Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.1

दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥ १२.१ ॥

他以金色光辉照耀广阔的大地,为荣耀而闪耀,拥有不可战胜的生命。当善种的天空生下他时,火神凭借其生命之力而成为不朽者。

12.2

नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची ।
द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥ १२.२ ॥

夜与晨曦,心志相同而形貌各异,共同哺育同一个婴孩。金色者在天地之间闪耀;施予财富的诸神持护火神。

12.3

विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति ॥ १२.३ ॥

睿智的萨维特里取得一切形态;他为两足与四足之物激发了吉祥。可尊敬的萨维特里显示了天界;他在黎明的行程之后放光。

12.4

सुपर्णोऽसि गरुत्माꣳस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ ।
स्तोम ऽ आत्मा छन्दाꣳस्य् अङ्गानि यजूꣳषि नाम ।
साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः ।
सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत ॥ १२.४ ॥

你是善翼者、有翼者;三重是你的头,伽耶特里是你的眼,大与列车是你的双翼。赞颂是你的自我,韵律是你的肢体,祭文是你的名号。歌咏是你的身躯,婆摩提婆与祭祀祭祀是你的尾,迪希尼亚之处是你的蹄。你是善翼者、有翼者;升往天界,飞向天国。

12.5

विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व ॥ १२.५ ॥

你是毗湿奴的步伐,斩杀敌对者。登上伽耶特利韵律;踏上大地。你是毗湿奴的步伐,斩杀骄慢者。登上特里斯图布韵律;踏上虚空。你是毗湿奴的步伐,斩杀仇敌。登上耆伽提韵律;踏上天空。你是毗湿奴的步伐,斩杀敌人。登上阿努什图布韵律;踏上四方。

12.6

अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ १२.६ ॥

阿耆尼如雷鸣之天般咆哮,舔舐大地的草木并为之涂油。他即刻诞生,被点燃而显现;以其光辉照耀于天地之间。

12.7

अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन ।
सन्या मेधया रय्या पोषेण ॥ १२.७ ॥

啊阿耆尼,转向我并使我回归;赐予长寿、光辉、子嗣与财富;赐予利益、智慧、财物与滋养。

12.8

अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः ।
अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि ॥ १२.८ ॥

啊,阿耆尼,啊,安吉罗娑!愿你有百条、千条归返之路。然后以养分之养分,将我们失去的归还我们;再为我们带回财富。

12.9

पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा ।
पुनर् नः पाह्य् अꣳहसः ॥ १२.९ ॥

再以力量回来;啊,阿耆尼,再以滋养与寿命回来。再次保护我们免于苦难。

12.10

सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥ १२.१० ॥

与财富一同归来;啊,阿耆尼,以流水充满我们。以养育万物的流水,从四面八方充满我们。

12.11

आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः ।
विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥ १२.११ ॥

我将你带来;你在中间变得坚固。坚定不移地站立。愿众人都向往你;愿国家不因你而倾覆。

12.12

उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमꣳ श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो ऽ अदितये स्याम ॥ १२.१२ ॥

啊,伐树那,请解开我们身上最高、最低和中间的绳索。然后,啊,阿底提亚,愿我们在你的誓愿中无罪,归属于阿底提。

12.13

अग्रे बृहन्न् उषसामूर्ध्वो ऽ अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।
अग्निर् भानुना रुशता स्वङ्ग ऽ आ जातो विश्वा सद्मान्य् अप्राः ॥ १२.१३ ॥

在黎明之前,伟大的阿耆尼挺立升起;他从黑暗中走出,带着光明而来。四肢俊美的阿耆尼,以闪耀的光辉诞生,充满一切居所。

12.14

हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा अद्रिजा ऽ ऋतम् बृहत् ॥ १२.१४ ॥

天鹅,安坐于纯净之中,光明者,安坐于虚空之中,祭司,安坐于祭坛之上,客人,安坐于家中,安坐于人群之中,安坐于尊位,安坐于宇宙秩序之中,安坐于天空,生于水中,生于牛中,生于宇宙秩序,生于石中,广大的宇宙秩序。

