Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.1

क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि ।
मा त्वा हिꣳसीन् मा मा हिꣳसीः ॥ २०.१ ॥

你是王权之源,你是王权之脐。愿无人伤害你;愿你不伤害我。

20.2

नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ।
मृत्योः पाहि ।
विद्योत् पाहि ॥ २०.२ ॥

持酥誓的伐楼那,善心端坐于居所,以求至高的统治。请护我于死亡;请护我于闪电。

20.3

देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि ।
सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि ।
इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥ २०.३ ॥

在天神萨维特利的推动下,以双马童之臂、补善之手为你灌顶。以双马童的药力为光辉与梵威而灌顶;以萨拉斯瓦蒂的药力为勇力与食物而灌顶;以因陀罗的根力为力量、吉祥与荣誉而灌顶。

20.4

को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा ।
सुश्लोक सुमङ्गल सत्यराजन् ॥ २०.४ ॥

你是谁,你是哪一位?我为谁而献你,为哪位神而献你?善名者、吉祥者、真王啊!

20.5

शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।
राजा मे प्राणो ऽ अमृतꣳ सम्राट् चक्षुर् विराट् श्रोत्रम् ॥ २०.५ ॥

我的头是吉祥,我的面是荣誉,光辉是我的发与须。国王是我的气息、不死;君主是我的眼;统治者是我的耳。

20.6

जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥ २०.६ ॥

愿我的舌头吉祥,言语伟大。愿我的心有热忱与光辉,自主之光。愿喜悦与欢乐在我的手指和肢体中;愿我的坚忍在朋友之中。

20.7

बाहू मे बलम् इन्द्रियꣳ हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रम् उरो मम ॥ २०.७ ॥

愿我的双臂有力量与感官之能;愿我的双手有行动与勇力。愿我的自我有统治之力(kṣatra),愿我的胸膛亦然。

20.8

पृष्टीर् मे राष्ट्रम् उदरम् अꣳसौ ग्रीवाश् च श्रोणी ।
ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥ २०.८ ॥

愿我的背脊是国土,腹部亦然;愿我的肩膀、颈项与腰胯亦然。愿我的大腿、前臂与膝盖在此;愿我的民众四面皆为我的肢体。

20.9

नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।
आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः ।
जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः ॥ २०.९ ॥

愿我的肚脐为心识与智慧;愿我的臀部为尊荣之所。愿喜悦与欢乐为我的睾丸;愿我有吉运、福祥,以及那器官亦然。我以小腿与双足即是法,作为君王立于民众之中。

20.10

प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु ।
प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि ॥ २०.१० ॥

我立于刹帝利的权力之中,立于王国之中。立于马之中,立于牛之中。立于肢体之中,立于自我(ātman)之中。立于气息(prāṇa)之中,立于权力之中,立于兴旺(puṣṭi)之中,立于天地(Dyāvāpṛthivī)之中。

20.11

त्रया देवा ऽ एकादश त्रयस्त्रिꣳशाः सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे ।
देवा देवैर् अवन्तु मा ॥ २०.११ ॥

三、十一、三十三位神,赐予善财者,以布里哈斯帕蒂为祭司,在萨维特里神的推动之中。愿诸神借诸神保护我。

20.12

प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूꣳषि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा ॥ २०.१२ ॥

第一与第二相合,第二与第三相合,第三与真实相合,真实与祭祀相合,祭祀与夜柔(yajus)相合,夜柔与娑摩(sāman)相合,娑摩与梨俱(ṛc)相合,梨俱与前诵(puronuvākyā)相合,前诵与供誦(yājyā)相合,供誦与 vaṣaṭ 呼声相合,vaṣaṭ 呼声与供物相合。愿它们成就我的愿望。Bhūḥ, svāhā。

20.13

लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः ।
माꣳसं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः ॥ २०.१३ ॥

