Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

33.1

अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ ३३.१ ॥

此屋不老的、如舵手般的火焰闪耀;冒烟、净化的火焰,白色光辉,迅疾,躁动,栖于林中,如风,如苏摩之滴。

33.2

हरयो धूमकेतवो वातजूता ऽ उप द्यवि ।
यतन्ते वृथग् अग्नयः ॥ ३३.२ ॥

如黄马般的、以烟为旗的、被风驱动的火焰升向天空;各自的火焰奋力向上。

33.3

यजा नो मित्रावरुणा यजा देवाꣳ २ऽ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥ ३३.३ ॥

为我们祭祀密多罗与伐楼那;祭祀诸神与大理(ṛta)。阿耆尼啊,祭祀你自己的居所。

33.4

युक्ष्वा हि देवहूतमाꣳ२ऽ अश्वाꣳ२ऽ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥ ३३.४ ॥

阿耆尼啊,如御者般驾上诸神最常召请的骏马。祭司(Hotṛ)、古老者,请就座于你的座位。

33.5

द्वे विरूपे चरतः स्वर्थे ऽ अन्यान्या वत्सम् उप धापयेते ।
हरिर् अन्यस्यां भवति स्वधावाञ्छुक्रो ऽ अन्यस्यां ददृशे सुवर्चाः ॥ ३३.५ ॥

两个形态不同者为同一目的而行;彼此在对方处为小牛哺乳。一者中是拥有祭供(svadhā)的黄色哈利(Hari);另一者中可见明亮的舒克拉(Śukra)、光辉灿烂者。

33.6

अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥ ३३.६ ॥

此处由诸持者(Dhātṛ)设立了第一位祭司(Hotṛ),在祭祀中最值得供养与赞颂;阿普纳瓦纳与婆利古在林中使其光明闪耀——那奇妙、遍在者,为每一族而设。

33.7

त्रीणि शता त्री सहस्राण्य् अग्निं त्रिꣳशच् च देवा नव चासपर्यन् ।
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा ऽ आद् इद् होतारं न्य् असादयन्त ॥ ३३.७ ॥

三百、三千和三十三位神明供奉阿耆尼。他们以酥油洒浇,为他铺设吉祥草,然后请出祭司荷塔。

33.8

मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
कविꣳ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ ३३.८ ॥

阿耆尼是天之首、地之主,是在秩序(ṛta)中生出的毗湿伐那罗。他是智者、君王、众民之客;诸神使他生成,如口中的器皿。

33.9

अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया ।
समिद्धः शुक्र ऽ आहुतः ॥ ३३.९ ॥

愿阿耆尼击退障碍,以值得赞颂的言辞求取财富。被点燃、光明,供奉于火中。

33.10

विश्वेभिः सोम्यं मध्व् अग्न ऽ इन्द्रेण वायुना ।
पिबा मित्रस्य धामभिः ॥ ३३.१० ॥

啊阿耆尼,与诸神、因陀罗和风神一同,通过弥陀罗的住所,饮用甜美的苏摩汁。

33.11

आ यद् इषे नृपतिं तेज ऽ आनट् शुचि रेतो निषिक्तं द्यौर् अभीके ।
अग्निः शर्धम् अनवद्यं युवानꣳ स्वाध्यं जनयत् सूदयच् च ॥ ३३.११ ॥

当光辉为了食物而进入人主,纯净的种子倾注于天空近处时,阿耆尼生出无瑕、年轻、得到良好滋养的力量,并加以养育。

33.12

अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यꣳ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाꣳसि ॥ ३३.१२ ॥

啊,阿耆尼!愿你最高的光辉带来大福。使家庭的主权处于良好的掌控之中,并凌驾于那些意欲加害于我们者的强大力量之上。

33.13

त्वाꣳ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने ।
इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥ ३३.१३ ॥