12.15

सीद त्वं मातुर् अस्या ऽ उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् ।
मैनां तपसा मार्चिषाऽभिशोचीर् अन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥ १२.१५ ॥

啊,阿耆尼,坐于此母之怀中,通晓一切智慧。不要以热力与火焰焚烧她;在她之内,以明亮的光辉照耀吧。

12.16

अन्तर् अग्ने रुचा त्वम् उखायाः सदने स्वे ।
तस्यास् त्वꣳ हरसा तपन् जातवेदः शिवो भव ॥ १२.१६ ॥

啊,阿耆尼,在你自己的座位——火钵之内,以光辉照耀。啊,遍知者,以它的热力燃烧,成为吉祥。

12.17

शिवो भूत्वा मह्यम् अग्नेऽ अथो सीद शिवस् त्वम् ।
शिवः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥ १२.१७ ॥

啊,阿耆尼,为我成为吉祥并坐下。成为吉祥,使一切方位吉祥,在此坐于你自己的座位上。

12.18

दिवस् परि प्रथमं जज्ञे ऽ अग्निर् अस्माद् द्वितीयं परि जातवेदाः ।
तृतीयम् अप्सु नृमणा ऽ अजस्रम् इन्धान ऽ एनं जरते स्वाधीः ॥ १२.१८ ॥

第一个阿耆尼生于天界;第二个由此而生,即遍知者。第三个在水中,使人喜悦,不断燃烧;善思者赞颂他。

12.19

विद्मा ते ऽ अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत ऽ आजगन्थ ॥ १२.१९ ॥

啊,阿耆尼,我们以三种方式认识你;我们认识你分布于多处的三处居所。我们认识你隐藏的至高名号。我们认识你从中而来的源头。

12.20

समुद्रे त्वा नृमणा ऽ अप्स्व् अन्तर् नृचक्षा ऽ ईधे दिवो अग्न ऽ ऊधन् ।
तृतीये त्वा रजसि तस्थिवाꣳसम् अपाम् उपस्थे महिषा ऽ अवर्धन् ॥ १२.२० ॥

在海洋之中、水之内,观察人类的人心之神点燃了你,啊阿耆尼,在天空的乳房处。站立于第三界的你,被强大者在水之怀中培育。

12.21

अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ १२.२१ ॥

阿耆尼如雷鸣之天般咆哮。舔舐大地的藤蔓,以香膏涂抹它们,他立即诞生、被点燃,以光明照view两界,并在内里闪耀。

12.22

श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो ऽ अप्सु राजा वि भात्य् अग्र ऽ उषसाम् इधानः ॥ १२.२२ ॥

在光辉中慷慨,财富的支柱,思想的赐予者,苏摩的守护者,明亮者,力量之子,水中之王;在晨光之前点燃而闪耀。

12.23

विश्वस्य केतुर् भुवनस्य गर्भऽ आ रोदसी ऽ अपृणाज् जायमानः ।
वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥ १२.२३ ॥

万物的旗帜阿耆尼在世界的胎中诞生,充满了天与地。当五族人祭祀阿耆尼时,他们前进并劈开了坚硬的岩石。

12.24

उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो नि धायि ।
इयर्ति धूमम् अरुषं भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥ १२.२४ ॥

渴望的、净化的、迅捷的、有善慧的不死阿耆尼被安置在凡人之中。他带着赤红的烟,以明亮的火焰触及天空而前行。

12.25

दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥ १२.२५ ॥

金色而可见的他照耀在广阔的大地上;为了不可战胜的生命与荣光而光辉闪耀,阿耆尼带着力量成为不死者,当善种子的天空生育他时。

12.26

यस् ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तम् अग्ने ।
प्र तं नय प्रतरं वस्यो ऽ अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ १२.२६ ॥

吉祥火焰的阿耆尼啊,神啊,最年轻者!今日为你制作富含酥油之饼的人,请引导他前往更多的财富,走向诸神所分享的恩惠。

12.27

आ तं भज सौश्रवसेष्व् अग्न ऽ उक्थ ऽ उक्थ ऽ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो ऽ अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥ १२.२७ ॥

