Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.1

युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत् ॥ ११.१ ॥

萨维特里首先驾驭心意,为真理驾驭思想。收集了阿耆尼之光后,他将其从大地之上带来。

11.2

युक्तेन मनसा वयं देवस्य सवितुः सवे ।
स्वर्ग्याय शक्त्या ॥ ११.२ ॥

以专注的心意,我们处于天神萨维特里的推动之中,为获得天界,为力量。

11.3

युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् ।
बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥ ११.३ ॥

萨维特里驾驭诸神,以思想将追求天界者送往苍穹;萨维特里推动那些制造大光的人。

11.4

युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः ॥ ११.४ ॥

受启的先知驾驭心意,也驾驭诸思想,为伟大的智慧先知。祭司们以多种方式持守它们;知晓诸路径者唯有一人。这是天神萨维特里的伟大赞颂。

11.5

युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः ॥ ११.५ ॥

我为你们二位以敬礼结合古老的神圣祷文。愿赞颂特别地抵达你们,如智者之路。愿居于天界居所的不死者之子们都来聆听。

11.6

यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा ।
यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना ॥ ११.६ ॥

其他诸神追随他的行程,见神的伟大与力量;丈量大地万物者,那迅疾的神萨维特里以其伟大丈量诸界。

11.7

देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु ॥ ११.७ ॥

哦,神萨维特里,推动祭祀前行;为了繁盛,推动祭主前行。愿神圣的乾达婆,净化智慧者,净化我们的智慧;愿言语之主使我们的言语甘美。

11.8

इमं नो देव सवितर् यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् ।
ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा ॥ ११.८ ॥

哦,神萨维特里,引导我们的这场祭祀前行,它受诸神守护,能获得朋友,在竞赛中获胜,赢得财富与天界。以颂诗使赞美颂繁盛;以伽耶特里韵律使罗陀antara与布利哈特繁盛,在伽耶特拉之道中运行。斯瓦哈。

11.9

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत् ॥ ११.९ ॥

凭神萨维特里的推动,以双Aśvin的臂膀、普善的双手,我取你。以伽耶特里韵律,如安吉拉斯一般,我从大地之座取祭坛之火;以特利施图布韵律,如安吉拉斯一般,把它带来。

11.10

अभ्रिर् असि नार्य् असि त्वया वयम् अग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥ ११.१० ॥

你是挖掘的铲子,你是女子。借你,我们能在共同的场所掘出阿耆尼,以耆葛提韵律,如安吉罗萨一般。

11.11

हस्त ऽ आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर ।
आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥ ११.११ ॥

萨维特里手持金色的挖掘铲,收集阿耆尼的光明,从大地之上带来。以阿奴护杜普韵律,如安吉罗萨一般。

11.12

प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥ ११.१२ ॥

啊,迅捷者,快速前进;奔向最优越的桑瓦特。你的至高诞生在天上,你的脐在虚空中,你的胎在大地上。

11.13

युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू ।
अग्निं भरन्तम् अस्मयुम् ॥ ११.१३ ॥

在这段路程中,你们两位丰财的神啊,套上驴子,载着渴望我们的阿耆尼。

11.14

योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
सखाय ऽ इन्द्रमूतये ॥ ११.१४ ॥

每一次套合,每一次争竞,我们都呼唤最强大者。朋友们,为了护佑,呼唤因陀罗吧。

11.15

प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि ।
उर्व् अन्तरिक्षं वीहि ।
स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥ ११.१५ ॥

向前疾行,无伤地降临,在楼陀罗统领众神的权威之下来到此处。带来安乐者,请来。穿越广阔的虚空,开辟安全之路,使人无惧,与普山同驾。

11.16

पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर ।
अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥ ११.१६ ॥

从大地的共同之座取来适于祭坛的火,如同安吉罗娑。我们走向适于祭坛的火,如同安吉罗娑。我们将取来适于祭坛的火,如同安吉罗娑。

11.17

अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ ॥ ११.१७ ॥

最先的火神在黎明之中看见了;最初的生主火神随着诸日而行。随着太阳的诸多光线,他展开了天与地。

11.18

आगत्य वाज्य् अध्वानꣳ सर्वा मृधो विधूनुते ।
अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते ॥ ११.१८ ॥

迅捷者沿途而来,抖落一切敌人;在伟大的共同之座,他愿以目光安置火神。

11.19

आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।
भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम् ॥ ११.१९ ॥

