Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

17.1

अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् ऽ अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतं पयः ।
तां न ऽ इषमूर्जं धत्त मरुतः सꣳरराणाः ।
ऽ अश्मꣳस् ते क्षुत् ।
मयि त ऊर्क् ।
यं द्विष्मस् तं ते शुग् ऋच्छतु ॥ १७.१ ॥

山上石中所蓄之精华,由水、草药与树木汇聚而成的乳汁——诸位摩噜多神啊,请赐予我们那食物与力量。此石即是你们的食物。你们的精华在我之中。愿你们的忧伤降临于我们所憎恨之人。

17.2

इमा मे ऽ अग्न ऽ इष्टका धेनवः सन्त्व् एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदꣳ समुद्रश् च मध्यं चान्तश् च परार्धश् चैता मे ऽ अग्न इष्टका धेनवः सन्त्व् अमुत्रामुष्मिंल् लोके ॥ १७.२ ॥

哦,阿耆尼,愿我这些砖成为乳牛——一、十、十、百、百、千、千、万、万、十万、十万、百万、千万、亿、阿浮陀、尼浮陀、海、中、终、最高数。哦,阿耆尼,愿我这些砖在彼世、在那个世界成为乳牛。

17.3

ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः ।
घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः ॥ १७.३ ॥

你们是季节,是增进天道秩序者;你们立于季节之中,是增进秩序者。滴落酥油者,滴落蜂蜜者,名为毗罗阇者,挤取愿望者,不朽者。

17.4

समुद्रस्य त्वावकयाग्ने परि व्ययामसि ।
पावको ऽ अस्मभ्यꣳ शिवो भव ॥ १७.४ ॥

以海水环绕你,哦,阿耆尼。愿你成为净化者,为我们带来吉祥。

17.5

हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।
पावको ऽ अस्मभ्यꣳ शिवो भव ॥ १७.५ ॥

阿耆尼啊,我们以雪的胎膜环绕你。净化者啊,为我们降下吉祥吧。

17.6

उप ज्मन्न् उप वेतसेऽव तर नदीष्व् आ ।
अग्ने पित्तम् अपाम् असि ।
मण्डूकि ताभिर् आ गहि सेमं नो यज्ञं पावकवर्णꣳ शिवं कृधि ॥ १७.६ ॥

降临大地近旁、芦苇近旁,没入河流之中。阿耆尼啊,你是诸水的精华。青蛙啊,与它们一同来此,使我们这祭祀具净化之色且吉祥。

17.7

अपाम् इदं न्ययनꣳ समुद्रस्य निवेशनम् ।
अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥ १७.७ ॥

此乃诸水的栖息之所,大海的居处。愿你的箭矢灼烧他者,远离我们。净化者啊,为我们降下吉祥吧。

17.8

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान् वक्षि यक्षि च ॥ १७.८ ॥

阿耆尼啊,净化者,以光辉与甘美之舌,神啊,请将诸神引来并加以礼敬。

17.9

स नः पावक दीदिवो ग्ने देवाꣳ ऽ इहा वह ।
उप यज्ञꣳ हविश् च नः ॥ १७.९ ॥

愿你为我们,净化者、光耀的阿耆尼,将诸神引来,靠近我们的祭祀与供品。

17.10

पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच ऽ उषसो न भानुना ।
तूर्वन् न यामन्न् एतशस्य नू रण ऽ आ यो घृणे न ततृषाणो ऽ अजरः ॥ १७.१० ॥

以净化而光照之辉,照亮大地的,如黎明之光以其明亮;如疾行者之途中的胜者,今乃欢喜;火焰啊,如渴者般不老。

17.11

नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।
अन्याꣳस् ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥ १७.११ ॥

向你的火焰致敬,向你的光辉致敬。愿你的箭矢灼烧他人而非我们;净化之火啊,愿你对我们吉祥。

17.12

नृषदे वेट् ।
अप्सुषदे वेट् ।
बर्हिषदे वेट् ।
वनसदे वेट् ।
स्वर्विदे वेट् ॥ १७.१२ ॥

向坐于人间者献“伐”(vaṭ)。向坐于水中者献“伐”。向坐于吉祥草上者献“伐”。向坐于林中者献“伐”。向获得天界光明者献“伐”。

17.13

ये देवा देवानां यज्ञिया यज्ञियानाꣳ संवत्सरीणम् उप भागम् आसते ।
अहुतादो हविषो यज्ञे ऽ अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥ १७.१३ ॥