阿耆尼啊,请使他分享那闻名的布施;在每次赞颂诵唱时,赐予他一份。他成为太阳所爱,与阿耆尼一同被爱;生而即起,借由生育而破开而上升。

12.28

त्वाम् अग्ने यजमाना ऽ अनु द्यून् विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ १२.२८ ॥

阿耆尼啊,祭主日复一日将一切财富与可欲之物托付于你。与你一同祈求财富,热切的祭司打开了充满牛群的牛栏。

12.29

अस्ताव्य् अग्निर् नराꣳ सुशेवो वैश्वानर ऽ ऋषिभिः सोमगोपाः ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥ १२.२९ ॥

维首瓦纳拉阿耆尼,慈惠世人,守护苏摩,为诸仙所赞颂。让我们无怨地呼唤天与地。诸神啊,请赐予我们富有英勇子嗣的财富。

12.30

समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥ १२.३० ॥

以薪柴供奉阿耆尼;以酥油唤醒客人阿耆尼。在此向他献上祭品。

12.31

उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।
स नो भव शिवस् त्वꣳ सुप्रतीको विभावसुः ॥ १२.३१ ॥

阿耆尼啊,愿诸神以其心意将你高举。请对我们吉祥,容颜俊美,拥有光耀的财富。

12.32

प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।
बृहद्भिर् भानुभिर् भासन् मा हिꣳसीस् तन्वा प्रजाः ॥ १२.३२ ॥

阿耆尼啊,请以吉祥的火焰光明地前行。以巨大的光芒照耀,不要以你的身体(火焰)伤害众生。

12.33

अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ १२.३३ ॥

愿阿耆尼如雷鸣的天空般咆哮,舔舐并涂抹大地的草木。他刚一诞生、被点燃,便以光芒照耀天地两界,由内而外地闪耀。

12.34

प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।
अभि यः पूरुं पृतनासु तस्थउ दीदाय दैव्यो ऽ अतिथिः शिवो नः ॥ १२.३४ ॥

此阿耆尼在婆罗多族中一再被颂扬,当他如太阳般以伟大的光芒照耀之时。在战斗中站在普鲁身旁的那位神圣客人,为我们闪耀出吉祥的光辉。

12.35

आपो देवीः प्रति गृभ्णीत भस्मैतत् स्योने कृणुध्वꣳ सुरभा ऽ उ लोके ।
तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रं बिभृताप्स्व् एनत् ॥ १२.३५ ॥

神圣的水啊,接受这灰烬吧;使它在世间令人愉悦而芬芳。愿拥有良夫的妇人向他俯首;如母亲抱持儿子,请在水中承载它。

12.36

अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे ।
गर्भै सन् जायसे पुनः ॥ १२.३६ ॥

阿耆尼啊,你与水同居;随草木而生长。你以胚胎之形存在,又再度诞生。

12.37

गर्भोऽअस्य् ओषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्याग्ने गर्भोऽअपाम् असि ॥ १२.३७ ॥

你是草木之胎,是树木之胎。阿耆尼啊,你是一切众生之胎;你也是水之胎。

12.38

प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।
सꣳसृज्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥ १२.३८ ॥

啊阿耆尼,你与灰烬一同安坐于水与地之处,与诸母相合,光明充盈,再度就座。

12.39

पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।
शेषे मातुर् यथोपस्थे ऽन्तर् अस्याꣳ शिवतमः ॥ १२.३९ ॥

啊阿耆尼,你再度坐于座位,在水与地之中,如在母亲膝上,于其内最为吉祥而安歇。

12.40

पुनर् ऊर्जा निवर्तस्व पुनर् अग्न ऽ इषायुषा ।
पुनर् नः पाह्य् अꣳहसः ॥ १२.४० ॥

啊阿耆尼,以力量再度返回;以食物与寿命再度归来;再度保护我们免于苦难。

12.41

सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥ १२.४१ ॥

啊阿耆尼,与财富一同返回;啊阿耆尼,以你的流水滋养;以一切养分从四面充满。

12.42

बोधा मे ऽ अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो ऽ अनु त्वो गृणाति वन्दारुष् टे तन्वं वन्दे ऽ अग्ने ॥ १२.४२ ॥

