Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.1

स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन ।
मधुमतीं मधुमता सृजामि सꣳ सोमेन ।
सोमोऽसि ।
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ॥ १९.१ ॥

甜美者,我以甜美、锐利者以锐利、不死者以不死、蜜汁者以蜜,与苏摩相合。你即是苏摩。为双马童而熟。为萨罗室伐蒂而熟。为善护者因陀罗而熟。

19.2

परीतो षिञ्चता सुतꣳ सोमो य ऽ उत्तमꣳ हविः ।
दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥ १९.२ ॥

将压榨之苏摩四周浇洒,它是至上之祭品:那流动的、属于人的苏摩,在水中以石头压出。

19.3

वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ।
वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥ १९.३ ॥

苏摩以风神之滤净化,急速向内流动,是因陀罗相宜的朋友。苏摩以风神之滤净化,急速向前流动,是因陀罗相宜的朋友。

19.4

पुनाति ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥ १९.४ ॥

太阳之女为你以永恒之滤净化四周流动的苏摩。

19.5

ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियꣳ सुरया सोमः सुत ऽ आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥ १९.५ ॥

苏摩为梵力、刹帝利力、光明与根力而流;压出并与苏罗酒一同注入,以求欢愉。天神啊,以光明满足诸神;以汁液为祭主赐予食物。

19.6

कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ।
ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥ १९.६ ॥

诚然,亲爱的,如同拥有大麦者按次序脱粒大麦,你在此处此处为他们准备食物,那些在巴尔希旁以敬礼之言祭祀的人。你被以奉献器皿取来;为阿什文、为萨拉斯瓦蒂、为因陀罗、为苏特拉曼。这是你的位置:为光辉,为力量,为强力。

19.7

नाना हि वां देवहितꣳ सदस् कृतं मा सꣳ सृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिꣳसीः स्वां योनिम् आविशन्ती ॥ १९.७ ॥

为你们二者已另造了利于诸神的座位;在最高的天空,你们二者不要与我混合。你是苏罗,充满力量;这是苏摩。进入你自己的座位,不要伤害我。

19.8

उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् ।
एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥ १९.८ ॥

你被以奉献器皿取来;你是阿什文的光辉,萨拉斯瓦蒂的力量,因陀罗的强力。这是你的位置:为喜悦,为欢乐,为伟大。

19.9

तेजो ऽसि तेजो मयि धेहि ।
वीर्यम् असि वीर्यं मयि धेहि ।
बलम् असि बलं मयि धेहि ।
ओजो ऽस्य् ओजो मयि धेहि ।
मन्युर् असि मन्युं मयि धेहि ।
सहो ऽसि सहो मयि धेहि ॥ १९.९ ॥

你是光明(tejas),请把光明置于我身。你是英勇之力(vīrya),请把英勇之力置于我身。你是力量(bala),请把力量置于我身。你是活力(ojas),请把活力置于我身。你是怒气(manyu),请把怒气置于我身。你是忍耐力(sahas),请把忍耐力置于我身。

19.10

या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणꣳ सिꣳहꣳ सेमं पात्व् अꣳहसः ॥ १९.१० ॥

守护老虎、毒疫病(viṣūcikā)、二者以及狼的那一位,守护鹰、飞禽和狮子的那一位,愿她保护此人免于苦难。

19.11

यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् ।
एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया ।
सम्पृच स्थ सं मा भद्रेण पृङ्क्त ।
विपृच स्थ वि मा पाप्मना पृङ्क्त ॥ १९.११ ॥

如同儿子欢喜地吮吸、依偎母亲,哦阿耆尼,我因此脱离债务;愿我的父母因我而无伤。你们是相聚者,请使我与吉祥相聚。你们是分离者,请使我与罪恶分离。

19.12

देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना ।
वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥ १९.१२ ॥