我的毛发,我的克制;我的皮肤,我的谦卑,我的到来。我的肌肉,我的结合,我的财富,我的骨与髓,我的谦卑。

20.14

यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥ २०.१४ ॥

诸神啊,我们所犯的任何得罪诸神的过错,愿阿耆尼使我脱离一切罪过与苦难。

20.15

यदि दिवा यदि नक्तम् एनाꣳसि चकृमा वयम् ।
वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥ २०.१५ ॥

若我们白天或夜晚所犯的任何罪过,愿风神婆由使我脱离一切苦难。

20.16

यदि जाग्रद् यदि स्वप्न ऽ एनाꣳसि चकृमा वयम् ।
सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥ २०.१६ ॥

若我们醒着或睡着时所犯的任何罪过,愿太阳神苏利耶使我脱离一切苦难。

20.17

यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि ॥ २०.१७ ॥

无论我们在村落、森林、集会、感官中,对首陀罗或雅利安人所犯的任何罪过,或对某人之法所犯的任何过失——你便是它的赎罪。

20.18

यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् ।
पुरुराव्णो देव रिषस् पाहि ॥ २०.१८ ॥

我们以瓦鲁那之名对那名为“不可杀”的水起誓;瓦鲁那啊,请从此解脱我们。阿婆伯利陀啊,尼楚蒙普那啊,你是下降的尼楚蒙普那。愿诸神所作之罪、凡人所作之罪都远离;多受赞颂的神啊,请保护我们免受伤害。

20.19

समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ २०.१९ ॥

你的心在大海之中,在水的深处;愿水与草药进入你之内。愿水与草药对我们友善;对憎恨我们、以及我们所憎恨的人,愿它们成为敌人。

20.20

द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव ।
पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः ॥ २०.२० ॥

如同从布中解脱、出汗后沐浴而脱去污垢之人,如同经过滤网纯净的酥油,愿诸水使我们脱离罪过、得以清净。

20.21

उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥ २०.२१ ॥

我们从黑暗中升起,观见更高的光明,已至诸神之中的神——太阳,最高的光明。

20.22

अपो ऽ अद्यान्व् अचारिषꣳ रसेन सम् असृक्ष्महि ।
पयस्वान् अग्न ऽ आगमं तं मा सꣳ सृज वर्चसा प्रजया च धनेन च ॥ २०.२२ ॥

今日我随水而行,我们与甘露相合。阿耆尼啊,我带着乳汁而来;请使我与光辉、子嗣和财富相连。

20.23

एधोऽस्य् एधिषीमहि ।
समिद् असि तेजो ऽसि तेजो मयि धेहि ।
समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः ।
सम् उ विश्वम् इदं जगत् ।
वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा ॥ २०.२३ ॥

你是燃料,愿我们被点燃。你是柴薪,你是光辉;请在我身中置入光辉。大地、晨光与太阳一同运转,这运动的整个世界亦然。愿我成为吠舍婆罗的光明,获得广大的愿望。婆樓,娑婆诃。

20.24

अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि ।
व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥ २०.२४ ॥

阿耆尼啊,誓愿之主,我把柴薪置于你上;我亲近誓愿与信心。我已受戒,故点燃你。

20.25

यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह ।
तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥ २०.२५ ॥

婆罗门与刹帝利之力相随而行之处,诸神与阿耆尼同在的那清净之界,愿我得到。

20.26

यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह ।
तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते ॥ २०.२६ ॥

因陀罗与伐由相随而行之处,无有忧苦之座的那清净之界,愿我得到。

20.27

अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः ।
गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः ॥ २०.२७ ॥

愿你的光线与光线相连,关节与关节相接。愿你的香气护佑苏摩;此不朽之汁用于欢愉。

20.28

सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्र्वै मदे किंत्वो वदति किंत्वः ॥ २०.२८ ॥

他们洒,四周洒,向上洒,并使之清净。在褐色苏罗的沉醉中,谁说了什么?