啊最年少者、具足svadhā者,请留意我这来自最丰厚供物的言语;一人伤害,一人赞颂;啊阿耆尼,我作为礼拜者,礼敬你的身体。

12.43

स बोधि सूरिर् मघवा वसुपते वसुदावन् ।
युयोध्य् अस्मद् द्वेषाꣳसि ।
विश्वकर्मणे स्वाहा ॥ १२.४३ ॥

愿你觉醒,作为智者与慷慨者;啊财富之主,啊赐财者,把仇恨从我们这里驱除;向毗首羯摩献上svāhā。

12.44

पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धतां पुनर् ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥ १२.४४ ॥

愿阿提耶、楼陀罗与婆苏再次共同点燃你。啊,财富的引导者,愿婆罗门以祭祀再次点燃你。以酥油使你的身体增长;愿施祭者的愿望成真。

12.45

अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः ।
अदाद् यमो ऽवसानं पृथिव्या ऽ अक्रन्न् इमं पितरो लोकम् अस्मै ॥ १२.४५ ॥

离开,退去,从此处散开,你们这里的古老者和新来者。阎摩在大地上赐予了安息之所;祖先们为他造了这个世界。

12.46

संज्ञानम् असि ।
कामधरणम् ।
मयि ते कामधरणं भूयात् ।
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ।
चित स्थ परिचित ऽ ऊर्ध्वचितः श्रयध्वम् ॥ १२.४६ ॥

你是和合。持愿。愿你的持愿在我之中。你是阿耆尼的灰烬;你是阿耆尼的余烬。你们是垒起的、善垒的、向上垒起的;(砖块啊)依靠吧。

12.47

अयꣳ सो ऽ अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजम् अत्यं न सप्तिꣳ ससवान्त् सन्त् स्तूयसे जातवेदः ॥ १२.४७ ॥

这就是那位阿耆尼,因陀罗热切地将压榨好的苏摩置于他的腹中。如千力之骏马,饮罢,啊,遍知者,你被赞颂。

12.48

अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र ।
येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥ १२.४८ ॥

阿耆尼啊,你在天上、在地上、在草木与水中的光辉,值得祭祀者啊,你借此展开了广阔的虚空。那炽燃、流动、注视人类的光明,正是他。

12.49

अग्ने दिवोऽ अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऽ ऊचिषे धिष्ण्या ये ।
या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त ऽ आपः ॥ १२.४९ ॥

阿耆尼啊,你走向天之洪流,走向众神,你带来闪耀的座位(dhiṣṇya)——那些在太阳之上与之下的;还有那在上在下驻立的水。

12.50

पुरीष्यासो ऽ अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञम् अद्रुहोऽनमीवा ऽइषो महीः ॥ १२.५० ॥

愿滋养的诸火与压榨石同心,享受祭祀——无敌意、无疾病的伟大食物。

12.51

इडाम् अग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ १२.५१ ॥

阿耆尼啊,为呼唤你的人成就那多功的伊达(祭品),以及牛群最长久的利益。愿我们有子嗣与后裔;阿耆尼啊,愿你的善意向着我们。

12.52

अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आ रोहाथा नो वर्धया रयिम् ॥ १२.५२ ॥

这是你与时节相合的胎藏,你从此诞生而光耀。阿耆尼啊,知晓此处后便升起,为我们增添财富。

12.53

चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ १२.५३ ॥

你是基石(cit);与那位神一起,如同安吉罗斯,稳固地坐下。你是环绕的基石(paricit);与那位神一起,如同安吉罗斯,稳固地坐下。

12.54

लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥ १२.५४ ॥

充满此处,填补缝隙;然后稳固地坐下。因陀罗与阿耆尼,以及布利哈斯帕提,将你安置在这子宫(yoni)之中。

12.55

ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥ १२.५५ ॥

它那产奶的斑点母牛调和苏摩;在诸神诞生之时,在天空的三重光明之中,是他们的族类。

12.56

इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ १२.५६ ॥

一切颂歌都增益了如海洋般广阔的因陀罗;他是战车手中最优秀的战车手,是力量的真正主宰,是主。

12.57

समितꣳ सं कल्पेथाꣳ सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।
इषमूर्जम् अभि संवसानौ ॥ १२.५७ ॥