诸神展开了祭祀与药物;医者双阿输钦展开了它;以言语为医的萨罗室伐底,为因陀罗安置诸根。

19.13

दीक्षायै रूपꣳ शष्पाणि प्रायणीयस्य तोक्मानि ।
क्रयस्य रूपꣳ सोमस्य लाजाः सोमाꣳशवो मधु ॥ १९.१३ ॥

受戒之形是草芽;开始仪式之芽;购买之形是苏摩的炒米;苏摩的分份与蜂蜜。

19.14

आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ।
रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥ १९.१४ ॥

待客祭之形为麻萨罗,大勇器为那格那护。此为近祭之形:压榨苏罗之三夜。

19.15

सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते ।
अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रꣳ सरस्वत्या ॥ १९.१५ ॥

苏摩之形为所购苏摩之溢液,周围浇注。为双阿溯,乳为药;为因陀罗,因陀罗之物;为萨罗室伐底亦然。

19.16

आसन्दी रूपꣳ राजासन्द्यै वेद्यै कुम्भी सुराधानी ।
अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥ १९.१६ ॥

其形为坐椅;为王座与祭坛,为瓮与苏罗器。北祭坛中间之形为医者迦罗多罗。

19.17

वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् ।
यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥ १९.१७ ॥

祭坛以祭坛而成;圣草以圣草而成,以力成之。祭柱以祭柱而成;导引之火以火而成。

19.18

हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती ।
इन्द्रायैन्द्रꣳ सदस् कृतं पत्नीशालं गार्हपत्यः ॥ १९.१८ ॥

双阿溯之havirdhāna,萨罗室伐底之āgnīdhra。为因陀罗所作之因陀罗集会堂;妻室堂即家主火。

19.19

प्रैषेभिः प्रैषान् आप्नोत्य् आप्रीभिर् आप्रीर् यज्ञस्य ।
प्रयाजेभिर् अनुयाजान् वषट्कारेभिर् आहुतीः ॥ १९.१९ ॥

以请祭咒语得请祭;以祭祀之阿布利咒语得阿布利。以前供物得后供物;以瓦沙特之声得献祭。

19.20

पशुभिः पशून् आप्नोति पुरोडाशैर् हवीꣳष्य् आ ।
छन्दोभिः सामिधेनीर् याज्याभिर् वषट्कारान् ॥ १९.२० ॥

以牲畜获得牲畜,以普罗陀娑饼获得献祭之物;以韵律获得薪火诵,以祭赞诗获得瓦沙特呼声。

19.21

धानाः करम्भः सक्तवः परीवापः पयो दधि ।
सोमस्य रूपꣳ हविष आमिक्षा वाजिनं मधु ॥ १९.२१ ॥

炒米、卡伦跋、炒麦粉、波里瓦波、牛奶和凝乳,是苏摩的形式;祭品的形式是阿弥克沙、瓦吉那与蜂蜜。

19.22

धानानाꣳ रूपं कुवलं परीवापस्य गोधूमाः ।
सक्तूनाꣳ रूपं बदरम् उपवाकाः करम्भस्य ॥ १९.२२ ॥

炒米的形式是枣(kuvala);波里瓦波的形式是小麦;炒麦粉的形式是枣(badara);卡伦跋的形式是乌帕瓦卡谷物。

19.23

पयसो रूपं यद् यवा दध्नो रूपं कर्कन्धूनि ।
सोमस्य रूपं वाजिनꣳ सौम्यस्य रूपम् आमिक्षा ॥ १९.२३ ॥

牛奶的形式是大麦;凝乳的形式是卡坎度果;苏摩的形式是瓦吉那;苏摩类祭品的形式是阿弥克沙。

19.24

आ श्रावयेति स्तोत्रियाः प्रत्याश्रावो ऽ अनुरूपः ।
यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥ १९.२४ ॥

“ā śrāvaya”是颂歌(stotriya)的形式,应答“pratyāśrāva”与之相应;“yaja”是达伊亚(dhāyyā)的形式,颂诗(pragātha)即“yeyajāmahāḥ”。