20.29

धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।
इन्द्र प्रातर् जुषस्व नः ॥ २०.२९ ॥

带有炒米、卡兰跋、饼与赞歌的供品——因陀罗啊,请晨间接受我们的供奉。

20.30

बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् ।
येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥ २०.३० ॥

诸摩录多啊,为最能击杀弗栗多的因陀罗高声歌唱——增长天则的诸神借此生出光明;为神,为警醒的神。

20.31

अध्वर्यो ऽ अद्रिभिः सुतꣳ सोमं पवित्र ऽ आ नय ।
पुनीहीन्द्राय पातवे ॥ २०.३१ ॥

祭司阿特瓦尔尤啊,将以石头压榨的苏摩带入滤器;为因陀罗饮用而净化之。

20.32

यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः ।
य ऽ ईशे महतो महाꣳस् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम् ॥ २०.३२ ॥

凭那众生之主、诸界所依、于诸大者中为至大的主宰者,我取你;我在我之中取你。

20.33

उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ ।
एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥ २०.३३ ॥

你已被以升华杯(upayāma)取出。我为双阿溯夫、萨罗室伐蒂、因陀罗、苏特拉曼取你。这是你的位置;我为双阿溯夫、萨罗室伐蒂、因陀罗、苏特拉曼取你。

20.34

प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे ।
वाचो मे विश्वभेषजो मनसो ऽसि विलायकः ॥ २०.३४ ॥

你是我气息的守护者,我下行气息的守护者,我眼睛的守护者,我听觉的守护者。你是我言语的万能良药;你是消融心意的人。

20.35

अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य ।
उपहूत ऽउपहूतस्य भक्षयामि ॥ २०.३५ ॥

你为双阿溯夫所作、为萨罗室伐蒂所作、为因陀罗与苏特拉曼所作的部分,我享用被召请者的被召请之分。

20.36

समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः ।
त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥ २०.३६ ॥

在曙光之前被点燃的因陀罗,在前光耀,先作者,增长着;与三乘三十位神同在,手执金刚杵,他杀死了弗栗多,打开了门扉。

20.37

नराशꣳसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥ २०.३७ ॥

英雄那罗舍诃萨(Narāśaṃsa)测量着,坦奴那帕(Tanūnapāt)走向祭祀之处。携牛与脂肪(vapā),以蜜涂抹,以金饰闪耀,智者行祭。

20.38

ईडितो देवैर् हरिवाꣳ२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः ।
पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः ॥ २०.३८ ॥

诸神赞颂的、拥有赤褐色马的、满足愿望的、以祭品被召请的、欢喜的因陀罗;毁城者、破牛栏者、持金刚臂者——愿他欢喜地来到我们的祭祀。

20.39

जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानꣳ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥ २०.३९ ॥

愿我们的因陀罗——赤褐色马的主人——欢喜地坐在神圣的吉祥草上,面向东方、朝向大地;他广大而伸展,坐于吉祥之座,与阿底提亚与婆苏们一同受膏、为众所爱。

20.40

इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः ।
द्वारो देवीर् अभितो वि श्रयन्ताꣳ सुवीरा वीरं प्रथमाना महोभिः ॥ २०.४० ॥

愿奔跑的卡瓦夏们走向公牛因陀罗;愿有良夫的妻子们也同去;愿神圣的门扉在两侧大开——拥有良子的妇人,以其大力使英雄昌盛。

20.41

उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् ।
तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥ २०.४१ ॥

黎明与黑夜——伟大而富有乳汁、易于挤奶的二者——装饰英雄因陀罗,以装饰编织展开的线,为神中之神、值得礼敬、具有美丽金色光辉者。

20.42

दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा ।
मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥ २०.४२ ॥

神圣的女性们为人类以多种方式衡量——两位祭司、首位、善言者,礼敬因陀罗;她们将甘甜置于祭祀之首,愿以供物增强东方之光。

20.43

तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः ।
अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥ २०.४३ ॥