啊,阿耆尼,最令人欢悦者!我们以颂歌之焰崇敬你;请听我们伟大的赞颂。正如最强有力的人使因陀罗欢喜,诸神也以力量和布施使你与风神得到满足。

33.14

त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् ॥ ३३.१४ ॥

啊,阿耆尼,被良好献祭者!愿施主们因你而可爱。愿那些统御众人、慷慨的人守护牛栏。

33.15

श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम् ॥ ३३.१५ ॥

啊,阿耆尼,有警觉之耳者!请与同行的承载祭品的诸神一同聆听。愿密特拉与阿里耶曼于清晨前来,在祭祀中坐于圣草之上。

33.16

विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् ।
अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥ ३३.१६ ॥

阿耆尼,诸可祭神的阿底提,诸人的客人,寻求诸神之恩的迦陀吠陀,愿他对我们极为慈悲。

33.17

महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे ॥ ३३.१७ ॥

愿我们在伟大而燃烧的阿耆尼的庇护下无罪;在密特拉与伐楼那的福祉中。愿我们处于萨维特里最善的推动之中;今日我们选择诸神的那份护佑。

33.18

आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र ।
याहि वायुर् न नियुतो नो ऽ अच्छा त्वꣳ हि धीभिर् दयसे वि वाजान् ॥ ३३.१८ ॥

水流滋长,如同未孕的母牛;愿颂歌者抵达秩序(ṛta)。因陀罗啊,如风一般带着你的驭马来到我们这里;你正是借慧心而分配力量的。

33.19

गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥ ३३.१९ ॥

诸牛啊,前来守护伟大的祭祀,你们是赐予甘露的;二者都有金色的耳朵。

33.20

यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा ।
सुवाति सविता भगः ॥ ३३.२० ॥

今日太阳升起之时,愿我们无罪;密特拉与阿利耶曼推动,萨维特里与婆伽亦然。

33.21

आ सुते सिञ्चत श्रियꣳ रोदस्योर् अभिश्रियम् ।
रसा दधीत वृषभम् ॥ ३३.२१ ॥

请在压榨的苏摩中注入此处的光辉,即两界的璀璨荣耀;愿汁液承载公牛(因陀罗)。

33.22

आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः ।
महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ ॥ ३३.२२ ॥

凡站立于上者,众皆庄严之;披着光华,自身发光,他游行。伟大的,正是这强大阿修罗之名;具万形者立于不死者之中。

33.23

प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे ।
इन्द्रस्य यस्य सुमखꣳ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ ३३.२३ ॥

为令人欢悦的大苏摩酒,向毗奢那罗与毗舍补唱赞歌。天地侍奉因陀罗,他的祭祀善良,力量、光荣与男子气概伟大。

33.24

बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः ।
येषाम् इन्द्रो युवा सखा ॥ ३३.२४ ॥

他们的燃薪巨大,赞颂丰盛宏亮;他们的青年朋友是因陀罗。

33.25

इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।
महाꣳ२ऽ अभिष्टिर् ओजसा ॥ ३३.२५ ॥

因陀罗啊,来吧,与一切苏摩段落一同在此苏摩酒中欢喜;伟大的助手,以威力而来。

33.26

इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः ।
अहन् व्यꣳसम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम् ॥ ३३.२६ ॥

因陀罗包围了弗栗多,率领带来力量的军队;他以毁灭之力粉碎了狡诈者。在林中,他杀死了因渴望而燃烧的毗yam娑,并为可爱者显现了声音。

33.27

कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था ।
सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे ।
महाꣳ२ऽ इन्द्रो य ऽ ओजसा ।
कदा चन स्तरीर् असि ।
कदा चन प्र युच्छसि ॥ ३३.२७ ॥

因陀罗啊,你如此伟大,为何独自前往,善之主啊?为何这样问你?在战斗中共同作战的你,请说出光辉的话语;褐色马之主啊,告诉我们你为我们所有的。以威力伟大的因陀罗,从不贫瘠,也从不退缩。

33.28

आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्वं ये पुरुपुत्रां महीꣳ सहस्रधारां बृहतीं दुदुक्षन् ॥ ३३.२८ ॥