19.25

अर्धऽऋचैर् उक्थानाꣳ रूपं पदैर् आप्नोति निविदः ।
प्रणवैः शस्त्राणाꣳ रूपं पयसा सोम आप्यते ॥ १९.२५ ॥

以半颂获得乌克陀歌的形式,以诗步获得尼维德;以唵音(praṇava)获得沙斯特拉诵的形式;以乳获得苏摩。

19.26

अश्विभ्यां प्रातःसवनम् इन्द्रेणैन्द्रं माध्यन्दिनम् ।
वैश्वदेवꣳ सरस्वत्या तृतीयम् आप्तꣳ सवनम् ॥ १९.२६ ॥

通过双马童获得晨祭,通过因陀罗获得午祭(因陀罗祭),通过萨拉斯瓦蒂获得第三祭,即毗湿伐提婆祭。

19.27

वायव्यैर् वायव्यान् आप्नोति सतेन द्रोणकलशम् ।
कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥ १९.२७ ॥

以风神之器获得风神之杯;以滤网与木槽,以罐获得苏摩压榨中的汲器;以锅获得锅。

19.28

यजुर्भिर् आप्यन्ते ग्रहा ग्रहै स्तोमाश् च विष्टुतीः ।
छन्दोभिर् उक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥ १९.२८ ॥

以祭词(夜柔)获得杯子;以杯子获得颂式与附赞;以韵律获得诵词与赞歌;以娑摩在最终沐浴(阿婆利陀)中获得。

19.29

इडाभिर् भक्षान् आप्नोति सूक्तवाकेनाशिषः ।
शंयुना पत्नीसंयाजान्त् समिष्टयजुषा सꣳस्थाम् ॥ १९.२९ ॥

以伊达(颂词)获得供物;以苏克塔瓦卡获得祝福;以尚尤获得妻子祭;以萨米什塔夜柔获得完成(三斯塔)。

19.30

व्रतेन दीक्षाम् आप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धाम् आप्नोति श्रद्धया सत्यम् आप्यते ॥ १९.३० ॥

以誓愿获得灌顶(奉献);以奉献获得布施(达克西那);以布施获得信心;以信心获得真理。

19.31

एतावद् रूपं यज्ञस्य यद् देवैर् ब्रह्मणा कृतम् ।
तद् एतत् सर्वम् आप्नोति यज्ञे सौत्रामणी सुते ॥ १९.३१ ॥

他获得诸神以梵(神圣言词)所成就的祭祀的全部形式;在祭祀中,于苏多罗摩尼的苏摩压榨中。

19.32

सुरावन्तं बर्हिषदꣳ सुवीरं यज्ञꣳ हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥ १९.३२ ॥

诸大德以敬礼推动这场含有苏拉酒、坐于吉祥草之上、拥有良好英雄的祭祀。在天界诸神之中执持苏摩,愿我们这些寻求天光的施主与因陀罗同乐。

19.33

यस् ते रसः सम्भृत ऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ॥ १९.३३ ॥

以你在草木中所聚的精华,以及与苏拉酒共压的苏摩之力,使施主欣悦而复苏;也使萨罗斯瓦蒂、双马童、因陀罗与阿耆尼同样如此。

19.34

यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।
इमं तꣳ शुक्रं मधुमन्तम् इन्दुꣳ सोमꣳ राजानम् इह भक्षयामि ॥ १९.३४ ॥

那明亮、甘如蜂蜜之滴的君王苏摩,即双马童与萨罗斯瓦蒂为感官之力从阿修罗那穆吉手中夺取并压出的苏摩——此苏摩,我今在此享用。

19.35

यद् अत्र रिप्तꣳ रसिनः सुतस्य यद् इन्द्रो ऽ अपिबच्छचीभिः ।
अहं तद् अस्य मनसा शिवेन सोमꣳ राजानम् इह भक्षयामि ॥ १९.३५ ॥