愿诸神中值得祭祀者,在年度分份旁就座者,在此祭中自己饮用蜜与酥油。

17.14

ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो ऽ अस्य ।
येभ्यो न ऽ ऋते पवते धाम किं चन न ते दिवो न पृथिव्या ऽ अधि स्नुषु ॥ १७.१४ ॥

诸神中获得神性者,在此梵之前行者,无之则任何居所皆不得净化——他们既不在天界的高峰,也不在大地的高峰。

17.15

प्राणदा ऽ अपानदा व्यानदा वर्चोदा वरिवोदाः ।
अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥ १७.१५ ॥

赐予气息者,赐予呼气者,赐予遍行之气者,赐予光辉者,赐予财富者——愿你的箭矢灼烧他人而非我们;净化之火啊,愿你对我们吉祥。

17.16

अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।
अग्निर् नो वनते रयिम् ॥ १७.१६ ॥

愿阿耆尼以锐利的火焰降伏一切吞噬者。愿阿耆尼为我们赢得财富。

17.17

य ऽ इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः ।
स ऽ आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराꣳ ऽ आ विवेश ॥ १७.१७ ॥

他作为先知、祭司和我们的父亲,向这一切世界献祭而安坐;他怀着渴望寻求财富,作为第一层覆盖进入低等生灵之中。

17.18

किꣳ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।
यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥ १७.१८ ॥

什么是基础,什么是开始的根源,它是怎样的?那从中造出大地、以其伟大展开天空的一切造作者,那全视者。

17.19

विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव ऽ एकः ॥ १७.१९ ॥

眼睛在四方,面孔在四方,手臂在四方,双足在四方;这唯一的神以双臂吹动,以羽翼生出天与地。

17.20

किꣳ स्विद् वनं क ऽ उ स वृक्ष ऽ आस यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥ १७.२० ॥

那是什么森林,什么树木,天地由此雕刻而成?诸位智者,请以心去问:谁持载一切世界而立于其上?

17.21

या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।
शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ १७.२१ ॥

啊,毗湿伐迦尔曼!你的至高、最低与中间的居所,以及这些,啊,具有 svadhā 者,请把份额赐予你的朋友们于供物中;你自己以增长己身来献祭。

17.22

विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।
मुह्यन्त्व् अन्ये ऽ अभितो सपत्ना ऽ इहास्माकं मघवा सूरिर् अस्तु ॥ १७.२२ ॥

啊,毗湿伐迦尔曼!借供物增长的你,请亲自向大地与天空献祭;让其他敌对者四面迷惑,愿这里为我们有一位慷慨的施主。

17.23

वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥ १७.२३ ॥

今日在力量的竞赛中,让我们呼唤言语之主、如意念般迅捷的毗湿伐迦尔曼以求庇护;愿他悦纳我们一切的呼唤,作为万福之施予者、善行者,前来相助。

17.24

विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥ १७.२४ ॥

啊,毗湿伐迦尔曼!你以供物与增益使护佑者因陀罗不可被杀;在他面前,众多古老的民众一同俯首;愿这位威猛者值得被呼唤。

17.25

चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने ।
यदेद् अन्ता ऽ अददृहन्त पूर्व ऽ आद् इद् द्यावापृथिवी ऽ अप्रथेताम् ॥ १७.२५ ॥

眼之父、以心智确实智慧的(生主),在这两个俯伏者之中生出了酥油;当先前的边际被坚固之时,天与地便得以展开。

17.26

विश्वकर्मा विमना ऽ आद् विहाया धाता विधाता परमोत संदृक् ।
तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर ऽ एकम् आहुः ॥ १७.२६ ॥

广心的维什伐卡尔曼,随后是毗诃耶斯、建立者、安排者、至上者、遍见者。他们所愿的供物与鼓舞一同欢喜,在那里他们称七仙之外的那一个。

17.27

यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा ऽ एक ऽ एव तꣳ संप्रश्नं भुवना यन्त्य् अन्या ॥ १७.२७ ॥

他是我们的父亲与生者,安排者,知晓一切世界的居所,唯一赋予诸神名号者——关于他,诸世界带着疑问去问别人。

17.28

त ऽ आयजन्त द्रविणꣳ सम् अस्मा ऽ ऋषयः पूर्वे जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥ १७.२८ ॥

那些古代仙人为他以财富献祭,如同众多的赞颂者;他们安住于未显与已显之域,创造了这些众生。

17.29

परो दिवा पर ऽ एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति ।
कꣳ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे ॥ १७.२९ ॥

天界之外、此地之外、诸神与阿修罗之外,有何物存在?谁先在水中承载了胎藏,古代诸神在那里看见了它?