因陀罗的随从赞颂你,那些渴望到达牛群丰盈之圈的人,那些渴望一次挤出那广大、多子、有千流的(乳汁)的人。

33.29

इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे ।
तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥ ३३.२९ ॥

因陀罗啊,为你我奉上这广大而深远的思想;这智慧在此颂中为你而装饰。诸神以其力量,在庆典与激发之中,使那位胜利的因陀罗欢喜。

33.30

विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् ।
वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ ३३.३० ॥

愿那位伟大、广放光明的神饮用甘美的苏摩,赐予祭主以不偏离的寿命。被风所推动的他,亲自保护众生,以多种方式滋养他们,并且光辉照耀。

33.31

उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यꣳ स्वाहा ॥ ३३.३१ ॥

光线升起并承载那位知悉一切的神——太阳,使一切众生得以见之。斯瓦哈。

33.32

येना पावक चक्षसा भुरण्यन्तं जनाꣳ२ऽ अनु ।
त्वं वरुण पश्यसि ॥ ३३.३२ ॥

啊,净化者!你以那只注视着不安地行走于众人之间者的眼睛——正是以此眼,啊伐楼那,你看见。

33.33

दैव्याव् अध्वर्यू ऽ आ गतꣳ रथेन सूर्यत्वचा ।
मध्वा यज्ञꣳ सम् अञ्जाथे ।
तं प्रत्नथा । अयं वेनः। चित्रं देवानाम् ।
अयं वेनः ।
चित्रम् देवानाम् ॥ ३३.३३ ॥

神圣的祭司们啊,乘着如太阳般光辉的车来到这里;用蜜装饰祭祀。让他按古老的方式前来。这位韦那,在诸神中奇妙非凡。这位韦那,在诸神中奇妙非凡。

33.34

आ न ऽ इडाभिर् विदथे सुशस्ति विश्वानरः सविता देव ऽ एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥ ३३.३४ ॥

愿属于众人的神萨维特里以伊达的赞颂供物和美好的赞歌来到我们的祭会。如同年轻人一般你使我们欢喜;愿你以智慧为了护佑整个世界而使我们欢喜。

33.35

यद् अद्य कच् च वृत्रहन्न् उदगा ऽ अभि सूर्य ।
सर्वं तद् इन्द्र ते वशे ॥ ३३.३५ ॥

斩杀弗栗多者啊,凡今日你太阳所升起照耀的一切——因陀罗啊,那一切都在你的掌控之中。

33.36

तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
विश्वम् आ भासि रोचनम् ॥ ३३.३६ ॥

你是迅捷的横渡者,为一切所见,造光者,太阳啊。你照耀整个光明的世界。

33.37

तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततꣳ सं जभार ।
यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥ ३३.३७ ॥

太阳的那神性、那伟大——在中间,他收拢了造物主展开的光辉。当他从共同的座位上套上绿色的马匹时,夜便为他展开一件衣裳。

33.38

तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे ।
अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥ ३३.३८ ॥

为了让弥多罗与伐楼那得以看见,太阳在天空的怀抱中显现其形。他的一道光明无限而明亮,另一道则是黑暗的;棕黄色的骏马共同承载着他。

33.39

बण् महाꣳ२ऽ असि सूर्य बड् आदित्य महाꣳ२ऽ असि ।
महस् ते सतो महिमा पनस्यते द्धा देव महाꣳ२ऽ असि ॥ ३३.३९ ॥

啊太阳,你伟大;啊阿底提亚,你广大而伟大。你真实存在的光荣被颂扬;啊神,你伟大。

33.40

बट् सूर्य श्रवसा महाꣳ२ऽ असि सत्रा देव महाꣳ२ऽ असि ।
मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥ ३३.४० ॥

啊太阳,你因名声而伟大;啊神,你确实伟大。凭借你的伟大,你是诸神中的力量之主与首席祭司;你是遍布一切、不可侵犯的光明。

33.41

श्रायन्त ऽ इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।
वसूनि जाते जनमान ऽ ओजसा प्रति भागं न दीधिम ॥ ३३.४१ ॥