此处压出的多汁苏摩所余之物,因陀罗以其力所饮之物——我今以善良之心在此享用,此君王苏摩。

19.36

पितृभ्यः स्वधायिभ्यः स्वधा नमः ।
पितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
अक्षन् पितरः ।
ऽअमीमदन्त पितरः ।
ऽअतीतृपन्त पितरः ।
पितरः शुन्धध्वम् ॥ १९.३६ ॥

向接受供养的父亲们献上斯瓦达与敬礼。向接受供养的祖父们献上斯瓦达与敬礼。向接受供养的曾祖父们献上斯瓦达与敬礼。诸父已经进食。诸父已经欢喜。诸父已经完全满足。啊诸父,请净化自身。

19.37

पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ।
पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥ १९.३७ ॥

愿与苏摩相关的诸父净化我;愿与苏摩相关的诸祖父净化我。愿诸曾祖父以净器和百岁寿命净化我。愿诸祖父净化我;愿与苏摩相关的诸曾祖父净化我。以净器与百岁寿命,愿我获得完整的寿数。

19.38

अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥ १९.३८ ॥

啊阿耆尼,请净化我们的生命;为我们催发力量与食物。将恶犬(心怀恶意之人)远远驱逐。

19.39

पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥ १९.३९ ॥

愿诸天神之人净化我;愿心与念慧净化我。愿一切众生净化我。啊生知者,请净化我。

19.40

पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूँ२ऽर् अनु ॥ १९.४० ॥

啊神圣的光耀者,请以净器与光明净化我。啊阿耆尼,以志愿顺随诸志愿。

19.41

यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।
ब्रह्म तेन पुनातु मा ॥ १९.४१ ॥

阿耆尼啊,愿梵借你火焰中展开的那净器(pavitra)净化我。

19.42

पवमानः सो ऽ अद्य नः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ॥ १९.४२ ॥

愿今日为我们借滤器而洞察一切的那位净化之苏摩——净者(potā)——亲自净化我。

19.43

उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनीहि विश्वतः ॥ १९.४३ ॥

天神萨维特里啊,以两者——滤器与驱动(sava)——从四面八方净化我。

19.44

वैश्वदेवी पुनती देव्य् आगाद् यस्याम् इमा बह्व्यस् तन्वो वीतपृष्ठाः ।
तया मदन्तः सधमादेषु वयꣳ स्याम पतयो रयीणाम् ॥ १९.४४ ॥

众神之女(Vaiśvadevī)、净化之女神已来临,她之中有这些背上有斑点的众多身躯。借她在共同的宴席(sadhamāda)上欢喜,愿我们成为财富的主人。

19.45

ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥ १९.४५ ॥

在阎摩之国中那些同等、同心的祖先(pitṛ)——愿他们的世界、svadhā、敬礼与祭祀在众神之中得到认可。

19.46

ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषाꣳ श्रीर् मयि कल्पताम् अस्मिँल्लोके शतꣳ समाः ॥ १९.४६ ॥

那些同等、同心、在生者之中活着、属于我的人们——愿他们的光荣(śrī)在我身上得以成就,在此世间一百年。

19.47

द्वे सृती ऽ अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।
ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च ॥ १९.४७ ॥

我听说过两条道路,即祖先、诸神与凡人的道路。这整个运动的世界借此二者而行,父母之间所在的一切也借此二者而聚合。

19.48

इदꣳ हविः प्रजननं मे ऽ अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्य् अभयसनि ।
अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽ अस्मासु धत्त ॥ १९.४८ ॥

愿此供物为我带来子嗣,连同十子与全部眷属,以求安康。愿获得自身、子嗣、牲畜、世界与无畏。愿阿耆尼使我的子嗣繁多;愿他在我们之中安置食物、乳与精液。

19.49

उद् ईरताम् ऽ अवर उत् परास ऽ उन् मध्यमाः पितरः सोम्यासः ।
असुं य ऽ ईयुर् अवृका ऽ ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥ १९.४९ ॥