17.30

तम् इद् गर्भं प्रथमं दध्र ऽ आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ १७.३० ॥

那第一胎藏由水承载,诸神在那里汇聚;在不生者的脐上固定着一物,诸世界都立于其中。

17.31

न तं विदाथ य ऽ इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप ऽ उक्थशासश् चरन्ति ॥ १७.३१ ॥

你们不知道产生这一切的那一位;你们之间已生出了别的东西。被雾气笼罩、喃喃低语、养护气息的颂诗诵者四处行走。

17.32

विश्वकर्मा ह्य् अजनिष्ट देव ऽ आद् इद् गन्धर्वो ऽ अभवद् द्वितीयः ।
तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधात् पुरुत्रा ॥ १७.३२ ॥

神毗首羯摩已诞生;随后他成为第二位,即乾闼婆。第三位是生育草药的父亲;他将水的胎藏安置于many处。

17.33

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनोऽनिमिष ऽ एकवीरः शतꣳ सेना ऽ अजयत् साकम् इन्द्रः ॥ १७.३३ ॥

迅捷、磨砺、如公牛般可畏,击碎诸击者,搅动众民,咆哮,目不瞬,独一英雄因陀罗一并战胜百支军队。

17.34

संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ १७.३४ ॥

与咆哮者、目不瞬者、胜利者、呼战者、不动摇者、勇敢者因陀罗一同,征服它;共同承受它。诸位男子,手持箭矢,与壮健者同行。

17.35

स ऽ इषुहस्तैः स निषङ्गिभिर् वशी सꣳस्रष्टा स युध ऽ इन्द्रो गणेन ।
सꣳसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥ १७.३५ ॥

他手持箭矢,佩带箭囊,是掌控者、连结战斗者;他就是因陀罗及其部众。征服联合之敌,饮苏摩,臂力强大,持猛烈之弓,发射搭好之箭。

17.36

बृहस्पते परि दीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः ।
प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥ १७.३६ ॥

啊,布利哈斯帕蒂,罗刹的杀者,乘车四处巡行,驱逐敌人。摧破军队,在战斗中取胜,做我们战车的守护者。

17.37

बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽ उग्रः ।
अभिवीरो ऽ अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ १७.३७ ॥

知晓力量者,坚定的大英雄,强健迅捷,胜利而猛烈,征服英雄者,生于力量:啊因陀罗,登上胜利的战车,赢得牛群者。

17.38

गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।
इमꣳ सजाता ऽ अनु वीरयध्वम् इन्द्रꣳ सखायो ऽ अनु सꣳ रभध्वम् ॥ १७.३८ ॥

摧破牛栏,寻得牛群,手持金刚,在战场上征服,以力量碾碎:随从此因陀罗吧,啊同族们,以英雄之心为他鼓劲。啊朋友们,与因陀罗同心努力吧。

17.39

अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकꣳ सेना अवतु प्र युत्सु ॥ १७.३९ ॥

以力冲入牛群的无畏英雄,具百怒的因陀罗;不可撼动,征服军队,不可攻破,愿他在战斗中护佑我们的军队。

17.40

इन्द्र ऽ आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर ऽ एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्त्व् अग्रम् ॥ १७.४० ॥

愿因陀罗为其首领,布利哈斯帕蒂、施礼与祭祀;愿苏摩走在前面。在那打破阵线、征服胜利的诸神之军前面,愿摩如特们前行。

17.41

इन्द्रस्य वृष्णो वरुणस्य राज्ञ ऽ आदित्यानां मरुताꣳ शर्ध ऽ उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥ १७.४१ ॥

因陀罗、雄健的王婆罗那、阿底提亚与摩录多的猛烈军队;大心、震动世界、得胜诸神的呼声升起了。

17.42

उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनाꣳसि ।
उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥ १७.४२ ॥

慷慨者啊,唤起武器吧;让我的战士们的心志振奋。杀死弗栗多者啊,愿勇士的力量、战车与得胜者的呼声升起!