迅捷者啊,踏上大地,以光辉寻求火神。请告诉我们,为了挖掘大地,我们应从何处挖掘。

11.20

द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रो योनिः ।
विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः ॥ ११.२० ॥

天是你的脊背,地是你的共同之座,虚空是你的自身,海洋是你的胎藏。以你的眼睛观望之后,你站立抗拒敌军。

11.21

उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।
वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः ॥ ११.२१ ॥

为了伟大的福祉,从此座起身吧,施财者,勇健者。愿我们在大地的恩惠中,在她的怀中掘出阿耆尼。

11.22

उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् ।
ततः खनेम सुप्रतीकम् अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥ ११.२२ ॥

施财者、勇健者已来到此处,在大地上善行的好世界中。让我们从那里掘出容貌美好的阿耆尼,升往天界,直达最高的那伽。

11.23

आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥ ११.२३ ॥

以心意和酥油,我在此点燃你,你住于一切世界之中:广大,横向展开,力量伟大,极为广阔,富于食物,迅疾而可见。

11.24

आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत ।
मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥ ११.२४ ॥

从四面八方朝向你,我以酥油和无罗刹的心意点燃你;愿它欢喜。阿耆尼啊,你如人般秀美,色泽可爱,我以身体触碰那中心,光辉闪耀。

11.25

परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
दधद् रत्नानि दाशुषे ॥ ११.२५ ॥

力量之主、先知阿耆尼绕行于供品之周,赐予供奉者珍宝。

11.26

परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि ।
धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् ॥ ११.२६ ॥

阿耆尼啊,我们在你周围冥想力量的灵感圣者;他日复一日容貌无畏,是弯曲敌人的杀戮者。

11.27

त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥ ११.२७ ॥

阿耆尼啊,你来自白昼,你迅速燃烧;你来自水,你来自石头。你来自森林,你来自草木;人类之主啊,你纯净地诞生于人类之中。

11.28

देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ।
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् ।
शिवं प्रजाभ्यो ऽहिꣳसन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥ ११.२८ ॥

在日神萨维特里的推动下,以双马童的臂膀、普善的双手,我挖掘你。从大地的共同座位,如安吉罗斯一般,我挖掘适合坑穴的火。阿耆尼啊,光辉的,形貌美好的,你以不竭的光明闪耀。对人民吉祥、无害的火,从大地的座位,如安吉罗斯一般,我们挖掘。

11.29

अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥ ११.२९ ॥

你是水的脊背,阿耆尼的子宫,如同四面涌动的大海。你不断增长、伟大,直到莲池,以天空的尺度与广阔展开吧。

11.30

शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे ।
व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम् ॥ ११.३० ॥

你们二者是庇护与铠甲;你们二者无孔且广大。展开而共同居住;承载那滋养的火神阿耆尼。

11.31

संवसाथा स्वर्विदा समीची ऽ उरसा त्मना ।
अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥ ११.३१ ॥

共同居住、获得天光者,并肩前行者,以宽广之胸与自身,将阿耆尼含于内,愿你们永远光明。

11.32

पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने ।
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥ ११.३२ ॥

你是滋养者,承载一切。阿闼婆首先搅出了你,阿耆尼啊。阿耆尼啊,阿闼婆从上方的莲花中搅出了你。从众人之首,从祭司而来。

11.33

तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः ।
वृत्रहणं पुरंदरम् ॥ ११.३३ ॥

正是你,被阿闼婆之子、仙人达德扬起燃。你是斩杀弗栗多者,摧毁堡垒者。

11.34

तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनंजयꣳ रणे-रणे ॥ ११.३४ ॥

正是你,被水中的勇猛者燃起。你是最大的敌人杀戮者,获得财富者,在每一场战斗中。

11.35

सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञꣳ सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥ ११.३५ ॥

祭主啊,坐于你自己的位置;有智慧者,在善作之源中确立祭祀。守护诸神者,以供品敬拜诸神,阿耆尼啊。赐予施主大大的生命力。

11.36

नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ२ ऽ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः ॥ ११.३६ ॥

Agni坐于司祭之位,智慧、光辉、明亮、善巧。具有不破誓愿与坚定心智的Vasiṣṭha,承载千物,舌头洁净的火神。

11.37

सꣳ सीदस्व महाꣳ२ ऽ असि शोचस्व देववीतमः ।
वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥ ११.३७ ॥