愿下界、上界与中界的、配享苏摩的祖先们起身。愿那些获得生命而离去的、温和而知晓真理的祖先,在召请之时保护我们。

19.50

अङ्गिरसो नः पितरो नवग्वा ऽ अथर्वाणो भृगवः सोम्यासः ।
तेषां वयꣳ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥ १९.५० ॥

我们的安吉罗斯、纳瓦格瓦、阿闼婆与婆利古,配享苏摩的祖先们:愿我们也处于那些值得献祭者的恩宠之中,并处于吉祥的善意之中。

19.51

ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभिर् यमः सꣳरराणो हवीꣳष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥ १९.५१ ॥

愿阎摩与我们昔日的祖先——奉献苏摩的先人、饮用苏摩的婆湿吒们一同欢喜,随其所愿地享用祭品,与愿望者同在。

19.52

त्वꣳ सोम प्र चिकितो मनीषा त्वꣳ रजिष्ठम् अनु नेषि पन्थाम् ।
तव प्रणीती पितरो न ऽ इन्दो देवेषु रत्नम् अभजन्त धीराः ॥ १९.५२ ॥

苏摩啊,你以智慧明辨,引导我们走最正直的道路。凭你的引领,我们坚毅的先祖在诸神之中获得了宝藏。

19.53

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्न् अवातः परिधीँ२ऽर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥ १९.५३ ॥

苏摩啊,正是借你,我们从前坚毅的先祖完成了他们的功业。啊,净化者,无阻地打开栅栏,并以英勇的良马使我们富足吧。

19.54

त्वꣳ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी ऽ आ ततन्थ ।
तस्मै त ऽ इन्दो हविषा विधेम वयꣳ स्याम पतयो रयीणाम् ॥ १९.५४ ॥

苏摩啊,你与先祖相契,将天与地四面铺展。啊,苏摩之滴,我们愿以祭品侍奉你,愿我们成为财富的主人。

19.55

बर्हिषदः पितर ऽ ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
त ऽ आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥ १९.५५ ॥

坐于草席之上的先祖啊,怀着护佑来到此处。我们为你们备好了这些祭品,请予接受。以最吉祥的护佑前来,然后赐予我们平安、福祉,并使我们免受伤害。

19.56

आहं पितॄन् सुविदत्राꣳ२ऽ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त ऽ इहागमिष्ठाः ॥ १९.५६ ॥

我已获得慷慨的祖先,毗湿奴的孙子及其步伐。那些坐在圣草上、分享斯瓦陀与压榨苏摩的人,最乐于来到这里。

19.57

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त ऽ आ गमन्तु त ऽ इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥ १९.५७ ॥

受邀的、与苏摩相关的祖先,请坐于圣草的心爱之座。愿他们来到此处,倾听并言说;愿他们护佑我们。

19.58

आ यन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर् देवयानैः ।
अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥ १९.५८ ॥

愿与苏摩相关、为阿耆尼所食的祖先,经由诸神之道来到我们这里。在此祭祀中因斯瓦陀而欢喜,愿他们言说;愿他们护佑我们。

19.59

अग्निष्वात्ताः पितर ऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः ।
अत्ता हवीꣳषि प्रयतानि बर्हिष्य् अथा रयिꣳ सर्ववीरं दधातन ॥ १९.५९ ॥

为阿耆尼所食的祖先们,请来此处;各就其座,得善引导。享用在圣草上供奉的祭品;然后赐予我们财富与所有英勇的子嗣。

19.60

ये ऽ अग्निष्वात्ता ये ऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते ।
तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति ॥ १९.६० ॥

对于为阿耆尼所食与未为阿耆尼所食者,他们在天空中央因斯瓦陀而欢喜;愿自主之主依其所愿,塑造此命息与身体。

19.61

अग्निष्वात्ताꣳ ऋतुमतो हवामहे नाराशꣳसे सोमपीथं य ऽ आशुः ।
ते नो विप्रासः सुहवा भवन्तु वयꣳ स्याम पतयो रयीणाम् ॥ १९.६१ ॥