视太阳如同已经烹熟,愿诸神都享用因陀罗的份额。我们生而创造财富,凭借力量,并不为自己的份额而留下任何东西作为回报。

33.42

अद्या देवा ऽ उदिता सूर्यस्य निर् अꣳहसः पिपृता निर् अवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥ ३३.४२ ॥

啊诸神,今日太阳升起之时,请引领我们渡过苦难,将我们带出指责。愿弥多罗与伐楼那、阿底提、河流、大地与天空为我们赐予此福。

33.43

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ ३३.४३ ॥

在黑暗的空界中运行,使不死者与必死者各归其位,天神萨维塔乘金车而来,观望诸世界。

33.44

प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट ऽ इयाते ।
विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ ३३.४४ ॥

为他们铺设了便于靠近的吉祥草席;二位迅捷者如部族之主而来。在黎明女神乌莎的第一次呼唤下,风神与普善偕马驾前来赐福。

33.45

इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
आदित्यान् मारुतं गणम् ॥ ३३.४५ ॥

因陀罗-风神、布利哈斯帕提、弥陀罗-阿耆尼、普善、薄伽,以及诸阿底提耶与摩录多众。

33.46

वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः ।
करतां नः सुराधसः ॥ ३३.४६ ॥

愿伐楼那为我们的守护者,弥陀罗以一切护佑同在;愿二神使我们获得丰厚的善财。

33.47

अधि न इन्द्रेषां विष्णो सजात्यानाम् ।
इता मरुतो ऽ अश्विना ।
ओमासश् चर्षणीधृतः ॥ ३३.४७ ॥

因陀罗啊,请在这些同族中来到我们这里;毗湿奴啊,请来。诸摩录多、双马童啊,请来。护佑者、扶持众人者,请来。

33.48

अग्न ऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
उभा नासत्या रुद्रो ऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ ३३.४८ ॥

阿耆尼、因陀罗、伐楼那、弥陀罗,诸神啊,与摩录多之众一同前来;毗湿奴啊,愿双马童、楼陀罗、诸女神、普善、薄伽与萨罗室伐蒂皆得欢喜。

33.49

इन्द्राग्नी मित्रावरुणादितिꣳ स्वः पृथिवीं द्यां मरुतः पर्वताꣳ२ऽ अपः ।
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शꣳसꣳ सवितारमूतये ॥ ३३.४९ ॥

我呼唤因陀罗与阿耆尼、密多罗与伐楼那、阿底提、天界(svaḥ)、大地(pṛthivī)、天空(dyau)、摩录多、山岳与水。现在赞颂毗湿奴、普山、梵天主、婆伽之后,我为求助而呼唤萨维特利。

33.50

अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शꣳसते स्तुवते धायि पज्र ऽ इन्द्रज्येष्ठा ऽ अस्माꣳ२ऽ अवन्तु देवाः ॥ ३३.५० ॥

愿楼陀罗诸神与如山岳般强健的神明,在诛杀弗栗多及为求财富而召唤的战斗中与我们同心欢喜。愿以因陀罗为长的诸神,即驻于赞颂者与歌唱者之中的神明,护佑我们。

33.51

अर्वाञ्चो ऽ अद्या भवता यजत्रा ऽ आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥ ३३.५१ ॥

值得祭祀的诸神啊,今日请转向我们。愿我因恐惧,不要在心中与你们相离。诸神啊,请保护我们免受狼的毁灭;值得祭祀的诸神啊,请保护我们免于陷坑与坠落。

33.52

विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥ ३३.५२ ॥

愿今日诸摩录多凭助力而来,愿诸阿耆尼皆燃烧旺盛。愿诸神以恩惠来到我们这里;愿我们得到一切财富与力量。

33.53

विश्वे देवाः शृणुतेमꣳ हवं मे ये ऽ अन्तरिक्षे य ऽ उप द्यवि ष्ठ ।
ये ऽ अग्निजिह्वा ऽ उत वा यजत्रा ऽ आसद्यास्मिन् बर्हिषि मादयध्वम् ॥ ३३.५३ ॥