坐下吧,你是伟大的。诸神最爱的Agni,请放光明。哦,值得献祭的Agni,放出赤色的烟,受赞美且形貌优美。

11.38

अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः ।
तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥ ११.३८ ॥

神圣的诸水啊,请送来甘甜的水,使民众免于疾病。愿草药从它们的所在处升起,果实丰美。

11.39

सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।
यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥ ११.३९ ॥

愿风神Mātariśvan为你一并承载仰置之器那裂开的中心。你在诸神之间以气息行走,哦神,向你献上vaṣaṭ。

11.40

सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः ।
वासो ऽ अग्ने विश्वरूपꣳ संव्ययस्व विभावसो ॥ ११.४० ॥

善生的Agni与光明一同坐于天上,作为庇护与护甲。哦Agni,请披上一切形貌的衣裳,哦赐光者。

11.41

उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया ।
दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः ॥ ११.४१ ॥

起来吧,善祭者,以神圣的心意朝向我们。为了显现,以大光明闪耀,哦Agni,伴随美好的赞颂而来。

11.42

ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥ ११.४२ ॥

为了我们的保护,请高高站立,如神萨维特里一般。当我们以合掌和祭司们召唤你时,愿你成为力量的高处赐予者。

11.43

स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु ।
चित्रः शिशुः परि तमास्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः ॥ ११.४३ ॥

啊阿耆尼,你生于天地之胎,美好,寄托于草木之中。如奇妙的孩童,你环绕黑暗的夜晚,为了母亲们在牛群之上咆哮。

11.44

स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् ।
पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः ॥ ११.४४ ॥

请坚定,四肢强壮;请迅捷,强健的骏马。请广大,阿耆尼祭坛土壤的承载者,你安稳地坐于其上。

11.45

शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।
मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन् ॥ ११.४५ ॥

啊安吉罗,请对人类众生慈善。不要焚烧天与地,不要焚烧虚空,不要焚烧树木。

11.46

प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।
भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ।
वृषाग्निं वृषणं भरन्न् अपां गर्भꣳ समुद्रियम् ।
अग्न ऽ आयाहि वीतये ॥ ११.४६ ॥

愿迅捷的骏马奔出,嘶鸣;驴子喧叫。以双足承载阿耆尼与祭坛之土,愿双足在寿命尽头之前不倒。承载公牛阿耆尼,强壮的公牛,水的海洋之胎。啊阿耆尼,为享用而来。

11.47

ऋतꣳ सत्यम् ऋतꣳ सत्यम् ।
अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ।
ओषधयः प्रति मोदध्वम् अग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्माः ।
व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि ॥ ११.४७ ॥

真理,真理。我们如安吉罗斯一般迎来多产的阿耆尼。诸草木啊,在此为这位吉祥而来的阿耆尼而欢喜吧。驱除一切敌意与疾病,坐在我们之中,去除我们的恶念。

11.48

ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऽ ऋत्वियः प्रत्नꣳ सधस्थम् आसदत् ॥ ११.४८ ॥

诸草木啊,花繁果硕者,请接纳。你们这应时的胎藏已安坐于古老的共同之位。

11.49

वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ ॥ ११.४९ ॥

以你伟大的力量熊熊燃烧,驱除可憎的罗刹与病痛。愿我安居于易召唤的阿耆尼的伟大善护之中,在其被引导向前之时。

11.50

आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।
महे रणाय चक्षसे ॥ ११.५० ॥

诸水啊,你们确实是带来安乐者。那些水啊,请赐予我们精力,以获得大喜与明见。

11.51

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥ ११.५१ ॥

你们最吉祥的精华,请在此分与我们,如慈爱的母亲一般。

11.52

तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥ ११.५२ ॥

为了你们所激发我们居所与增长的那精华,愿我们善好地来到你们面前。诸水啊,请生育我们。

11.53

मित्रः सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह ।
सुजातं जातवेदसम् अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः ॥ ११.५३ ॥

密特拉将大地与土地与光明相连而造就。善生的、知生者的阿耆尼啊,为了无病与子嗣,我将你结合。

11.54

रुद्राः सꣳसृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे ।
तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते ॥ ११.५४ ॥

楼陀罗们将大地相连,点燃了大光明;他们不息的光辉,明亮地照耀在诸神之中。

11.55

सꣳसृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥ ११.५५ ॥

愿辛尼跋利以双手将与婆苏、楼陀罗及智者相混、宜于祭事的泥土捏软,并塑造它。

11.56

सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा ।
सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः ॥ ११.५६ ॥