我们呼唤随季节而来的阿格尼什瓦特祖灵,以及迅速前来饮用苏摩的那罗शंस。愿这些灵感的圣贤易于为我们召请,愿我们成为财富的主人。

19.62

आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे ।
मा हिꣳसिष्ट पितरः केन चिन् नो यद्व ऽ आगः पुरुषता कराम ॥ १९.६२ ॥

请右膝跪坐,赞美这场祭祀,诸位祖灵。因我们凭人类的弱点对你们所犯的过错,请不要以任何方式伤害我们。

19.63

आसीनासो ऽ अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त ऽ इहोर्जं दधात ॥ १९.६३ ॥

坐于红晨女神膝上的诸位祖灵啊,请将财富赐予施舍的凡人。请从那宝藏中赐给你们的子孙,愿他们在此为我们注入力量与食物。

19.64

यम् अग्ने कव्यवाहन त्वं चिन् मन्यसे रयिम् ।
तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ १९.६४ ॥

啊,阿耆尼,祖灵供物的承载者,你自己认为良善的那份财富,请以颂歌为我们赞美;那值得荣耀的财富,请在诸神之中为我们这些朋友颂扬。

19.65

यो ऽ अग्निः कव्यवाहनः पितॄन् यक्षद् ऋतावृधः ।
प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य ऽ आ ॥ १९.६५ ॥

那作为祖灵供物承载者的阿耆尼,若敬拜增益天道秩序的祖灵,便在此为诸神与祖灵宣告祭品。

19.66

त्वम् अग्न ऽ ईडितः कव्यवाहनावाड् हव्यानि सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते ऽ अक्षन्न् अद्धि त्वं देव प्रयता हवीꣳषि ॥ १९.६६ ॥

阿耆尼啊,你被赞颂,是向祖先传送供物的。你制作了芬芳的祭品,以“斯瓦陀”献给祖先;他们已经享用。神啊,你也请享用虔诚奉献的祭品。

19.67

ये चेह पितरो ये च नेह याꣳश् च विद्म याꣳ२ऽ उ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञꣳ सुकृतं जुषस्व ॥ १९.६७ ॥

在这里的祖先和不在这里的祖先,我们认识的和不完全认识的——迦塔韦达斯啊,你知道他们有多少。请以“斯瓦陀”供物悦纳这场善行祭祀。

19.68

इदं पितृभ्यो नमो ऽ अस्त्व् अद्य ये पूर्वासो य ऽ उपरास ईयुः ।
ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनꣳ सुवृजनासु विक्षु ॥ १९.६८ ॥

愿今日此礼敬献给祖先——先前离去的、后来离去的、坐于大地领域的,以及如今居于有秩序人群之中的。

19.69

अधा यथा नः पितरः परासः प्रत्नासो ऽ अग्न ऽ ऋतम् आशुषाणाः ।
शुचीदयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो ऽ अरुणीर् अप व्रन् ॥ १९.६९ ॥

那时,我们远去的古代祖先,阿耆尼啊,获得宇宙秩序,诵读颂歌,放射明亮的光辉,劈开大地,打开赤红(黎明)之门。

19.70

उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।
उशन्न् उशत ऽ आ वह पितॄन् हविषे ऽ अत्तवे ॥ १९.७० ॥

我们满怀愿望地安置你;满怀愿望地把你点燃。愿望中的阿耆尼啊,请把渴望的祖先带到这里,来享用祭品。

19.71

अपां फेनेन नमुचेः शिर ऽ इन्द्रोद् अवर्तयः ।
विश्वा यद् अजय स्पृधः ॥ १९.७१ ॥

因陀罗啊,你以水沫斩下了那穆基的头颅,当你征服所有敌人之时。

19.72

सोमो राजामृतꣳ सुत ऽ ऋजीषेणाजहान् मृत्युम् ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७२ ॥