17.43

अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या ऽ इषवस् ता जयन्तु ।
अस्माकं वीरा ऽ उत्तरे भवन्त्व् अस्माꣳऽ उ देवा ऽ अवता हवेषु ॥ १७.४३ ॥

愿因陀罗在聚集的战斗中站在我们的旗帜上;愿我们的箭取得胜利。愿我们的勇士居上;诸神啊,在呼唤中保护我们。

17.44

अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।
अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥ १७.४४ ॥

迷乱他们的心志,抓住他们的肢体;黑暗(女神)啊,前来。向前去,以忧愁焚烧他们的心;愿敌人与盲目和黑暗相连。

17.45

अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते ।
गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥ १७.४५ ॥

被射出者啊,远远飞去;以梵咒磨砺的战箭啊。去往敌人那里,扑向他们;不要留下他们中的任何一个。

17.46

प्रेता जयता नर ऽ इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥ १७.४६ ॥

前进吧,诸位男子,去获取胜利。愿因陀罗赐你们庇护。愿你们的臂膀强劲,使你们不可战胜。

17.47

असौ या सेना मरुतः परेषाम् अभ्येति न ऽ ओजसा स्पर्धमाना ।
तां गूहत तमसापव्रतेन यथामी ऽ अन्यो ऽ अन्यं न जानन् ॥ १७.४७ ॥

诸位摩录多,那支敌人的军队以力量与我们争锋而来——愿你们以黑暗遮蔽它,使他们彼此不能相识。

17.48

यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव ।
तन्न ऽ इन्द्रो बृहस्पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ १७.४८ ॥

箭矢如少年般齐飞之处,愿因陀罗、布里哈斯帕蒂与阿底提赐予我们庇护;愿他们日日赐予庇护。

17.49

मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् ।
उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ १७.४९ ॥

我以铠甲覆盖你的要害。愿国王苏摩以不死为你披上衣裳。愿伐楼那使你的胸膛更加宽广。愿诸神与胜利的你同乐。

17.50

उद् एनम् उत्तरां नयाग्ने घृतेनाहुत ।
रायस्पोषेण सꣳ सृज प्रजया च बहुं कृधि ॥ १७.५० ॥

阿耆尼啊,以酥油奉献的你,请将他引向更高的世界。以财富的滋养与他相合,并以子嗣使他繁盛。

17.51

इन्द्रेमं प्रतरां नय सजातानाम् असद्वशी ।
सम् एनं वर्चसा सृज देवानां भागदा ऽ असत् ॥ १७.५१ ॥

因陀罗啊,请将他引领得更远。愿他在同族中成为主宰。以光辉与他相合;愿他成为诸神的分享者。

17.52

यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् ।
तस्मै देवा ऽ अधि ब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥ १७.५२ ॥

阿耆尼啊,在他家中我们献上供品,请使他增长。诸神为他说话,这位梵主也为他说。

17.53

उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।
स नो बह्व शिवस् त्वꣳ सुप्रतीको विभावसुः ॥ १७.५३ ॥

阿耆尼啊,愿诸神以砖块将你高举。愿你对我们十分吉祥,面容秀美,富有光明的财富。

17.54

पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः ।
रायस्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे ऽ अधि यज्ञो ऽ अस्थात् ॥ १७.५४ ॥

愿五个神圣的方位守护祭祀;诸女神驱除水的恶意与邪念,使祭主在财富增长中有份;祭祀在财富增长中得以确立。

17.55

समिद्धे ऽ अग्नाव् अधि मामहान ऽ उक्थपत्र ऽ ईड्यो गृभीतः ।
तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अयजन्त देवाः ॥ १७.५५ ॥

当阿耆尼燃烧得旺盛时,愿那位以诵唱的颂歌为器、值得赞美、被取用的伟大者立于火上。取了烧热的酥酪,诸神以力量举行祭祀。

17.56

दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः ।
परिगृह्य देवा यज्ञम् आयन् देवा देवेभ्यो ऽ अध्वर्यन्तो ऽ अस्थुः ॥ १७.५६ ॥

为神圣的承载者、令人欢喜者、神圣的光辉、心意光荣、百流之器。诸神取之而来到祭祀中;为诸神而成为祭司,他们站立。

17.57

वीतꣳ हविः शमितꣳ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यम् एति ।
ततो वाका ऽ आशिषो नो जुषन्ताम् ॥ १७.५७ ॥