三位女神,借供物而增长,令因陀罗欢喜,如妻子般生育。以乳汁续不断之线:萨罗斯瓦蒂、伊达女神、婆罗提,一切成就者。

20.44

त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥ २०.४४ ॥

特瓦什陀赋予因陀罗——公牛——力量,圆满而坚定,为荣耀而赐予诸多之物。愿献祭的公牛、精力充沛的强者,在祭祀之首充分涂油于诸神。

20.45

वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः ।
इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥ २०.४५ ॥

祭柱如解脱羁绊,以自身之性而庄严,如同行宰杀的神。以因陀罗的供物充满其腹,以蜜与酥油使祭祀甘美。

20.46

स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् ।
घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम् ॥ २०.४६ ॥

为滴,朝向因陀罗的苏摩,英雄因陀罗如公牛般奔腾,迅速取胜。以酥油之滴,心中欢喜:スヴァーハー。愿不死的诸神欢喜。

20.47

आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः ।
वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥ २०.४७ ॥

愿因陀罗为我们的庇护而来此,受到赞颂;愿他成为同享筵席的伙伴,成为英雄。愿他那增长的众多力量,如天空般,滋养那能够征服的统治权。

20.48

आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः ।
ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥ २०.४८ ॥

愿因陀罗从远方与近处来到我们这里,施予恩惠的、威猛的他为了庇护而来。作为人类之主、手持金刚杵者,他在战斗与交锋中迅速击败敌军。

20.49

आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च ।
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥ २०.४९ ॥

愿因陀罗驾着黄褐色的骏马来到我们这里,为庇护与福祉而转向我们。愿手持金刚杵、慷慨而伟大的他,在争夺财富的竞赛中立于我们此祭之后。

20.50

त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवे-हवे सुहवꣳ शूरम् इन्द्रम् ।
ह्वयामि शक्रं पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः ॥ २०.५० ॥

我呼唤保护者因陀罗、护持者因陀罗、英雄因陀罗,他每次呼唤都易于应允;我呼唤强大的、为众人所呼唤的因陀罗。愿慷慨的因陀罗赐予我们吉祥。

20.51

इन्द्रः सुत्रामा स्ववाꣳ२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ २०.५१ ॥

愿善于护持、富有财物的因陀罗,以其庇护而慈悲,洞察一切。愿他驱散敌意、赐予无畏;愿我们成为善良勇武的主人。

20.52

तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाꣳ२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु ॥ २०.५२ ॥

愿我们处于那值得祭祀者的恩惠之中,处于吉祥的善意之中。愿那善于护持、富有的因陀罗,从远处就使敌意远离我们;愿他永远施予。

20.53

आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताꣳ२ऽ इहि ॥ २०.५३ ॥

因陀罗啊,带着欢悦的栗色骏马,马鬃如孔雀羽般而来。愿没有任何设套者阻拦你;如越过荒漠一般越过他们,继续前行。

20.54

एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः ।
स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥ २०.५४ ॥

如此,婆私侯们以颂歌赞美手持金刚的公牛因陀罗。愿受赞美的他赐予我们英勇的子嗣与牛群;愿你们以吉祥常常护佑我们。

20.55

समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमꣳ शुक्रम् इहेन्द्रियम् ॥ २०.५५ ॥

阿耆尼已点燃;阿濕因啊,烧热的热乳器,光耀的苏摩已被压出。母牛萨罗室伐蒂在此为力量挤出明亮的苏摩。

20.56

तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।
अध्वा रजाꣳसीन्द्रियम् इन्द्राय पथिभिर् वहान् ॥ २०.५६ ॥

护身的医者阿濕因双神与两位萨罗室伐蒂,请在压取苏摩时降临。循着道路,为因陀罗把力量带给诸界。

20.57

इन्द्रायेन्दुꣳ सरस्वती नराशꣳसेन नग्नहुम् ।
अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥ २०.५७ ॥

