃被认为是萨埵性的。
18.10
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १८.१० ॥
充满萨埵、富有智慧、疑惑已断的舍弃者,不憎恶不愉快的行动,也不执着于愉快的行动。
18.11
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८.११ ॥
有身者确实不可能完全舍弃行动;而舍弃行动果报的人,才被称为舍弃者。
18.12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८.१२ ॥
不如意的、如意的与混合的,这三种行动的果报,在死后会降临于未舍弃者,但决不会降临于弃绝者。
18.13
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८.१३ ॥
大臂者啊,从我这里了解数论学说中所宣示的、成就一切行动的这五种因。
18.14
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८.१४ ॥
所依之处、行者、各种不同的工具、种种不同的努力,第五是天意。
18.15
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८.१५ ॥
人以身、语、意所发起的任何行动,无论正当与否,其因皆是这五者。
18.16
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८.१६ ॥
既然如此,若有人因智慧未经修炼,而视自我为唯一的行者,这愚钝之人并未真正看见。
18.17
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८.१७ ॥
若人没有我执之心,其智慧不受沾染,即使杀了这些人,他也并未杀,也不受束缚。
18.18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ १८.१८ ॥
知识、所知、知者,是行动的三种推动;工具、行动、行者,是行动的三种构成。
18.19
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १८.१९ ॥
在列举诸德(古纳)的学说中,知识、行动和行动者依诸德的差别而被说为三种。你也要如实地听闻它们。
18.20
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८.२० ॥
凭借这种知识,人在一切众生中见到唯一不灭的存在,在分别者中见其不可分——要知道这种知识属于萨埵性。
18.21
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८.२१ ॥
而那种以分别之见,在一切众生中认知种种不同存在的知识,要知道它属于罗阇性。
18.22
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८.२२ ॥
而那种执着于单一事物、仿佛它就是全部,无有理由、不明真义而又狭隘的知识,被称为多磨性。
18.23
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८.२३ ॥
规定的行动,远离执着,不带爱憎而作,且作者不贪求果报,这种行动称为萨埵性的。
18.24
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८.२४ ॥
而那由贪求欲望之人、或怀着我慢、以极大劳苦所作的行动,被称为罗阇性的。
18.25
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १८.२५ ॥
出于愚痴而开始的行动,不顾后果、损失、伤害以及自身的能力,被称为惰性的。
18.26
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ १८.२६ ॥
摆脱执着、不自夸、具有坚毅与热忱、在成功与失败中不为所动的行动者,被称为悦性的。
18.27
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ १८.२७ ॥
充满贪恋、渴求行动果实、贪婪、性好伤害、不洁、随喜悲而起伏的行动者,被称为激性的。
18.28
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८.२८ ॥
不自律、粗俗、顽固、狡诈、心怀恶意、懒惰、沮丧且拖延的行动者,被称为惰性的。
18.29
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ १८.२९ ॥
胜财啊,请听我完整而分别地讲述:依据三德,智性与坚定也各分三种。
18.30
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८.३० ॥
普利塔之子啊,能分辨进取与退止、当为与不当为、畏惧与无畏、束缚与解脱的智性,是悦性的。
18.31
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८.३१ ॥
帕尔塔啊,凭借它而对正法与非法、应做与不应做之事认识不正确的那种智性,是激性的。
18.32
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १८.३२ ॥
帕尔塔啊,被黑暗所覆盖,把非法当作正法,把一切事物都看颠倒的那种智性,是惰性的。
18.33
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८.३३ ॥
帕尔塔啊,凭借瑜伽、以不动摇的坚定持守心意、气息与感官活动的那种坚定,是善性的。
18.34
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८.३४ ॥
阿周那啊,若以执着之心渴求果报,凭借坚定持守正法、欲乐与财富,帕尔塔啊,那种坚定是激性的。
18.35
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८.३५ ॥
帕尔塔啊,愚昧之人凭借它而不舍弃昏睡、恐惧、忧伤、沮丧与骄慢的那种坚定,是惰性的。
18.36
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ १८.३६ ॥
婆罗多族的俊杰啊,现在请听我讲三种快乐:人通过修习而乐在其中,并达到痛苦的终结。
18.37
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १८.३७ ॥
那起初如毒药、终了却如甘露、生于自身智性之澄明的快乐,被称为悦性的快乐。
18.38
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ १८.३८ ॥
由感官与其对象接触而生、起初如甘露、终了却如毒药的快乐,被认为是激性的快乐。
18.39
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ १८.३९ ॥
那在开始和结果中都迷惑自我、由睡眠、懒惰和放逸而生的快乐,被称为惰性的快乐。
18.40
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्ति्रभिर्गुणैः ॥ १८.४० ॥
无论在地上,还是在天界众神之中,都没有任何存在能脱离这由原质所生的三种属性。
18.41
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८.४१ ॥
克敌者啊,婆罗门、刹帝利、吠舍以及首陀罗的职责,是依据源于他们自身本性的属性而划分的。
18.42
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ १८.४२ ॥
寂静、自制、苦行、洁净、宽忍、正直、知识、证悟的智慧和信仰——这些是生于本性的婆罗门职责。
18.43
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ १८.४३ ॥
勇武、威力、坚毅、干练、临阵不逃、布施和统御之德,这些是刹帝利出于本性的职责。
18.44
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ १८.४४ ॥