国王苏摩被榨取为不死之饮,以滤器驱逐了死亡。以正道得真实,以力量得那令人振奋的光亮苏摩汁——这是因陀罗的力量,这乳汁、不死、甘甜。

19.73

अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७३ ॥

安吉罗斯之子克伦,以智慧从水中饮取乳汁。以正道得真实,以力量得那令人振奋的光亮苏摩汁——这是因陀罗的力量,这乳汁、不死、甘甜。

19.74

सोमम् अद्भ्यो व्यपिबच् छन्दसा हꣳसः शुचिषत् ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७४ ॥

居于纯净中的天鹅,凭韵律从水中饮取苏摩。以正道得真实,以力量得那令人振奋的光亮苏摩汁——这是因陀罗的力量,这乳汁、不死、甘甜。

19.75

अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७५ ॥

生主以神圣之言,饮取从食物中流出的精华——王权、乳汁、苏摩。以正道得真实,以力量得那令人振奋的光亮苏摩汁——这是因陀罗的力量,这乳汁、不死、甘甜。

19.76

रेतो मूत्रं वि जहाति योनिं प्रविशद् इन्द्रियम् ।
गर्भो जरायुणावृत ऽ उल्वं जहाति जन्मना ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७६ ॥

精液与尿液离开子宫;进入的力量(indriya)进入其中。胎儿被胞衣包裹,出生时脱去薄膜。以天道(ṛta)得真理;因陀罗之力在清澈明亮的苏摩饮中;此即乳、甘露、蜜。

19.77

दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
अश्रद्धाम् अनृते ऽदधाच् छ्रद्धाꣳ सत्ये प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७७ ॥

生主(Prajāpati)见到二形,分辨真与假。在假中他置入不信,在真中生主置入信。以天道(ṛta)得真理;因陀罗之力在清澈明亮的苏摩饮中;此即乳、甘露、蜜。

19.78

वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७८ ॥

生主借吠陀分别饮用二形:压榨的与未压榨的苏摩。以天道(ṛta)得真理;因陀罗之力在清澈明亮的苏摩饮中;此即乳、甘露、蜜。

19.79

दृष्ट्वा परिस्रुतो रसꣳ शुक्रेण शुक्रं व्यपिबत् ।
पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥ १९.७९ ॥

Prajāpati见到流淌的汁液,便用明亮的杯子饮下明亮的苏摩。乳,苏摩。以ṛta(真理)得真实、精力,苏摩饮料的明亮一饮;这是因陀罗的精力,乳,甘露,蜜。

19.80

सीसेन तन्त्रं मनसा मनीषिण ऽ ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञꣳ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥ १९.८० ॥

以铅为器,以心智,智者编织经纬;以羊毛线,先知编织。双马神编织祭祀,萨维特里与萨罗室伐蒂编织因陀罗之形;伐楼那治愈。

19.81

तद् अस्य रूपम् अमृतꣳ शचीभिस् तिस्रो दधुर् देवताः सꣳरराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य माꣳसम् अभवन् न लाजाः ॥ १९.८१ ॥

其不死之形,以威力,三神安置,共同施予。毛发如草,多种多样,如嫩芽;皮与肉变成如炒过的谷粒。

19.82

तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो ऽ अन्तरम् ।
अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥ १९.८२ ॥

此事由双马神医、楼陀罗之道,萨罗室伐蒂在内编织形体。以羊毛绳与车床绳安置骨与髓,于牛皮之中。

19.83

सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुता न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥ १९.८३ ॥

萨罗室伐蒂以心智织出精妙之宝,与二纳萨提亚织出可见之身。如流淌之汁般赤红,坚定的裸呼者,如梭与织机之梁。

19.84

पयसा शुक्रम् अमृतं जनित्रꣳ सुरया मूत्राज् जनयन्त रेतः ।
अपामतिं दुर्मतिं बाधमाना ऽ ऊवध्यं वातꣳ सब्वं तद् आरात् ॥ १९.८४ ॥