萨罗室伐蒂为因陀罗将苏摩与那罗舍恐、那伽呼一同安置。医者阿濕因在压取时放置蜂蜜作为良药。

20.58

आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिर् अश्विनाव् इषꣳ समूर्जꣳ सꣳ रयिं दधुः ॥ २०.५८ ॥

萨罗室伐蒂呼唤着,为因陀罗安置诸根与精力,连同供物;阿濕因双神则共同安置食物、力量与财富。

20.59

अश्विना नमुचेः सुतꣳ सोमꣳ शुक्रं परिस्रुता ।
सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे ॥ २०.५९ ॥

双马童通过滤器带来纳穆契压出的明亮苏摩;萨罗室伐蒂将其置于吉祥草上,供因陀罗饮用。

20.60

कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती ॥ २०.६० ॥

如卡瓦沙,广阔的水流;如双马童之门与四方;如因陀罗,两界;萨罗室伐蒂挤出众愿。

20.61

उषासानक्ताश्विना दिवेन्द्रꣳ सायम् इन्द्रियैः ।
संजानाने सुपेशसा सम् अञ्जाते सरस्वत्या ॥ २०.६१ ॥

晨与夜,双马童——白昼为因陀罗,傍晚与诸根同在;容貌美好,和谐相聚,以萨罗室伐蒂装饰。

20.62

पातं नो ऽ अश्विना दिवा पाहि नक्तꣳ सरस्वति ।
दैव्या होतारा भिषजा पाताम् इन्द्रꣳ सचा सुते ॥ २०.६२ ॥

双马童啊,白昼保护我们;萨罗室伐蒂啊,夜间保护我们。愿神圣的诵祭者与医者,与因陀罗一同在苏摩压榨时护佑。

20.63

तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।
तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम् ॥ २०.६३ ॥

三重三者——萨罗室伐蒂、双马童、婆罗蒂与伊达,为因陀罗通过滤器压出猛烈的苏摩与醉意。

20.64

अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियꣳ रूपꣳ-रूपम् अधुः सुते ॥ २०.६४ ॥

双马童是甘甜的良药;萨罗室伐蒂是我们的良药。在苏摩压榨时,特瓦斯特里将荣耀、光辉与种种形相置于因陀罗之中。

20.65

ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥ २०.६५ ॥

适时,林木之主因陀罗欣然透过滤器为双阿owing须因挤出甘露蜜;萨拉斯瓦蒂如挤奶的母牛。

20.66

गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।
सम् अधातꣳ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥ २०.६६ ॥

如牛奶一般,阿owing须因啊,你们透过滤器将苏摩与萨拉斯瓦蒂混合。斯瓦哈。为因陀罗榨出的蜜。

20.67

अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।
आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे ॥ २०.६७ ॥

双阿owing须因与萨拉斯瓦蒂以智慧从那目吉取得供物与活力;从阿修罗处为因陀罗带来明亮的财富与福分。

20.68

यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।
स बिभेद वलं मघं नमुचाव् आसुरे सचा ॥ २०.६८ ॥

因陀罗受双阿owing须因与萨拉斯瓦蒂以供物增强,劈开了堡垒,连同阿修罗那目吉的财富。

20.69

तम् इन्द्रꣳ सचाश्विनोभा सरस्वती ।
दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः ॥ २०.६९ ॥

双阿owing须因与萨拉斯瓦蒂一同捧持供物,在祭祀中以力量与活力赞颂因陀罗。

20.70

य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥ २०.७० ॥

愿苏特拉玛,供物之主,那位在其中由萨维特里、伐楼那与薄伽置入活力之神,将其赐予施祭者。

20.71

सविता वरुणो दधद् यजमानाय दाशुषे ।
आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥ २०.७१ ॥

愿萨维特里与婆楼那赐予施主祭者以威力。苏特拉曼(因陀罗)夺取了那木支的财富、力量与威力。

20.72

वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥ २०.७२ ॥

愿婆楼那赐予统治与威力,萨维特里与薄伽赐予吉祥。苏特拉曼以荣耀承载力量,抵达祭祀。

20.73

अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।
हविषेन्द्रꣳ सरस्वती यजमानम् अवर्द्धयन् ॥ २०.७३ ॥