辛尼跋利,具美丽的发辫、美丽的发髻与美丽的绳索,愿她为你双手托住乌卡器皿,伟大的阿底提啊。

11.57

उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ ।
मखस्य शिरोऽसि ॥ ११.५७ ॥

愿阿底提以力量、以双臂、以巧思制成乌卡器皿。犹如母亲将子嗣抱于膝上,愿她将阿耆尼怀于腹中。你是祭祀之首。

11.58

वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि ।
धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ॥ ११.५८ ॥

愿婆素神以伽耶特里韵律使你如安吉罗sas般坚固;你是大地。以你的支撑,愿子嗣、财富的滋养、牲畜的主宰、良好的英雄之力与亲族在我身中确立,为施祭者而成。愿楼陀罗神以特里斯图布韵律使你如安吉罗sas般坚固;你是虚空。以你的支撑,愿子嗣、财富的滋养、牲畜的主宰、良好的英雄之力与亲族在我身中确立,为施祭者而成。愿阿底提亚神以耆伽提韵律使你如安吉罗sas般坚固;你是天界。以你的支撑,愿子嗣、财富的滋养、牲畜的主宰、良好的英雄之力与亲族在我身中确立,为施祭者而成。愿一切毗首提婆与吠舍婆那罗以阿努什图卜韵律使你如安吉罗sas般坚固;你是方位。以你的支撑,愿子嗣、财富的滋养、牲畜的主宰、良好的英雄之力与亲族在我身中确立,为施祭者而成。

11.59

अदित्यै राम्नासि ।
अदितिष् टे बिलं गृभ्णातु ।
कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।
पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति ॥ ११.५९ ॥

你对阿底提而言是令人喜悦的。愿阿底提接纳你的孔口。阿底提将大泥罐做成阿耆尼的子宫,交给诸子,说:让他们烹煮。

11.60

वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ।
इन्द्रस् त्वा धूपयतु ।
वरुणस् त्वा धूपयतु ।
विष्णु त्वा धूपयतु ॥ ११.६० ॥

愿诸婆苏以伽耶特利韵律熏香你,如同安吉罗斯。愿诸楼陀罗以特利斯图布韵律熏香你,如同安吉罗斯。愿诸阿迪提亚以耆达提韵律熏香你,如同安吉罗斯。愿一切毗首提婆与吠舍婆那罗以阿奴石图布韵律熏香你,如同安吉罗斯。愿因陀罗熏香你。愿伐楼那熏香你。愿毗湿奴熏香你。

11.61

अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट ।
देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे ।
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे ।
वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे ।
ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ।
जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ॥ ११.६१ ॥

愿阿底提女神与诸神同在,在大地共同的怀抱中,依安吉罗斯之式为你掘坑。愿诸神之妻,与诸神同在的女神,在大地共同的怀抱中,依安吉罗斯之式将你置于乌卡之中。愿迪沙那们,与诸神同在的女神,在大地共同的怀抱中,依安吉罗斯之式在乌卡中点燃火。愿瓦鲁特利们,与诸神同在的女神,在大地共同的怀抱中,依安吉罗斯之式在乌卡中烹煮。愿格纳们,与诸神同在的女神,在大地共同的怀抱中,依安吉罗斯之式在乌卡中烹煮。愿生育者们,翼羽完整的女神,与诸神同在,在大地共同的怀抱中,依安吉罗斯之式在乌卡中烹煮。

11.62

मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥ ११.६२ ॥

米特拉之佑护,为人所持守,在神的恩惠中。光辉,最为奇妙的声名。

11.63

देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या ।
अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण ॥ ११.६३ ॥

愿天神萨维德里以力量将你扶起,你手美、指美、臂美。立于大地而不动摇,充满四方与诸方。

11.64

उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् ।
मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि ॥ ११.६४ ॥

起身变得庞大,直立而站,你是坚固的。朋友啊,我将你的这个乌可四周安放,使其不致破裂。

11.65

वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥ ११.६५ ॥

愿诸婆苏以伽耶特利韵律使你欢喜,如安吉罗斯一般。愿诸楼陀罗以特利什图布韵律使你欢喜,如安吉罗斯一般。愿诸阿提提以耆迦提韵律使你欢喜,如安吉罗斯一般。愿一切毗首婆那天神以阿努须图布韵律使你欢喜,如安吉罗斯一般。