愿你们二者一同被使之适合、相合;彼此相爱,光辉照耀,心意欢喜,披覆食物与力量。

12.58

सं वां मनाꣳसि सं व्रता सम् उ चित्तान्य् आकरम् ।
अग्ने पुरीष्याधिपा भव त्वं न ऽ इषमूर्जं यजमानाय धेहि ॥ १२.५८ ॥

我将你们二者的心意、誓愿与思想聚合在一起。圆满的阿耆尼啊,愿你成为我们的主宰;赐予供养者食物与力量。

12.59

अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाꣳ२ ऽ असि ।
शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥ १२.५९ ॥

阿耆尼啊,你是富足、丰饶的 purīṣya。使一切方位吉祥之后,请在你自己的位置上就座于此。

12.60

भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥ १२.६० ॥

愿你们二者对我们同心同意、同一觉识、无有过失。哦,知生者(Jātavedas),不要伤害祭祀和祭主;今日请对我们吉祥。

12.61

मातेव पुत्रं पृथिवी पुरीष्यम् अग्निꣳ स्वे योनाव् अभार् उखा ।
तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥ १२.६१ ॥

如同母亲怀抱儿子,大地在自己的胎中承载了生于大地的阿耆尼。愿与一切天神和季节相协的生主维什瓦卡尔曼释放那个乌卡(ukhā)。

12.62

असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्याम् अन्व् इहि तस्करस्य ।
अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥ १२.६२ ॥

去寻找那个不榨苏摩、不行祭祀的人;追随盗贼的道路,走强盗的路径。去寻找别人,而不是我们;那条路属于你。向你致敬,女神尼尔利提。

12.63

नमः सु ते निर्ऋते तिग्मतेजो ऽयस्मयं वि चृता बन्धम् एतम् ।
यमेन त्वं यम्या संविदानोत्तमे नाके ऽ अधि रोहयैनम् ॥ १२.६३ ॥

向你致以敬意,尖锐光焰的尼尔利提。请解开这铁制的束缚;与阎摩和阎蜜相协,将他升至最高的天界。

12.64

यस्यास् ते घोर ऽ आसन् जुहोम्य् एषां बन्धानाम् अवसर्जनाय ।
यां त्वा जनो भूमिर् इति प्रमन्दते निर्ऋतिं त्वाहं परि वेद विश्वतः ॥ १२.६४ ॥

其形可怖者,我为解除这些束缚而献祭。人们欢呼称之为“大地”的尼哩底,我从各方面都熟知。

12.65

यं ते देवी निर्ऋतिर् आबबन्ध पाशं ग्रीवास्व् अविचृत्यम् ।
तं ते वि ष्याम्य् आयुषो न मध्याद् अथैतं पितुम् अद्धि प्रसूतः ।
नमो भूत्यै येदं चकार ॥ १२.६५ ॥

女神尼哩底缚在你颈上、无法解开的索套,我为你解开——不在你寿命的中途。然后被驱使而进食此食物。向行此事的薄提致敬。

12.66

निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे शचीभिः ।
देव ऽ इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥ १२.६६ ॥

赐予安息、聚集诸婆苏者,以其力量观见一切形相。如法真实的萨维特里神,如因陀罗,他在诸道路的战斗中屹立不动。

12.67

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नया ॥ १२.६७ ॥

智者们套上犁,分别展开轭;坚定者在诸神之间如此行,以求其恩惠。

12.68

युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात् ॥ १२.६८ ॥

套上犁,展开轭;在此已备好的田中播种。以歌与迅速的应答,愿我们的收成丰盛;愿镰刀及时抵达近旁成熟的谷物。

12.69

शुनꣳ सु फाला वि कृषन्तु भूमिꣳ शुनं कीनाशा ऽ अभि यन्तु वाहैः ।
शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे ॥ १२.६९ ॥

愿吉祥的犁铧善耕大地;愿农夫与牲畜吉祥地前行。Śunāsīra因祭物而欢喜,为我们造出果实丰硕的草木。

12.70

घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।
ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व ॥ १२.७० ॥

愿悉多以酥与蜜涂抹,得到诸神与风神(摩录多)的允许。啊,充满滋养、以乳而丰盈的悉多,请带着乳转向我们!