愿双马童以牛赐予威力,以马赐予勇力与力量。萨罗室伐蒂以祭品增益因陀罗与施主。

20.74

ता नासत्या सुपेशसा हिरण्यवर्तनी नरा ।
सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत ॥ २०.७४ ॥

那两位那萨提亚,容貌俊美,行金色之路,为领袖;富有祭品的萨罗室伐蒂——因陀罗啊,请在我们的祭事中保护我们。

20.75

ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥ २०.७५ ॥

那两位是善行的医者;她是萨罗室伐蒂,易挤之乳。他,斩杀弗栗多的百力因陀罗——他们为他安置了威力。

20.76

युवꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत ॥ २०.७६ ॥

双马童啊,你们一同饮了阿修罗那木支的苏罗酒;萨罗室伐蒂痛饮之时,在祭事中护佑了因陀罗。

20.77

पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ २०.७७ ॥

如同父母保护儿子,你们二位阿室文和因陀罗以奇妙的功业护佑。当你以神力饮下苏罗酒时,哦慷慨者,萨罗室伐蒂助你。

20.78

यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥ २०.७८ ॥

在其祭祀中放出并献上马、公牛、阉牛、母牛、石女牛与公羊,为饮甘露、载苏摩的造物主阿耆尼,我从心中生起美好的念想。

20.79

अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिꣳ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥ २०.७९ ॥

哦阿耆尼,祭品已献入你口中,如酥油入勺,苏摩入杯。请赐予我们胜得战利的财富,有良子,可赞美,光荣而伟大。

20.80

अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।
वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम् ॥ २०.८० ॥

双阿室文以光辉赋予视力,萨罗室伐蒂以气息赋予精力,因陀罗以言语与力量赋予诸根,为因陀罗而安立。

20.81

गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना ।
वर्ती रुद्रा नृपाय्यम् ॥ २०.८१ ॥

哦纳萨蒂亚、阿室文,请携牛与马善来。哦楼陀罗们,请沿着道路前来,护佑人类。

20.82

न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू ।
दुःशꣳसो मर्त्यो रिपुः ॥ २०.८२ ॥

哦施财者,愿无论远近,任何心怀恶意的凡人仇敌都不能侵犯我们。

20.83

ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसंदृशम् ।
धिष्ण्या वरिवोविदम् ॥ २०.८३ ॥

阿湿频啊,请把那二位为我们带来赤黄而美好、能获得财富的财富,哦,居于座位者们。

20.84

पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥ २०.८४ ॥

愿净化者萨拉斯瓦蒂,具备力量与活力,以智慧致富,愿意我们的祭祀。

20.85

चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ २०.८५ ॥

激励真实甜美之言、唤醒善念的萨拉斯瓦蒂,承担了祭祀。

20.86

महो ऽ अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥ २०.८६ ॥

伟大的洪流萨拉斯瓦蒂,以她的光明使人明了;在一切思想中她都放射光辉。

20.87

इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः ।
अण्वीभिस् तना पूतासः ॥ २०.८७ ॥

因陀罗,光辉奇异者,请来吧!这些为你而压榨的苏摩,已由指头与茎秆净化。

20.88

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥ २०.८८ ॥

因陀罗,请以思想驱动、被智者召唤而来,靠近压榨苏摩者的祷词。

20.89

इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश् चनः ॥ २०.८९ ॥

因陀罗啊,疾速来到我们的梵颂旁,哈里范啊。请在压榨的苏摩中眷顾我们的欢悦。

20.90

अश्विना पिबतां मधु सरस्वत्या सजोषसा ।
इन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु ॥ २०.९० ॥

愿双阿输金与萨罗室伐蒂同心欢悦地饮用甘露。愿善护者、杀弗栗多的因陀罗享用苏摩的甘露。