供品已被接受并完成;祭主已将其完成。第四个祭祀抵达供品所往之处。愿言语与祝福使我们欢喜。

17.58

सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाꣳऽ अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥ १७.५८ ॥

太阳之光,发色金黄,在东方;鼓动者萨维特里不断升起光明。在他的推动下,智者普善行进,如守护者般注视一切世界。

17.59

विमान ऽ एष दिवो मध्य ऽ आस्त ऽ आपप्रिवान् रोदसी ऽ अन्तरिक्षम् ।
स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥ १७.५९ ॥

这位丈量天空者立于天之中央,充满两界与中界。他望向一切方向,望向流淌酥油的方位,在东西之间,作为光明的标志。

17.60

उक्षा समुद्रो ऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आ विवेश ।
मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥ १७.६० ॥

公牛、海洋、赤红的美翼之鸟,进入了先前父亲的子宫。安置于天空中央的斑点之石迈出脚步,守护空气的两端。

17.61

इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ १७.६१ ॥

一切颂歌都赞美因陀罗,他广阔如海;在车主之中最富于车乘,是力量的真正主宰,主。

17.62

देवहूर् यज्ञ ऽ आ च वक्षत् सुम्नहूर् यज्ञ ऽ आ च वक्षत् ।
यक्षद् अग्निर् देवो देवाꣳऽ आ च वक्षत् ॥ १७.६२ ॥

愿召请诸神的祭祀将他们带到此处;愿召请福惠的祭祀将他们带到此处。愿神祇阿耆尼献祭,并将诸神带到此处。

17.63

वाजस्य मा प्रसव ऽ उद्ग्राभेणोद् अग्रभीत् ।
अध सपत्नान् इन्द्रो मे निग्राभेणाधराꣳऽ अकः ॥ १७.६३ ॥

在力量的驱动中,他以向上的抓握将我举起。然后因陀罗为我以向下的抓握使我的敌人低伏。

17.64

उद्ग्राभं च निग्राभं च ब्रह्म देवा ऽ अवीवृधन् ।
अधा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥ १७.६४ ॥

向上的抓握与向下的抓握,神圣的祷词,诸神使之增盛。愿因陀罗与阿耆尼将我的敌人驱散。

17.65

क्रमध्वम् अग्निना नाकम् उख्यꣳ हस्तेषु बिभ्रतः ।
दिवस् पृष्ठꣳ स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥ १७.६५ ॥

与阿耆尼一同向天堂迈进,手持火器。抵达天界、登上天穹之背后,与诸神相会。

17.66

प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो ऽ अग्निर् भवेह ।
विश्वा ऽ आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ १७.६६ ॥

循东方之道而行,凭智慧前进。啊阿耆尼,愿阿耆尼在此居前。照耀四方,放射光明;为我们的两足与四足众生安立活力。

17.67

पृथिव्या ऽ अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।
दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥ १७.६७ ॥

我从大地升至虚空,从虚空升至天界。从天穹的背脊,我抵达了天界之光。

17.68

स्वर् यन्तो नापेक्षन्त ऽ आ द्याꣳ रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारꣳ सुविद्वाꣳसो वितेनिरे ॥ १७.६८ ॥

going toward heaven 不迟疑;他们升上天空,两界也升起。善知能从四面支撑的祭祀者,已将其铺展开来。

17.69

अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् ।
इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥ १७.६९ ॥

啊,阿耆尼,前行吧,作为寻求诸神者中的首位,成为诸神与凡人之眼。愿欲行祭的施主与婆利古们和谐同行,安然升往天界。

17.70

नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची ।
द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥ १७.७० ॥

夜与晨,心意相同而形貌各异,共同哺育一个孩子。天地之间,金色者光辉闪耀;施财的诸神执持了阿耆尼。

17.71

अग्ने सहस्राक्ष शतमूर्धञ् छतं ते प्राणाः सहस्रं व्यानाः ।
त्वꣳ साहस्रस्य राय ऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥ १७.७१ ॥

啊,阿耆尼,千目百首者!你有百种生气,千种遍气。你主宰千倍的财富;我们为力量而献给你、献给他。斯瓦哈。

17.72

सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।
भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश ऽ उद् दृꣳह ॥ १७.७२ ॥