12.71

लाङ्गलं पवीरवत् सुशेवꣳ सोमपित्सरु ।
तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥ १२.७१ ॥

尖锐、极为吉祥、喜爱苏摩的犁,播种那能赐予牛与羊之物——光亮而丰满,承载带台的车与战车。

12.72

कामं कामदुघे धुक्ष्व मित्राय वरुणाय च ।
इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ऽ ओषधीभ्यः ॥ १२.७२ ॥

啊,愿望之牛,请挤出所愿之乳:为弥陀罗与伐楼那,为因陀罗、双马童与布善,为众生与草木!

12.73

वि मुच्यध्वम् अघ्न्या देवयाना ऽ अगन्म तमसस् पारम् अस्य ज्योतिर् आपाम ॥ १२.७३ ॥

啊,不可被伤害者,行于诸神之道者,请得解脱。我们已到黑暗的彼岸;愿我们得到这光明。

12.74

सजूर् अब्दो ऽ अयवोभिः सजूर् उषा ऽ अरुणीभिः सजोषसाव् अश्विना दꣳसोभिः सजूः सूर ऽ एतशेन सजूर् वैश्वानर ऽ इडया घृतेन स्वाहा ॥ १२.७४ ॥

愿岁月与阿耶婆们相连;愿黎明与阿卢尼们相连;愿两位阿什文以其奇妙的业绩欢喜地相连;愿太阳与埃塔沙相连;愿吠舍婆那罗与伊达和酥油相连。娑婆诃。

12.75

या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगं पुरा ।
मनै नु बभ्रूणाम् अहꣳ शतं धामानि सप्त च ॥ १२.७५ ॥

那些在久远的三个时代之前为诸神而先生的草药,我实在知道那些黄褐色草药的一百零七处居所。

12.76

शतं वो ऽ अम्ब धामानि सहस्रम् उत वो रुहः ।
अधा शतक्रत्वो यूयम् इमं मे ऽ अगदं कृत ॥ १२.७६ ॥

母啊,你们有一百处居所,也有一千个嫩芽。所以,具百力的你们,请为我使此成为一剂良药。

12.77

ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा ऽ इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥ १२.७७ ॥

诸草药啊,欢喜吧,开花而结果吧;诸藤蔓啊,如马一般共同取胜,成为助人渡过的力量吧。

12.78

ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे ।
सनेयम् अश्वं गां वास ऽ आत्मानं तव पूरुष ॥ १२.७८ ॥

诸草药啊,诸母啊,我向你们这些神圣者如此说:愿我获得马、牛、衣服与自我——为了你,人啊。

12.79

अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
गोभाज ऽ इत् किलासथ यत् सनवथ पूरुषम् ॥ १२.७९ ॥

你们的座位在菩提树(阿什瓦塔)中,你们的居所在叶子中。你们实是牛群的分享者,因为你们使人获得(财富)。

12.80

यत्रौषधीः समग्मत राजानः समिताव् इव ।
विप्रः स ऽ उच्यते भिषग् रक्षोहामीवचातनः ॥ १२.८० ॥

草药聚集之处,如同集会中的君王,他被称为智慧的医者,驱除罗刹与病患者。

12.81

अश्वावतीꣳ सोमावतीमूर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ऽ ओषधीर् अस्मा अरिष्टतातये ॥ १२.८१ ॥

富含良马、富含苏摩、滋养而充满活力的草药啊,愿你们都保护他,求得无害的安康。

12.82

उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते ।
धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ १२.८२ ॥

草药的力量昂然升起,如同牛群走出牛栏;借由那些赐予财富的草药,啊人啊,愿你的自我得到力量。

12.83

इष्कृतिर् नाम वो माताथो यूयꣳ स्थ निष्कृतीः ।
सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ ॥ १२.८३ ॥

你们的母亲名为伊什克里提,你们自己也是净化者;你们是悉罗,有翅的女神;凡疾病所苦,你们都要驱除。

12.84

अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः ।
ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥ १२.८४ ॥