以乳,产生光明不死的生殖之物;以酒,从尿中他们产生了精液。驱逐水道与恶念,愿肿胀与风,这一切,远去。

19.85

इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥ १९.८५ ॥

善护者因陀罗以心产生真实;萨维特里以布罗达莎产生了它。伐楼那治疗时,以风之器皿,不伤害肝脏与脾脏,肾脏与胆汁。

19.86

आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥ १९.८६ ॥

肠子如烹煮之锅,充满蜂蜜;肛门如器皿,如易挤奶的母牛。脾脏如鹰之翼,以其力量;臀、脐与腹如母亲。

19.87

कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो ऽ अन्तः ।
प्लाशिर् व्यक्तः शतधार ऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥ १९.८७ ॥

瓮,最为可爱,以其力量为生者,其中前方子宫内有胎儿。叶片显现,百流之泉,如瓮,为祖先挤出斯瓦陀。

19.88

मुखꣳ सद् अस्य शिर ऽ इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।
चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥ १९.८८ ॥

其口即真实,其首实由真实而成,其舌为净化者;双马童与萨罗私瓦蒂成为其肢体。其肛门如厕板,其尾毛为医者;如膀胱,阴茎以力而强健。

19.89

अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन ।
पक्ष्माणि गोधूमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥ १९.८९ ॥

双马童以热杯赋其眼以不死;以山羊赋光辉,以煮熟之供物赋光辉。以小麦成睫毛,以枣实成眼睑上部;明亮与暗黑,如形相般装饰之。

19.90

अविर् न मेषो नसि वीर्याय प्राणस्य पन्था ऽ अमृतो ग्रहाभ्याम् ।
सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥ १९.९० ॥

如羊群中的公羊,其在鼻孔中以得力量;生气的不死之道由热杯而来。从萨罗私瓦蒂的上瓦卡生出遍行之气(vyāna);以枣实,供祭草生出鼻孔。

19.91

इन्द्रस्य रूपं वृषभो बलाय कर्णाभ्याꣳ श्रोत्रम् अमृतं ग्रहाभ्यां ।
यवा न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥ १९.९१ ॥

因陀罗之形,公牛以为力量;双耳得不死之听,由热杯而来。如大麦,供祭草成为眉上之毛;从枣树(karkandhu)口中生出甜美之蜜(sārgha)。

19.92

आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
केशा न शीर्षन् यशसे श्रियै शिखा सिꣳहस्य लोम त्विषिर् इन्द्रियाणि ॥ १९.९२ ॥

身体的腹部如狼毛,面上的胡须如虎毛。头上的发为荣耀与吉祥;狮毛的发髻,光辉与诸根。

19.93

अङ्गान्य् आत्मन् भिषजा तद् अश्विनात्मानम् अङ्गैः सम् अधात् सरस्वती ।
इन्द्रस्य रूपꣳ शतमानम् आयुश् चन्द्रेण ज्योतिर् अमृतं दधानाः ॥ १९.९३ ॥

双医圣马(Aśvin)为肢体与自我作此事;萨罗室伐蒂使自我与肢体相合。持因陀罗之形、百岁之寿、与月同辉,并持不死。

19.94

सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपाꣳ रसेन वरुणो न साम्नेन्द्रꣳ श्रियै जनयन्न् अप्सु राजा ॥ १९.९४ ॥

萨罗室伐蒂在胎宫内怀持胎儿;双医圣马之妻持守善作。以水之汁,如伐楼那以歌咏,为吉祥而生因陀罗,水中之王。

19.95

तेजः पशूनाꣳ हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् अमृतः सोम ऽ इन्दुः ॥ १९.९५ ॥

牲畜之光,具诸根之供物,以乳与甘蜜环洒。为双医圣马而挤取,与萨罗室伐蒂同为医者——为压榨与未压榨者。不死的苏摩,一滴。