你是有美丽双翼的金翅鸟,请坐在大地的背上。以光明充满虚空,以光辉托住天空,以威光使四方坚固。

17.73

आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने योनिम् आ सीद साधुया ।
अस्मिन्त्सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥ १७.७३ ॥

被召唤的、面容美好的阿耆尼啊,请从东方端正地坐于你的座位。愿诸神与祭主都坐在这高处的座位上。

17.74

तꣳ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् ।
याम् अस्य कण्वो अदुहत् प्रपीनाꣳ सहस्रधारां पयसा महीं गाम् ॥ १७.७४ ॥

我选择那可敬的萨维德里所赐的奇妙、属于万民的善意,那是迦那从这满乳、千流的大母牛中挤出如乳的善意。

17.75

विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।
यस्माद् योनेर् उदारिथा यजे तं प्र त्वे हवीꣳषि जुहुरे समिद्धे ॥ १७.७५ ॥

阿耆尼啊,愿我们在你至高的诞生处敬拜你,在低处以赞歌敬拜你。愿我们祭祀你所从中升起的那源头;在你熊熊燃起时,供物已被献入。

17.76

प्रेद्धो ऽ अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।
त्वाꣳ शश्वन्त ऽ उप यन्ति वाजाः ॥ १७.७६ ॥

阿耆尼啊,你已燃起,请以不竭的火焰在我们面前照耀,最年轻者啊。众多的力量与福利常常来到你这里。

17.77

अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् ।
ऋध्यामा त ऽ ओहैः ॥ १७.७७ ॥

阿耆尼啊,今日我们以赞歌使你强健,如骏马,如吉祥而触动人心的祭力。愿我们因你的呼唤而兴旺。

17.78

चित्तिं जुहोमि मनसा घृतेन यथा देवा ऽ इहागमन् वीतिहोत्रा ऽ ऋतावृधः ।
पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यꣳ हवि ॥ १७.७८ ॥

我以心意与酥油向祭坛之火(Citti)供奉,如同接受供物、增益天序的诸神来到此处。我向一切之主、伟大的毗首羯摩永远供奉不欺之供品。

17.79

सप्त ते ऽ अग्ने समिधः सप्त जिह्वाः सप्त ऽ ऋषयः सप्त धाम प्रियाणि ।
सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्व घृतेन स्वाहा ॥ १७.७९ ॥

阿耆尼啊,你有七根柴薪、七条舌头、七位仙人、七处所爱之居所。七位祭司以七种方式礼敬你。请以酥油充满七个胎藏。斯瓦哈。

17.80

शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च ।
शुक्रश् च ऽ ऋतपाश् चात्यꣳहाः ॥ १७.८० ॥

阿耆尼的诸形:光明之光、奇妙之光、真实之光与光耀者,明亮者与守护秩序者,以及超越苦难者。

17.81

ईदृङ् चान्यदृङ् च सदृङ् च प्रतिसदृङ् च ।
मितश् च संमितश् च सभराः ॥ १७.८१ ॥

阿耆尼的诸形:如此者与异此者,同类者与对立者,有度者与善有度者,以及承载一切者。

17.82

ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च ।
धर्ता च विधर्ता च विधारयः ॥ १७.८२ ॥

阿耆尼的诸形:天序与真实,坚固者与支持者,承载者与维持者,以及保持者。

17.83

ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् च ।
अन्तिमित्रश् च दूरेऽअमित्रश् च गणः ॥ १७.८३ ॥

Ṛtajit与Satyajit,Senajit与Suṣeṇa,Antimitra与Dūre-amitra,以及众(gaṇa)。

17.84

ईदृक्षास ऽ एतादृक्षास ऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षास ऽ एतन ।
मितासश् च संमितासो नो ऽ अद्य सभरसो मरुतो यज्ञे ऽ अस्मिन् ॥ १७.८४ ॥

你们这般模样者,你们这般模样者,确实与我们相似、相当的模样者,请来吧。Mita与Saṃmita,今天在这次祭祀中,Sabhara诸Marut。

17.85

स्वतवाꣳश् च प्रघासी च सांतपनश् च गृहमेधी च ।
क्रीडी च शाकी चोज्जेषी ॥ १७.८५ ॥

Svatavān与Praghāsī,Sāṃtapana与Gṛhamedhī,Krīḍī与Śākī,以及Ujjeṣī。

17.86

उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ।
इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् ।
एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥ १७.८६ ॥