周围所有的(病害),如窃贼潜入牛栏般越过;草药驱除了身体中一切的过失与罪恶。

12.85

यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ १२.८५ ॥

当我手持这些草药、赋予其力量时,痨病(消耗之症)的灵魂便消亡,正如往昔攫取生命者的消亡。

12.86

यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः ।
ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव ॥ १२.८६ ॥

凡草药遍布每一肢体、每一关节者,以之驱除消耗之病,如猛烈的中等草药(madhyamaśī)一般。

12.87

साकं यक्ष्म प्रपत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ १२.८७ ॥

与鹰及 kikidīvi 鸟一同飞去吧,消耗之病;与风的疾速及向下的猛扑一同灭亡吧。

12.88

अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत ।
ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः ॥ १२.८८ ॥

彼此相护,各自前来相助。你们众草齐心,守护我这番话语吧。

12.89

याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः ।
बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः ॥ १२.८९ ॥

结果的、无果无花的,以及开花的诸草药——由布利诃斯帕提所遣者,愿它们使我们脱离苦难。

12.90

मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत ।
अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात् ॥ १२.९० ॥

请使我脱离诅咒,也脱离伐楼那之索;脱离阎摩脚上的枷锁,脱离一切对诸神的罪过。

12.91

अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि ।
यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥ १२.९१ ॥

从天而降的草药在四周说话:我们所获得其生命的人,必不灭亡。

12.92

या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः ।
तासाम् असि त्वम् उत्तमारं कामाय शꣳ हृदे ॥ १२.९२ ॥

以苏摩为王的众多草药啊,百目者,你们之中你是最好的支撑;为了愿望与心的安宁。

12.93

या ऽ ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु ।
बृहस्पतिप्रसूता ऽ अस्यै सं दत्त वीर्यम् ॥ १२.९३ ॥

以苏摩为王、遍布大地、由布里哈斯帕蒂所生的草药啊,请赋予此物力量。

12.94

याश् चेदम् उपशृण्वन्ति याश् च दूरं परागताः ।
सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥ १२.९४ ॥

听到此声的,以及远去的所有藤蔓啊,请聚集在一起,赋予此物力量。

12.95

मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।
द्विपाच् चतुष्पाद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम् ॥ १२.९५ ॥

我为之挖掘你们的人,愿挖掘者不伤害你们;愿我们的两足与四足众生都无病无痛。

12.96

ओषधयः सम् अवदन्त सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस् तꣳ राजन् पारयामसि ॥ १२.९६ ॥

草药与苏摩王一同说道:婆罗门为之准备的人,王啊,我们将把他渡过去。

12.97

नाशयित्री बलासस्यार्शस ऽउपचिताम् असि ।
अथो शतस्य यक्ष्माणां पाकारोर् असि नाशनी ॥ १२.९७ ॥

你能消除痰与痔疮,能消除肿胀;你也能消除百种痨病,你是消除痛楚的良药。

12.98

त्वां गन्धर्वा ऽअखनꣳस् त्वाम् इन्द्रस् त्वां बृहस्पतिः ।
त्वाम् ओषधे सोमो राजा विद्वान् यक्ष्माद् अमुच्यत ॥ १२.९८ ॥

乾闼婆挖掘了你,因陀罗挖掘了你,布利哈斯帕蒂挖掘了你。啊草药,国王苏摩知晓你后,从消耗病(yakṣma)中解脱了。

12.99

सहस्व मे ऽ अरातीः सहस्व पृतनायतः ।
सहस्व सर्वं पाप्मानꣳ सहमानास्य् ओषधे ॥ १२.९९ ॥

征服我的敌人,征服那些想要战斗的人,征服一切罪恶。啊草药,你是能征服的。

12.100

दीर्घायुस्त ऽ ओषधे खनिता यस्मै च त्वा खनाम्य् अहम् ।
अथो त्वं दीर्घायुर् भूत्वा शतवल्शा वि रोहतात् ॥ १२.१०० ॥

啊草药,愿你的寿命长久,为了那为之挖掘你的人。之后你长寿,以百枝茁壮生长。

12.101

त्वम् उत्तमास्य् ओषधे तव वृक्षा ऽ उपस्तयः ।
उपस्तिर् अस्तु सो स्माकं योऽअस्माꣳ२ऽ अभिदासति ॥ १२.१०१ ॥

啊草药,你是至上的;你的树木是支撑。愿这支撑属于我们,对抗那攻击我们的人。

12.102

मा मा हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा व्यानट् ।
यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥ १२.१०२ ॥

愿生育大地者不伤害我。那以真法为法、遍满天空、最初生出明亮之水的,我们当以祭品敬奉哪一位神?