11.66

आकूतिम् अग्निं प्रयुजꣳ स्वाहा ।
मनो मेधाम् अग्निं प्रयुजꣳ स्वाहा ।
चित्तं विज्ञातम् अग्निं प्रयुजꣳ स्वाहा ।
वाचो विधृतिम् अग्निं प्रयुजꣳ स्वाहा ।
प्रजापतये मनवे स्वाहा ।
ऽ अग्नये वैश्वानराय स्वाहा ॥ ११.६६ ॥

致意志,致被驱动的阿耆尼,娑訶。致心,致智慧,致被驱动的阿耆尼,娑訶。致思想,致了知,致被驱动的阿耆尼,娑訶。致言语的坚定,致被驱动的阿耆尼,娑訶。致生主,致摩奴,娑訶。致阿耆尼,致吠奢婆罗,娑訶。

11.67

विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥ ११.६७ ॥

愿每一位凡人都选择引领之神的友谊。愿人人渴求财富,选择光辉,得以昌盛,娑訶。

11.68

मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु ।
अग्निश् चेदं करिष्यथः ॥ ११.६८ ॥

母啊,不要断裂,也不要被彻底毁坏。坚定的母啊,以勇武使自己强健。阿耆尼与你将完成此事。

11.69

दृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन् ॥ ११.६९ ॥

女神大地啊,为了吉祥而坚固吧。你是由阿修罗的神奇力量与娑陀所造。愿此供物为诸神所悦。你无损地在此祭祀中升起吧。

11.70

द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस् पुत्रो ऽ अद्भुतः ॥ ११.७० ॥

疾速运行者,以酥油涂抹者,古老的祭司,最为殊胜、值得选择者,力量之子,奇妙者。

11.71

परस्या ऽ अधि संवतो वराꣳ ऽ अभ्य् आतर ।
यत्राहम् अस्मि ताꣳ ऽ अव ॥ ११.७१ ॥

从遥远的高处,越过通往最佳之地的路途,把它们从我所在之处带下来。

11.72

परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि ।
पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥ ११.७२ ॥

从最远的远方,红色的马啊,来到这里。阿耆尼啊,你富于供物,为众人所爱,请越过敌人。

11.73

यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥ ११.७३ ॥

阿耆尼啊,我们为你所放的任何柴薪,愿它们全都成为你的酥油;最年轻的啊,请享用它。

11.74

यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥ ११.७४ ॥

舌状火焰所吞食的,蠕虫所爬过的,愿这一切都成为你的酥油;最年轻的啊,请享用它。

11.75

अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥ ११.७५ ॥

日复一日,从不退缩,为他带来食物,如同在马前摆放草料;在财富的滋养与食物中共同欢喜,阿耆尼啊,愿你的敌对邻人不伤害我们。

11.76

नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥ ११.७६ ॥

在大地的脐心,在燃起的阿耆尼中,我们为了财富的盛大增长而呼唤那位以食物令人欢喜、值得大加赞颂、值得敬拜、胜利、在战斗中征服的阿耆尼。

11.77

याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत ।
ये स्तेना ये च तस्करास् ताꣳस् ते ऽ अग्ने ऽपि दधाम्य् आस्ये ॥ ११.७७ ॥

那些进攻、侵扰的军队,以及凶猛的部众,还有盗贼和强盗——哦阿耆尼,我把他们放入你的口中。

11.78

दꣳष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराꣳ ऽउत ।
हनुभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान् ॥ ११.७८ ॥

用你的獠牙咬毁灭者,用你的颌骨咬盗贼和强盗,用两颌咬盗贼——哦世尊,你要把他们好好吞下。

11.79

ये जनेषु मलिम्लव स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः ॥ ११.७९ ॥

人群中的破坏者,林中的盗贼和强盗,丛林中怀有恶意的人——我把他们放入你的颌中。

11.80

यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।
निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु ॥ ११.८० ॥

凡与我们为敌、憎恨我们、以诽谤或欺骗加害我们的人,把他和他的一切化为灰烬。

11.81

सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् ।
सꣳशितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥ ११.८१ ॥

我的梵力已磨利,勇力与力量已磨利,获胜的刹帝利之力也已磨利——我是它的首席祭司。

11.82

उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाꣳ अहम् ॥ ११.८२ ॥

我举起他们的手臂,也举起光辉与力量;以梵力我消灭敌人,并引导我自己的人向上。

11.83

अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः ।
प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ ११.८३ ॥

食物之主啊,请赐予我们无病而有力的食物。使施予者前进。在我们的两足与四足生灵中确立力量。