农耕、护牛和商贸,是吠舍出于本性的职责;以服务为本的工作,也是首陀罗出于本性的职责。
18.45
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८.४५ ॥
人各自专注于自己的职责,便能获得圆满成就。请听,专注于自身职责的人是如何获得成就的。
18.46
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८.४६ ॥
众生由祂而生,万有为祂所遍满;人以自身职责礼敬祂,便获得成就。
18.47
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ १८.४७ ॥
自己的法即使不完美,也胜过善加履行的他人之法。履行由本性所定的职责,人不会招致罪过。
18.48
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८.४८ ॥
贡蒂之子啊,与生俱来的职责即使有瑕疵,也不应舍弃;因为一切作为都为瑕疵所覆盖,犹如火为烟所笼罩。
18.49
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८.४९ ॥
心智于一切处无所执着、克制自我、远离贪求的人,通过舍弃而获得无业的至高成就。
18.50
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८.५० ॥
贡蒂之子啊,请从我这里简要了解,已获成就的人如何证得梵——那是智慧的至高归宿。
18.51
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ।
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८.५१ ॥
具有清净的智慧,以坚毅制服自我,舍弃声等感官对象,摒除贪爱与憎恶,
18.52
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८.५२ ॥
居于僻静之处,饮食清淡,节制言语、身体与心意,恒常专注于禅定瑜伽,依止离欲,
18.53
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८.५३ ॥
抛弃我慢、强力、骄傲、欲望、愤怒和占有,无“我所”之念,内心平静,他便堪能成为梵。
18.54
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८.५४ ॥
成为梵者,内心安宁,既不忧伤,也不渴求;他平等对待一切众生,获得对我的至高虔爱。
18.55
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८.५५ ॥
通过虔信,他如实地认识我——我有多大、我是谁;如实认识我之后,他随即进入我之中。
18.56
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८.५६ ॥
即使始终从事一切行动,只要以我为依归,他就凭我的恩典获得永恒不灭的境地。
18.57
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८.५७ ॥
在心中把一切行动交付于我,以我为至上,依止智慧瑜伽,常将心念专注于我。
18.58
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८.५८ ॥
心念专注于我,你将凭我的恩典越过一切艰难;但若你因我慢而不肯听从,你将会毁灭。
18.59
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८.५९ ॥
如果你依恃我慢,以为“我不作战”,你的这个决心是虚妄的;你的本性会驱使你。
18.60
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८.६० ॥
贡蒂之子啊,你被生于自性的自身行动所束缚;你因迷惑而不愿做的事,即使身不由己也终将去做。
18.61
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८.६१ ॥
阿周那啊,主宰居于一切众生的心中,以其摩耶使一切众生旋转,如同置于机轮之上。
18.62
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८.६२ ॥
婆罗多啊,全心全意皈依于他。凭他的恩典,你将获得至高的平静和永恒的居所。
18.63
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ १८.६३ ॥
我已这样向你宣说了比秘密更秘密的智慧。你要彻底思考它,然后随你所愿而行。
18.64
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८.६४ ॥
再听我至高的话语,它是一切之中最秘密的。你深为我所爱,因此我要告诉你对你有益之事。
18.65
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८.६५ ॥
心念于我,成为我的奉爱者,祭祀我,向我礼敬。你必将来到我这里;我真实地向你承诺,因为你是我所爱的。
18.66
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८.६६ ॥
舍弃一切法,唯独皈依我。我将使你从一切罪恶中解脱;不要忧伤。
18.67
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८.६७ ॥
这教导你决不可讲给不修苦行的人、没有虔信的人、不愿聆听的人,以及对我心怀嫉恶的人。
18.68
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८.६८ ॥
谁若向我的虔信者宣说这至上的奥秘,对我怀着至高的虔信,他必定来到我这里,毫无疑问。
18.69
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८.६९ ॥
在人类之中,没有谁比他更能令我喜悦;在这世上,也不会有别人比他更为我所爱。
18.70
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८.७० ॥
谁若研读我们二人这番合乎正法的对话,他便是以知识之祭供奉了我,这是我的看法。
18.71
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८.७१ ॥
即使只是怀着信心、不存嫉恶地聆听这番话的人,他也将获得解脱,到达行善者的吉祥世界。
18.72
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ॥ १८.७२ ॥
普利塔之子啊,你是否专心一意地听了这些?胜财啊,你那由无知而生的迷惑是否已经消除?
18.73
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८.७३ ॥
阿周那说:不灭者啊,凭借你的恩典,我的迷惑已经消除,我已恢复了记忆。我坚定站立,疑虑尽消;我将遵行你的话语。
18.74
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८.७४ ॥
全胜说:就这样,我听到了婆薮天与伟大的普利塔之子之间这场奇妙而令人毛发竖立的对话。
18.75
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८.७५ ॥
承蒙毗耶娑的恩典,我亲耳听到了这至高的秘密瑜伽,由瑜伽之主黑天亲自当面宣说。
18.76
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ १८.७६ ॥
国王啊,一再回想盖沙婆与阿周那之间这场奇妙而神圣的对话,我一次又一次地欢喜。
18.77
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ १८.७७ ॥
国王啊,一再回想诃利那极其奇妙的形相,我惊叹不已,一次又一次地欢喜。
18.78
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।18.78 ॥ १८.७८ ॥
哪里有瑜伽之主黑天,哪里有持弓的普利塔之子,哪里就有吉祥、胜利、繁荣和坚定的正道——这是我的信念。