12.103

अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह ।
वपां ते अग्निर् ऽ इषितो ऽ अरोहत् ॥ १२.१०३ ॥

啊大地,携同祭祀与乳汁,转向我们;被遣出的火神将你的脂肪(vapā)升举而上。

12.104

अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।
तद् देवेभ्यो भरामसि ॥ १२.१०४ ॥

阿耆尼啊,你那明亮、光耀、纯净、适合献祭的,我们把它献给诸神。

12.105

इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् ।
आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम् ॥ १२.१०५ ॥

我从此处取得食物与力量,即真理之胎、水牛之流。愿它入于我,在牛群中,在身体中;我舍弃衰耗与疾病。

12.106

अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो ।
बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥ १२.१०६ ॥

阿耆尼啊,你的名声与力量宏大,你的火焰闪耀。大光之神啊,你以力量赐予施主值得赞颂的食物,智者啊。

12.107

पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना ।
पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे ॥ १२.१०७ ॥

你具有净化者的光辉、纯净的光辉与圆满的光辉,以你的光明升起。作为儿子在两位母亲之间往来,你充满两个世界。

12.108

ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।
त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥ १२.१०८ ॥

力量之孫,生智者啊,以善颂与祈思而欢喜吧,你是被安置者。在你之中,形态众多、助力奇妙、生于吉祥者,安放了食物。

12.109

इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य ।
स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥ १२.१०९ ॥

阿耆尼啊,愿你欲望,在众生之中为我们展开财富,不死者啊。你从那美丽的形体中显耀;你充满丰盛的誓愿。

12.110

इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः ।
रातिं वामस्य सुभगां महीम् इषं दधासि सानसिꣳ रयिम् ॥ १२.११० ॥

阿耆尼啊,你是祭祀的主持者,智慧的,居于大富之中。你持有殊胜的赠予、吉祥的广大食物,以及可得的财富。

12.111

ऋतावानं महिषं विश्वदर्शतम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १२.१११ ॥

具有真理的、伟大的、为一切所见的阿耆尼,被人们置于前方以求福祉。啊,听觉敏捷的、最负盛名者,我们以颂歌呼唤你;天上与人间的世代承载着你。

12.112

आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥ १२.११२ ॥

啊,苏摩,充分地增长吧;愿刚健的力量从四面八方来到你身边。在竞争中成为胜利的力量。

12.113

सं ते पयाꣳसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो ऽ अमृताय सोम दिवि श्रवाꣳस्य् उत्तमानि धिष्व ॥ १२.११३ ॥

愿你的乳汁精华聚集而来,力量与刚健的威力也聚集而来,以及战胜敌人的力量也来。啊,苏摩,为不死而增长,在天上确立至高的名声。

12.114

आ प्यायस्व मदिन्तम सोम विश्वेभिर् अꣳशुभिः ।
भवा नः सुश्रवस्तमः सखा वृधे ॥ १२.११४ ॥

啊,最令人欢畅的苏摩,以你一切光芒充分增长吧。为我们成为最有名望的朋友,以促进我们的增长。

12.115

आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।
अग्ने त्वां कामया गिरा ॥ १२.११५ ॥

愿小牛即使从远方、即使从共同的所在,也将其心转向你。啊,阿耆尼,我以充满渴望的颂歌呼唤你。

12.116

तुभ्यं ता ऽ अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिरे ॥ १२.११६ ॥

最勇猛的安吉罗斯啊!所有安居的部族各自都属于你;阿耆尼啊,他们为了满足愿望而依附于你。

12.117

अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
सम्राड् एको वि राजति ॥ १२.११७ ॥

阿耆尼在可爱的住所中作为欲望而存在,属于过去与未来之物;作为唯一的至尊君主,他光辉照耀。