诸位毗首天神啊,请听我的这一召唤!你们居于虚空之中,立于天界之上,以火为舌,值得供奉,请坐于此吉祥草上,尽情欢喜吧。

33.54

देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वꣳ सुवसि भागम् उत्तमम् ।
आद् इद् दामानꣳ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥ ३३.५४ ॥

因为你先将不死的至高之分赐予值得祭祀的诸神;然后,萨维特里啊,你解开束缚,为凡人依次展开生命。

33.55

प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारꣳ रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥ ३३.५५ ॥

愿我的伟大思想奔向伐由,奔向那赐予众人所求、充满战车的大宝藏者。啊,天空光明的主宰,迅马之主,先知,值得供奉者,你愿意礼敬这位先知。

33.56

इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ॥ ३३.५६ ॥

啊因陀罗与伐由,这些压榨好的苏摩已备好;携你们的欢愉前来吧。苏摩之滴确实渴望你们二位。

33.57

मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीꣳ साधन्ता ॥ ३३.५७ ॥

我召唤纯净力量的弥多罗,也召唤摧毁敌人的伐楼拿;成就那充满酥油的思想,前来吧。

33.58

दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
आ यातꣳ रुद्रवर्तनी ॥ ३३.५८ ॥

啊奇妙、年轻而热切的无死双神,苏摩已压榨;你们二位割取吉祥草者,请来此处。啊,行走于楼陀罗之道者,前来吧。

33.59

विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यꣳ सध्र्यक् कः ।
अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवं प्रथमा जानती गात् ॥ ३३.५९ ॥

当萨拉玛发现从岩石断裂之物时,谁能共同获得伟大的古老道路?朝向音节的善步之声,首先知晓的她引导前行而去。

33.60

नहि स्पशम् अविदन्न् अन्यम् अस्माद् वैश्वानरात् पुर ऽ एतारम् अग्नेः ।
एम् एनम् अवृधन्न् अमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥ ३३.६० ॥

他们没有找到比这位毗湿伐那罗阿耆尼更能前行的别的探子。不死的诸神培育了这位不死的毗湿伐那罗,以征服领土。

33.61

उग्रा विघनिना मृध ऽ इन्द्राग्नी हवामहे ।
ता नो मृडात ऽ ईदृशे ॥ ३३.६१ ॥

我们呼唤猛烈的因陀罗与阿耆尼,这两位击杀敌人者。愿这二者在此情形下对我们施以恩惠。

33.62

उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवाꣳ२ऽ इयक्षते ॥ ३३.६२ ॥

诸位人们,请在这位清净的因都(苏摩)身旁歌唱,他愿向诸神行祭。

33.63

ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।
ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमꣳ सगणो मरुद्भिः ॥ ३३.६३ ॥

你在诛杀阿希、与商跋罗之战以及寻觅牛群时受到他们的增强,如今灵感充盈的智者们也与你同乐——因陀罗啊,请与你的随从和诸摩录多一同饮用苏摩。

33.64

जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः ।
अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥ ३३.६४ ॥

你生来猛烈,为力量与疾速而生;欢悦、最为强健、极其骄傲。在此,玛鲁特神增强了因陀罗,当最富有的母亲孕育英雄之时。

33.65

आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि ।
महान् महीभिर् ऊतिभिः ॥ ३३.६५ ॥

因陀罗,杀伐弗栗多者,请到我们这边来。伟大的你,带着伟大的庇护而来。

33.66

त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः ।
अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥ ३३.६६ ॥

因陀罗,你在竞争中胜过所有对手。你是消除敌意者、创造者、战胜一切者;你也是奋斗者的胜利。

33.67

अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा ।
विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥ ३३.६७ ॥