猛烈而可怖者,遮暗者与震动者,克胜者、攻击者或驱散者,svāhā!如诸神之族与Marut成为因陀罗的追随者,诸神之族与Marut成为因陀罗的追随者。愿神圣与人类之族都追随此祭主。

17.87

इमꣳ स्तनमूर्जस्वन्तं धयापां प्रपीनम् अग्ने सरिरस्य मध्ये ।
उत्सं जुषस्व मधुमन्तम् अर्वन्त् समुद्रियꣳ सदनम् आ विशस्व ॥ १७.८७ ॥

阿耆尼啊,请饮用这充满养分、盈满水分的乳房,它在大海中央。接受甘甜迅疾的源泉。进入海洋的座位。

17.88

घृतं मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम ।
अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ १७.८८ ॥

酥油被洒下;它的源头是酥油,它依于酥油,它的居所是酥油。啊,公牛,依次序带来供物,使自己欢喜,并运送以svāhā供奉的祭品。

17.89

समुद्राद् ऊर्मिर् मधुमाꣳऽ उद् आरद् उपाꣳशुना सम् अमृतत्वम् आनट् ।
घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥ १७.८९ ॥

从大海中升起甘美的波浪;与upāṃśu一起,它获得不死。酥油的秘密之名是诸神的舌头,不死的中心。

17.90

वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥ १७.९० ॥

我们宣说酥油之名,在此祭祀中以敬礼持守它。愿梵师近旁听到所诵之咒;四角的黄褐色公牛吼叫此声。

17.91

चत्वारि शृङ्गा त्रयो ऽ अस्य पादा द्वे शीर्षे सप्त हस्तासो ऽ अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ ऽ आ विवेश ॥ १७.९१ ॥

它有四角、三足、两首、七手。被三重束缚的公牛吼叫;伟大的神已进入凡人之中。

17.92

त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् ।
इन्द्र ऽ एकꣳ सूर्य ऽ एकं जजान वेनाद् एकꣳ स्वधया निष्टतक्षुः ॥ १७.९२ ॥

三重安放、被波尼所隐藏的酥油,诸神在母牛中找到了它。因陀罗生出一份,太阳生出一份;由吠那造出一份,以自我力量(svadhā)制成一份。

17.93

एता ऽअर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्य ऽ आसाम् ॥ १७.९३ ॥

它们从心脏、从海洋流出,循百路而行,敌人无法看见。我看见酥油的河流;在它们中央有金色的芦苇。

17.94

सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
एते ऽ अर्षन्त्य् ऊर्मयो घृतस्य मृगा ऽइव क्षिपणोर् ईषमाणाः ॥ १७.९४ ॥

如河流一般,溪流顺畅地流淌,在心与意中得到净化。这些酥油的波浪流动,如迅捷奔跑的鹿群。

17.95

सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा ऽ अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥ १७.९५ ॥

如同远方道路上的河流,迅捷的鼻者被风推动,以巨大速度飞驰。酥油之流,如红色的骏马,以波浪劈开木材,涌动向前。

17.96

अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽ अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ १७.९६ ॥

如女子们结伴而行,美好而微笑,她们流向阿耆尼。酥油之流抵达柴薪;喜悦地接受它们,遍知者(Jātavedas)欢喜。

17.97

कन्या ऽइव वहतुम् एतवा ऽ उ ऽ अञ्ज्य् अञ्जाना ऽ अभि चाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा ऽ अभि तत् पवन्ते ॥ १७.९७ ॥

如少女赴婚礼行列,我以油膏涂身而观望它。在压榨苏摩之处,在祭祀之处,酥油的溪流向它奔涌。

17.98

अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥ १७.९८ ॥

奔向美好的赞歌,奔向争夺牛群的竞赛。赐予我们吉祥的财富。诸神啊,引导我们的这场祭祀;甘美的酥油溪流奔涌。

17.99

धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्यन्तर् आयुषि ।
अपाम् अनीके समिथे य ऽ आभृतस् तम् अश्याम मधुमन्तं त ऽ ऊर्मिम् ॥ १७.९९ ॥

在你的居所中,整个世界依托:在海洋之中,在心中,在生命之中。在众水之前、在集会之中,愿我们获得被带来的那一位,以及你甘美的波浪。