随着你迅猛的力量,两个大地追随而行,如同两位母亲追随幼儿。因陀罗,当你战胜弗栗多时,你所有的敌人都在你的怒火中被摧毁。

33.68

यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् ॥ ३३.६८ ॥

诸神的祭祀走向恩惠。阿底提亚们,请慈悲吧。愿你们的善意转向我们,愿那能救人脱离苦难、最为慷慨的女神与我们同在。

33.69

अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥ ३३.६९ ॥

萨维特里啊,以不坏的、吉祥的护佑,今日完全守护我们的家园。金舌之神啊,为了新的福祉保护我们;愿恶语者不得统治我们。

33.70

प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः ।
वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥ ३३.७० ॥

纯净、甘甜、压榨的苏摩已由祭司们为你们二位高高举起。风神啊,带来你的驾车之马,靠近前来,为欢欣而饮压榨的苏摩汁。

33.71

गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥ ३३.७१ ॥

母牛啊,靠近并降临,你们是祭祀中伟大的仪式滴液的赐予者;愿双耳皆为金色。

33.72

काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे ।
रिशादसा सधस्थ ऽ आ ॥ ३३.७२ ॥

在智者的诞生之中,在力量与技艺的居所之中——诸位灭敌者啊,请来到这共同的座位上。

33.73

दैव्याव् अध्वर्यू आ गतꣳ रथेन सूर्यत्वचा ।
मध्वा यज्ञꣳ सम् अञ्जाथे ॥ ३३.७३ ॥

神圣的祭司啊,你们肤如太阳,乘车而来,以蜂蜜共同涂抹祭祀。

33.74

तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् ।
रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात् ॥ ३३.७४ ॥

它们那倾斜伸展的绳索——它在下面,还是在上面?有承载种子者,有伟大者;自力在下,驱动在上。

33.75

आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् ।
सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥ ३३.७५ ॥

他充满天地,充满伟大的天光。作为生而伟大者,行事之人承托了他;他被引绕于祭祀之中,作为先知,如疾驰之马为赢得财富而行,被置于喜悦之中。

33.76

उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा ।
आङ्गूषैर् आविवासतः ॥ ३३.७६ ॥

以赞颂(ukthā)之声,你们是诛灭弗栗多最强者,因喜悦而以颂词来此,以歌唱受到尊崇。

33.77

उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये ।
सुमृडीका भवन्तु नः ॥ ३३.७७ ॥

愿不死之子近前聆听我们的赞歌;愿他们对我们慈善。

33.78

ब्रह्माणि मे मतयः शꣳ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः ।
आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ ॥ ३३.७८ ॥

我的祈祷与思念,令人欢喜的压榨苏摩,唤起力量的石块,已被奉上。他们赞颂;以这些赞诵作为回报,他们所期盼的;愿那两匹赤褐骏马把我们带到这里。

33.79

अनुत्तमा ते मघवन् नकिर् नु न त्वावाꣳ२ऽ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ ३३.७९ ॥

摩ghavan,你的卓越无与伦比;没有神如你,也无人如此知晓;无论生者或将生者,都不能及你。增上者啊,请行你将要行的事业。

33.80

तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥ ३३.८० ॥

那是诸世界中最为殊胜者,由此诞生了猛烈而具炽热力量的神;他一出生便立即摧毁敌人,随他之后,一切助者皆欢喜。

33.81

इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥ ३३.८१ ॥

多财的阿耆尼啊,愿我这些颂歌增长你的力量。如净火般光明、纯洁而智慧的人,以赞歌颂扬你。

33.82

यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः ।
तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः ॥ ३३.८२ ॥

凡此一切雅利安人、仆役、宝藏守护者与敌人皆属于他,即使对光辉的雅利安人,这财富也为你而被驱动。

33.83

अयꣳ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे ।
सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ ३३.८३ ॥

此物千倍增长,由先知们强化,如大海般展开。其伟大是真实的;在祭祀中、在智者的王国里,我颂扬它的力量。

33.84

अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥ ३३.८४ ॥

萨维特里啊,今日以你不衰的吉祥护佑,从四周守护我们的家。金舌者啊,为新的福祉而守护我们;愿恶语者不得统治我们。

33.85

आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्र ऽ उपरि श्रीणानो ऽयꣳ शुक्रो ऽ अयामि ते ॥ ३३.८५ ॥

风神啊,带着善念来到触及天空的我们的祭祀。在纯净的滤器之内与之上,混合的这明亮的苏摩,我献给你。

33.86

इन्द्रवायू सुसंदृशा सुहवेह हवामहे ।
यथा नः सर्व ऽ इज् जनो ऽनमीवः संगमे सुमना ऽ असत् ॥ ३३.८६ ॥

因陀罗与风神啊,外貌俊美、易于召请的你们,我们在此召请你们,愿我们所有的人无病,并在集会中心怀善意。

33.87

ऋधग् इत्था स मर्त्यः शशमे देवतातये ।
यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये ॥ ३३.८७ ॥

如此,凡人为诸神的侍奉而恰当地努力;他现在为求助而呼请密多罗与伐楼那,并邀请他们来接受祭品。

33.88

आ यातम् उप भूषतं मध्वः पिबतम् अश्विना ।
दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥ ३३.८८ ॥

双马神啊,请来吧,装饰(祭祀),饮用甘露。雄健、胜利、富有的双马神啊,请饮用挤出的乳汁;不要伤害我们,请来此处。

33.89

प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ ३३.८९ ॥

愿祷言之主前进,愿神圣的真言来临。诸神啊,请将我们的祭祀引向那位勇敢、有益于众人、施予班次之礼的施主。

33.90

चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि ।
रयिं पिशंगं बहुलं पुरुस्पृहꣳ हरिर् एति कनिक्रदत् ॥ ३३.९० ॥

月亮在水中;美翼之鸟奔驰于天空。黄褐色的、丰饶的、众人所渴求的财富,哈里一边鸣叫一边来到。

33.91

देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये ।
देवं-देवꣳ हुवेम वाजसातये गृणन्तो देव्या धिया ॥ ३३.९१ ॥

为了你们的庇护,我们呼请每一位神;为了援助,呼请每一位神;为了获得力量,呼请每一位神;以神圣的思想赞颂,我们呼请这位神。

33.92

दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् ।
क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥ ३३.९२ ॥

安放于天的吠舍婆罗·阿耆尼光辉照耀,伟大。在地上以力量增长,为喜悦而设置,他以光明驱散黑暗。

33.93

इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः ।
हित्वी शिरो जिह्वया वावदच् चरत् त्रिꣳशत् पदा न्य् अक्रमीत् ॥ ३३.९३ ॥

因陀罗与阿耆尼:这第一个无足者,来到有足者之中。舍弃其头,以舌言说而行;以三十步向下迈进。

33.94

देवासो हि ष्मा मनवे समन्यवो विश्वे साकꣳ सरातयः ।
ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ ३३.९४ ॥

诸神确实对摩奴同样热忱,众人一同慷慨。愿他们今日属于我们;此后为我们的保护,也愿他们属于我们;愿他们成为得财者。

33.95

अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् ।
देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ ३३.९५ ॥

因陀罗驱除了谴责;灭除咒诅的因陀罗变得光耀。因陀罗啊,诸神为你的友谊而努力;大光者啊,摩录多众啊。

33.96

प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रꣳ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥ ३३.९६ ॥

摩录多啊,为伟大的因陀罗高声吟唱你们的神圣颂词。杀除弗栗多的、拥有百种力量的因陀罗,以百节金刚杵击打弗栗多。

33.97

अस्येद् इन्द्रो वावृधे वृष्ण्यꣳ शवो मदे सुतस्य विष्णवि ।
अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥ ३३.९७ ॥

在这压榨的苏摩的欢悦中,因陀罗增长了如公牛般的雄力。毗湿奴啊,今日人们如往昔一样赞颂他那伟大。